वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 43, कुल 106 में से
संदर्भ में पढ़ें२९ स्वगृह्याणां कुमारीबालवृद्धतरुणप्रजाताः ॥ ७ ॥ ततोपरान्गृह्यान् ॥ ८ ॥ श्वचाण्डालपतितवायसेभ्यो भूमौ निर्वपेत् ॥ ९ ॥ शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्यात् ॥ १० ॥ शेषं दम्पती भुञ्जीयाताम् ॥ ११ ॥ सर्वोपयोगेन पुनःपाको यदि निरुप्ते वैश्वदेवेतिथिरागच्छेद्द्वि- शेषेणास्मा अन्नं कारयेत् ॥ १२ ॥ विज्ञायते हि । वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहं तस्मादप आनयन्त्यन्नं वर्षाभ्यस्तां हि शान्तिं जना विदुरिति ॥ १३ ॥ तं भोजयित्वोपासीत ॥ १४ ॥ आसीमान्तमनुव्रजेदनुज्ञानाद्वा ॥ १५ ॥ अपरपक्ष ऊर्ध्वं चतुर्थ्याः पितृभ्यो दद्यात् ॥ १६ ॥ पूर्वेद्युर्ब्राह्मणान्सन्निपात्य यतीन्गृहस्थान्साधूनवापरिणतवयसो विकर्मस्थाञ्श्रोत्रियानशिष्याननन्तेवासिनः ॥ १७ ॥ शिष्यानपि गुणवतो भोजयेत् ॥ १८ ॥ नग्नशुक्लक्लीवान्धश्यावदन्तकुष्ठिकुनखिवर्जम् ॥ १९ ॥ अथाप्युदाहरन्ति । अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदुष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ २० ॥ 7. We follow Govindasvāmin's reading on Baudhāyana II. 7, 13, 5, whilst B. Bh. E. F. H. read प्रदाताः Ban. ed. प्रदाता, Calc, ed. प्रभूतीन्. see Bühler, Transl. 50, 356. 12. पुनः पाके Ban. ed निरुक्ते Bh. E.H. विशेषणास्मा E. K. 15 सीमान्तादनु° H. 19. विर्नग्न° B. F. H. विलग्न° marginal gloss in B. °शुक्लविगृधिश्याव H.