वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
खट्वाशयनदन्तधावनप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी ॥१५॥ तिष्ठेदहनि रात्रावासीत ॥ १६ ॥ त्रिरह्नोऽभ्युपेयादप इत्यप इति ॥ १७ ॥ इति वासिष्ठधर्मशास्त्रे सप्तमोऽध्यायः ॥ ७ ॥ गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वासमानार्षेयामस्पृष्ट- मैथुनामवरवयसीं सदृशीं भार्यां विन्देत ॥ १ ॥ पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः ॥ २ ॥ वैवाहिकमग्निमिन्धीत ॥ ३ ॥ सायमागतमतिथिं नापरुन्ध्यात् ॥ ४ ॥ नास्यानश्नन्गृहे वसेत् ॥ ५ ॥ यस्य नाश्नाति वासार्थी ब्राह्मणो गृहमागतः । सुकृतं तस्य यत्किंचित्सर्वमादाय गच्छति ॥ ६ ॥ एकरात्रं तु निवसन्मतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ७ ॥ नैकग्रामीण अतिथिविप्रः साङ्गतिकस्तथा । काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ॥ ८ ॥ श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ॥ ९ ॥ अलं च सोमाय नासोमयाजी ॥ १० ॥ युक्तः स्वाध्याये यज्ञे प्रजनने च ॥ ११ ॥ गृहेष्वभ्यागतं प्रत्युत्थानासनवाक्सूनृतानसूयाभिर्महयेत् ॥ १२ ॥
VIII. 3. इन्धीन्वत Bh. E. H. 4. ॰अवरुन्ध्यात् F. 6. गच्छतीति Bh. E. H. 8. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा F. H. प्राप्ते जले वा E. 10. सोमपानात्सोमयाजी F. 12. प्रत्युत्थानाशनशयनवाक् F. H.
२५ यथाशक्ति चान्नेन सर्वाणि भूतानि ॥ १३ ॥ गृहस्थ एव यजते गृहस्थस्तप्यते तपः । चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥ १४ ॥ यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् । सागरे इति मनौ (६।८९) 'तथैवा' एवमाश्रमिनः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ १५ ॥ इति मनौ। यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥ १६ ॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । ऋतौ च गच्छन्विधिवच्च जुह्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ ब्रह्मलोकादिति ॥ १७ ॥ इति वासिष्ठधर्मशास्त्रेऽष्टमोऽध्यायः ॥ ८ ॥ वानप्रस्थो जटिलश्चीराजिनवासी ॥ १ ॥ ग्रामं च न प्रविशेत् ॥ २ ॥ न फालकृष्टमधितिष्ठेत् ॥ ३ ॥ अकृष्टं मूलफलं सञ्चिन्वीत ॥ ४ ॥ उर्ध्वरेताः ॥ ५ ॥ क्षमाशयः ॥ ६ ॥ मूलफलभैक्षेणाश्रमागतमतिथिमभ्यर्चयेत् ॥ ७ ॥ 13. सर्वभूतानि B. H. 14. च instead of तु F. H. गृहस्थस्तु F. H IX. 1. वानप्रस्थः प्रव्राजनो जटि° H. 3. °अभितिष्ठेत् H. 6. क्षामाशयः F 7. °भक्षेण° H.
३६ दद्यादेव न प्रतिगृह्णीयात् ॥ ८ ॥ वानप्रस्थमुद्दिश्योक्तमिदमुदन्तं वचः। त्रिषवणमुदकोपस्पर्शी ॥ ९ ॥ श्रामणकेनाग्निमाधायाहिताग्निः स्यात् ॥ १० ॥ वृक्षमूलनिकेतन ऊर्ध्वं षड्भ्यो मासेभ्योनग्निरनिकेतः ॥ ११ ॥ दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमित्यानन्त्यम् ॥ १२॥ इति वासिष्ठधर्मशास्त्रे नवमोऽध्यायः ॥ ९ ॥ परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत ॥ १ ॥ अथाप्युदाहरन्ति । अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ २ ॥ अभयं सर्वभूतेभ्योदत्त्वा यस्तु निवर्त्तते । हन्ति जातानजातांश्च द्रव्याणि प्रतिगृह्य च ॥ ३ ॥ सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत् । वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत् ॥ ४ ॥ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । — अयं पूर्वार्द्धः २।८३ इत्यत्र मानवे दृश्यते। उपवासात्परं भैक्षं दया दानाद्विशिष्यत इति ॥ ५ ॥ मुण्डोममोपरिग्रहः ॥ ६ ॥ सप्तागाराण्यसङ्कल्पितानि चरेद्भिक्षाम् ॥ ७ ॥ विधूमे सन्नमुसले ॥ ८ ॥ एकशाटीपरिहितः ॥ ९ ॥ 8. द्रव्यादेव ते प्रति° H. 9. उदकमास्पृशेत् F. 10. श्रावणकेन B. Ban. ed. F. 11. आवर्णकेण E. Bh. 11. वृक्षमूलिकः B. F. H. X. 1. °पक्षिणां H. 4. सन्न्यजेत् instead of सन्न्यसेत् B. Ban. ed. H.5. °यामः F. H. मतः instead of तपः E. 6. अमयो° H. 7. भैक्षं F. H. सप्तगौराणि H. 9. °परिवृतः F.
२. अध्याय ७-१५: भक्ष्य-अभक्ष्य, शुद्धि व पंचमहायज्ञ
३७ अजिनेन वा गोप्रलूनैस्तृणैरवस्तृतशरीरः ॥ १० ॥ स्थण्डिलशायी ॥ ११ ॥ अनित्यां वसतिं वसेत् ॥ १२ ॥ ग्रामान्ते देवगृहे शून्यागारे वा वृक्षमूले वा ॥ १३ ॥ मनसा ज्ञानमधीयानः ॥ १४ ॥ अरण्यनित्यः ॥ १५ ॥ न ग्राम्यपशूनां सन्दर्शने विचरेत् ॥ १६ ॥ अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्येति ॥ १७ ॥ अव्यक्तलिङ्गोऽव्यक्तचारः ॥ १८ ॥ अनुन्मत्त उन्मत्तवेषः ॥ १९ ॥ अथाप्युदाहरन्ति । न शब्दशास्त्रभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य । न भोजनाच्छादनतत्परस्य न चापि रम्यावसथप्रियस्य ॥ २० ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । (मनौ ६।५०।।) नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ २१ ॥ अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । (मनौ ६।५७।।) प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विवर्जितः ॥ २२ ॥ 10. गोत्रलूनैः Bh. E H. 17. अथाप्युदाहरन्ति B. F. H. बुधः instead of ध्रुवाः E. 19. अनुन्मत्तवेणः H. 22. ॰विनिर्गतः B. F.
न कुट्यां नोदके सङ्गो न चैले न त्रिपुष्करे । नागारे नासने नान्ने यस्य वै मोक्षवित्तु स इति ॥ २३ ॥ ब्राह्मणकुले यावल्लभेत तद्भुञ्जीत सायं प्रातर्मधुमांसवर्जम् ॥ २४ ॥ न च तृप्येत् ॥ २५ ॥ ग्रामे वा वसेत् ॥ २६ ॥ अजिह्वोऽशढोऽशरणोऽवसङ्कुसुकः ॥ २७ ॥ न चेन्द्रियसंसर्गं कुर्वीत केनचित् ॥ २८ ॥ उपेक्षकः सर्वभूतानां हिंसानुग्रहपरिहारेण ॥ २९ ॥ पैशुन्यमत्सराभिमानाहङ्काराश्रद्धानानार्जवात्मस्तवपरगर्हादम्भलोभ- मोहक्रोधासूयाविवर्जनं सर्वाश्रमाणां धर्म इष्टः ॥ ३० ॥ यज्ञोपवीत्युदकमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नवर्जी न हीयते ब्रह्मलोकाद्ब्रह्मलोकादिति ॥ ३१ ॥ इति वासिष्ठधर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥ षडर्हार्हा भवन्ति ॥ १ ॥ ऋत्विग्विवाह्यो राजापितृव्यस्नातकमातुलाश्च ॥ २ ॥ वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ॥ ३ ॥ गृहदेवताभ्यो बलिं हरेत् ॥ ४ ॥ श्रोत्रियायाग्रभागं दत्त्वा ब्रह्मचारिणे वानन्तरं पितृभ्यो दद्यात् ॥ ५ ॥ ततोऽतिथिं भोजयेच्छ्रेयांसं श्रेयांसमानुपूर्व्येण ॥ ६ ॥ 23. कुड्यां F. H. 24. After this Sūtra F. only reads : यतीन्साधून्वा गृहस्थः तृप्येत् । 27. °अशवः instead of °अशढः Bh. E. अवसङ्कसुकः B. Ban. ed. E. 30. स्तेयं instead of असूया H. XI, 1. षडर्घ्याः Bh. E. H. 2. वैवाह्यः H. 5. श्रोत्रियायान्नं दत्त्वा H.
२९ स्वगृह्याणां कुमारीबालवृद्धतरुणप्रजाताः ॥ ७ ॥ ततोपरान्गृह्यान् ॥ ८ ॥ श्वचाण्डालपतितवायसेभ्यो भूमौ निर्वपेत् ॥ ९ ॥ शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्यात् ॥ १० ॥ शेषं दम्पती भुञ्जीयाताम् ॥ ११ ॥ सर्वोपयोगेन पुनःपाको यदि निरुप्ते वैश्वदेवेतिथिरागच्छेद्द्वि- शेषेणास्मा अन्नं कारयेत् ॥ १२ ॥ विज्ञायते हि । वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहं तस्मादप आनयन्त्यन्नं वर्षाभ्यस्तां हि शान्तिं जना विदुरिति ॥ १३ ॥ तं भोजयित्वोपासीत ॥ १४ ॥ आसीमान्तमनुव्रजेदनुज्ञानाद्वा ॥ १५ ॥ अपरपक्ष ऊर्ध्वं चतुर्थ्याः पितृभ्यो दद्यात् ॥ १६ ॥ पूर्वेद्युर्ब्राह्मणान्सन्निपात्य यतीन्गृहस्थान्साधूनवापरिणतवयसो विकर्मस्थाञ्श्रोत्रियानशिष्याननन्तेवासिनः ॥ १७ ॥ शिष्यानपि गुणवतो भोजयेत् ॥ १८ ॥ नग्नशुक्लक्लीवान्धश्यावदन्तकुष्ठिकुनखिवर्जम् ॥ १९ ॥ अथाप्युदाहरन्ति । अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदुष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ २० ॥ 7. We follow Govindasvāmin's reading on Baudhāyana II. 7, 13, 5, whilst B. Bh. E. F. H. read प्रदाताः Ban. ed. प्रदाता, Calc, ed. प्रभूतीन्. see Bühler, Transl. 50, 356. 12. पुनः पाके Ban. ed निरुक्ते Bh. E.H. विशेषणास्मा E. K. 15 सीमान्तादनु° H. 19. विर्नग्न° B. F. H. विलग्न° marginal gloss in B. °शुक्लविगृधिश्याव H.
श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् । श्च्योतन्ते हि सुधाधारास्ताः पिबन्त्यकृतोदकाः ॥ २१ ॥ उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः । क्षीरधारास्ततो यान्त्यक्षय्याः सञ्चरभागिनः ॥ २२ ॥ प्राक्संस्कारात्प्रमीतानां स्ववंश्यानामिति स्थितिः । भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥ २३ ॥ उच्छेषणं भूमिगतं विकिरं लेपनोदकम् । अन्नं प्रेतेषु विसृजेदप्रजानामनायुषाम् ॥ २४ ॥ उभयोर्हस्तयोर्मुक्तं पितृभ्योन्नं निवेदितम् । तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ॥ २५ ॥ तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम् । भोजनं वा समालभ्य तिष्ठेतोच्छेषणे उभे ॥ २६ ॥ द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा । — (मनौ ३।१२५॥) भोजयेत्सुसमृद्धोपि न प्रसञ्जेत विस्तरे ॥ २७ ॥ सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । (मनौ ३।१२६॥) पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ २८ ॥ अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतशीलोपसंपन्नं सर्वलक्षणवर्जितम् ॥ २९ ॥ यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ ३० ॥ 21. श्च्योतन्ते वै. B. Ban. ed. श्च्योतन्ति हिंस्रधारास्ताः F. २२ पङ्क्तिभागिन. F. 23. संप्रवेशनामिति श्रुतिः Bh. E. F. H. लेपमोदकं. B.Ban. ed. H. अनु- प्रेतेषु B. Ban. ed. H. 25. उभयोः शाखयोः B. पार्श्वयोः F. H. 26. कुर्यादर्भ मुप° F. 27. देवे read all Mss with exception of. F. K. प्रसज्येत B. Ban. ed. F. H.
३१ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदग्नौ तदन्नं वा दद्याद्वा ब्रह्मचारिणे ॥ ३१ ॥ यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः । तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ३२ ॥ हविर्गुणा न वक्तव्याः पितरो यावदतर्पिताः । पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ ३३ ॥ नियुक्तस्तु यतिः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशूरोमाणि तावन्नरकमृच्छति ॥ ३४ ॥ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ ३५ ॥ दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥ ३६ ॥ श्राद्धं दत्त्वा भुक्त्वा च मैथुनं योधिगच्छति । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३७ ॥ यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम् । न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ॥ ३८ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ ३९ ॥ मधुमांसैश्च शाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥ ४० ॥ सन्तानवर्द्धनं पुत्रमुद्यतं पितृकर्मणि । देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥ ४१ ॥ 31. तदन्नं तु B. H. 33. अर्पिताः B. H. F. 36. नाम instead of ज्ञेय Bh. E. H. 38. विद्यामवाप्नोति F. H. 41. पुत्र तृप्यन्तं B. Ban. ed. H तृप्यन्तं F. पुत्रतृपन्तः Bh. E. तृप्यन्त Calc. ed. वासिष्ठधर्म ५.
३२ नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः । यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिण इति ॥ ४२ ॥ श्रावण्याग्रहायण्योश्चान्वष्टक्यां च पितृभ्यो दद्यात् ॥ ४३ ॥ द्रव्यदेशब्राह्मणसन्निधाने वाकालनियमः ॥ ४४ ॥ अवश्यं ब्राह्मणोऽग्नीनादधीत ॥ ४५ ॥ दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश्च यजेत ॥ ४६ ॥ नैयमिकं ह्येतदृणसंस्तुतं च ॥ ४७ ॥ विज्ञायते हि । त्रिभिर्ऋणैर्ऋणवान्ब्राह्मणो जायत इति । यज्ञेन देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वानृणो यज्वा यः पुत्री ब्रह्मचर्यवानिति ॥ ४८ ॥ गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ ४९ ॥ गर्भादेकादशेषु राजन्यम् ॥ ५० ॥ गर्भाद्वादशेषु वैश्यम् ॥ ५१ ॥ पालाशो वा दण्डो ब्राह्मणस्य ॥ ५२ ॥ नैयग्रोधः क्षत्रियस्य वा ॥ ५३ ॥ औदुम्बरो वा वैश्यस्य ॥ ५४ ॥ केशसंमितो ब्राह्मणस्य ॥ ५५ ॥ ललाटसंमितः क्षत्रियस्य ॥ ५६ ॥ घ्राणसंमितो वैश्यस्य ॥ ५७ ॥ मौञ्जी रशना ब्राह्मणस्य ॥ ५८ ॥ धनुर्ज्या क्षत्रियस्य ॥ ५९ ॥ शणतान्तवी वैश्यस्य ॥ ६० ॥ 42. तन्वन्ति B. Bh. 45. अवश्यं च B. H. 47. ऋण संस्तुतं Bh. F. H. संस्कृतं B. Ban. ed. 48. येन instead of यज्ञेन H. 52. पालाशो बैल्वो वा F. H. 55-60 wanted in F. H. 57. घ्राण° Āśvalāyanagṛihyas. 1,19,13.
३३
कृष्णाजिनमुत्तरीयं ब्राह्मणस्य ॥ ६१ ॥ रौरवं क्षत्रियस्य ॥ ६२ ॥ गव्यं बस्ताजिनं वा वैश्यस्य ॥ ६३ ॥ शुक्लमहतं वासो ब्राह्मणस्य ॥ ६४ ॥ माञ्जिष्ठं क्षत्रियस्य ॥ ६५ ॥ हारिद्रं कौशेयं वा वैश्यस्य ॥ ६६ ॥ सर्वेषां वा तान्तवमरक्तम् ॥ ६७ ॥ भवत्पूर्वां ब्राह्मणो भिक्षां याचेत ॥ ६८ ॥ भवन्मध्यां राजन्यः ॥६९ ॥ भवदन्त्यां वैश्यः ॥ ७० ॥ आ षोडशाद्ब्राह्मणस्य नातीतः कालः ॥ ७१ ॥ आ द्वाविंशात्क्षत्रियस्य ॥ ७२ ॥ आ चतुर्विंशाद्वैश्यस्य ॥ ७३ ॥ अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ७४ ॥ नैतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥ ७५ ॥ पतितसावित्रीक उद्दालकव्रतं चरेत् ॥ ७६ ॥ द्वौ मासौ यावकेन वर्तेयेन्मासं पयसार्धमासमाभिक्षयाष्टरात्रं घृतेन षड्ररात्रमयाचितेन त्रिरात्रमब्भक्षोहोरात्रमुपवसेत् ॥ ७७ ॥ अश्वमेधावभृथं गच्छेत् ॥ ७८ ॥ व्रात्यस्तोमेन वा यजेद्वा यजेद्वेति ॥ ७९ ॥ इति वासिष्ठधर्मशास्त्र एकादशोध्यायः ॥ ११ ॥
- वस्त्राजिनं F. H. 68. भिक्षयीत H. 77. त्रिरात्रमम्बुभ° F. H. 79. यजेदिति read all Mss except K.
३४ अथातः स्नातकव्रतानि ॥ १ ॥ स न कंचिद्याचेतान्यत्र राजान्तेवासिभ्यः ॥ २ ॥ क्षुधापरीतस्तु किंचिदेव याचेत कृतमकृतं वा क्षेत्रं गामजाविक- मन्ततो हिरण्यं धान्यमन्नं वा ॥ ३ ॥ न तु स्नातकः क्षुधावसीदेदित्युपदेशः ॥ ४ ॥ न मलिनवाससा सह संवसेत ॥ ५ ॥ न रजस्वलया ॥ ६ ॥ नायोग्यया ॥ ७ ॥ न कुलंकुलः स्यात् ॥ ८ ॥ वत्सतन्त्रीं विततां नातिक्रामेत् ॥ ९ ॥ नोद्यन्तमादित्यं पश्येन्नास्तं यन्तम् ॥ १० ॥ नाप्सु मूत्रपुरीषे कुर्यात् ॥ ११ ॥ न निष्ठीवेत् ॥ १२ ॥ परिवेष्टितशिरा भूमियमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यादु दङ्मुखश्चाहनि नक्तं दक्षिणामुखः सन्ध्यामासीतोत्तरम् ॥ १३ ॥ अथाप्युदाहरन्ति स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥ १४ ॥ अप्सु पाणौ च काष्ठे च कथितं पावके शुचिः तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥ १५ ॥ पर्यग्निकरणं ह्येतन्मनुराह प्रजापतिः ॥ १६ ॥ कृत्वा चावश्यकर्माणि आचामेच्छौचवित्तम इति ॥ १७ ॥ XII. 6. Thus all MSS., but this Sūtra has to be read नारज- स्खलया. 10. पश्येन्नादित्य यन्तं H. 13. °उत्तरा Bh. E. F. H. 17. चावे- श्यकार्याणि Bh. E. F. H. °वित्तत इति B. Bh. E. F. H.
३५ प्राङ्मुखोन्नानि भुञ्जीत ॥ १८ ॥ तूष्णीं साङ्गुष्ठं कृत्स्नग्रासं ग्रसेत ॥ १९ ॥ न च शब्दं कुर्यात् ॥ २० ॥ ऋतुकालगामी स्यात्पर्ववर्जं स्वदारेषु ॥ २१ ॥ अतियंगुपेयात् ॥ २२ ॥ अथाप्युदाहरन्ति यस्तु पाणिगृहीताया आस्ये कुर्वीत मैथुनम् । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः या स्यादनित्यचारेण रतिः साधर्मसंश्रिता ॥ २३ ॥ अपि च काठके विज्ञायते । अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयीरन्निति स्त्रीणामिन्द्रदत्तो वर इति ॥ २४ ॥ न वृक्षमDictated -> न वृक्षमारोहेत् ॥ २५ ॥ न कूपमवरोहेत् ॥ २६ ॥ नाग्निं मुखेनोपधमेत् ॥ २७ ॥ नाग्निं ब्राह्मणं चान्तरेण व्यपेयात् २८ ॥ नाग्न्योः ॥ २९ ॥ न ब्राह्मणयोरनुज्ञाप्य वा ॥ ३० ॥ भार्यया सह नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते ॥ ३१ ॥ नेन्द्रधनुर्नाम्ना निर्दिशेत् ॥ ३२ ॥ मणिधनुरिति ब्रूयात् ॥ ३३ ॥ 20. मुखशब्दं B. F. H. 21. स्वादारैवं; स्त्रियमुपेयात् F. स्वदारेवं तीर्थमुपेयत Bh. E. H. 24. अद्य श्वा वा विजनिष्यमानाभिः F. H. अपि च नश्वयो E. अविनस्यो Bh. इन्द्रदत्तात् E. 25. तावन्न वृ° F. H. 28. च्यवेत?H.
३६ पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ ३४ ॥ नोत्सङ्गे भक्षयेत् ॥ ३५ ॥ नासन्द्यां भुञ्जीत ॥ ३६ ॥ वैणवं दण्डं धारयेत् ॥ ३७ ॥ रुक्मकुण्डले च ॥ ३८ ॥ न बहिर्मालां धारयेदन्यत्र रुक्ममय्या ॥ ३९ ॥ ॰मय्याः इतिस्यात् सभाः समवायांश्च वर्जयेत् ॥ ४० ॥ अथाप्युदाहरन्ति अप्रामाण्यं च वेदानामार्षाणां चैव कुत्सनम् अव्यवस्था च सर्वत्र एतन्नाशनमात्मन इति ॥ ४१ ॥ नावृतो यज्ञं गच्छेदयदि व्रजेत्प्रदक्षिणं पुनराव्रजेत् ॥ ४२ ॥ अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ॥ ४३ ॥ नावं च सांशयिकीं नाधिरोहेत् ॥ ४४ ॥ बाहुभ्यां न नदीं तरेत् ॥ ४५ ॥ उत्थायापररात्रमधीत्य न पुनः प्रतिसंविशेत् ॥ ४६ ॥ प्राजापत्ये मुहूर्ते ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति॥४७॥ इति वासिष्ठधर्मशास्त्रे द्वादशोऽध्यायः ॥ १२ ॥ ―――― अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा ॥ १ ॥ अग्निमुपसमाधायाक्षतधाना जुहोति ॥ २ ॥ ―――― 36. आसन्द्यां न भुञ्जीत Bh. E. H. 39. माल्यं Bh. E. 40. सभाः समवा- यांश्च वर्क्षीयन्न F. H. जर्वीयन्न Bh. सभासमवायान्नाावजयेत् B. सभासमेधाया त्रावर्भवेत् E. नावजयेत K. 41. एवं नाशनं F. 45. wanted in Ban. ed. XIII. 2. उपसमाधाय कृतधानाः H.
३७ देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ ३ ॥ ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुर्वीरन् ॥ ४ ॥ अर्धपञ्चमान्मासानर्धषष्ठान्वा ॥ ५ ॥ अत ऊर्ध्वं शुक्लपक्षेष्वधीयीत ॥ ६ ॥ कामं तु वेदाङ्गानि ॥ ७ ॥ तस्यानध्यायाः ॥ ८ ॥ सन्ध्यास्तनिते ॥ ९ ॥ सन्ध्यासु ॥ १० ॥ अन्तःशवदिवाकीर्त्येषु नगरेषु ॥ ११ ॥ कामं गोमयपर्युषिते परिलिखिते वा ॥ १२ ॥ श्मशानान्ते ॥ १३ ॥ शयानस्य ॥ १४ ॥ श्राद्धिकस्य ॥ १५ ॥ मानवं चात्र श्लोकमुदाहरन्ति । फलान्यपस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् । प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता इति ॥ १६ ॥ धावतः पूतिगन्धप्रभृताविरिणे ॥ १७ ॥ वृक्षारूढस्य ॥ १८ ॥ नावि सेनायां च ॥ १९ ॥ भुक्त्वा चार्द्रपाणेः ॥ २० ॥ वाणशब्दे ॥ २१ ॥ चतुर्दश्यामामावास्यायामष्टम्यामष्टकासु ॥ २२ ॥ 4. अर्धपञ्चमासान् Bh. E. 16. फलान्यापः E. Bh. K. °यथान्यत्° B. H. 17. गन्धिप्रभृतीरिणे B. H. गन्धप्रभृताव्रण E.
३९ प्रसारितपादोपस्थकृतोपाश्रितस्य च ॥ २३ ॥ गुरुसमीपे ॥ २४ ॥ मैथुनव्यपेतायाम् ॥ २५ ॥ वाससा मैथुनव्यपेतेनानिर्णिंक्तेन ॥ २६ ॥ ग्रामान्ते ॥ २७ ॥ छर्दितस्य ॥ २८ ॥ मूत्रितस्योच्चारितस्य ॥ २९ ॥ ऋग्यजुषां च सामशब्दे वा ॥ ३० ॥ अजीर्णे ॥ ३१ ॥ निर्घाते ॥ ३२ ॥ भूमिचलने ॥ ३३ ॥ चन्द्रसूर्योपरागे ॥ ३४ ॥ दिङ्नादपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिकम् ॥ ३५ ॥ उल्काविद्युत्समासे त्रिरात्रम् ॥ ३६ ॥ उल्काविद्युत्सज्योतिषम् ॥ ३७ ॥ अपर्तावकालिकम् ॥ ३८ ॥ आचार्ये प्रेते त्रिरात्रम् ॥ ३९ ॥ आचार्यपुत्रशिष्यभार्यास्वहोरात्रम् ॥ ४० ॥ ऋत्विक्श्वशुरपितृव्यमातुलाननवश्वयसः प्रत्युत्थायाभिवदेत् ॥ ४१॥ ये चैव पादग्राह्यास्तेषां भार्या गुरोश्च ॥ ४२ ॥ 34. ॰उपरागेषु H. 35. दिङ्नाद्॰ B. H. दिग्दाह॰ Ban. ed. 35. ॰पर्वता नादार्वाकम्पप्र॰ B. Bh. E. H. 39. आचार्र्ये च B. F. H. 40. After this Sūtra H. only reads : ऋत्विग्योनिसंबन्धेषु च गुरोः पादोपसंग्रहणं कार्यम् । 41 ॰वन्देत् Bh. E. H.
मातापितरौ च ॥ ४३ ॥ यो विद्यादभिवादितुमहंमयं भो इति यात् ॥ ४४ ॥ यश्च न विद्यात् ॥ ४५ ॥ प्रत्यभिवादमामन्त्रिते स्वरोन्त्यः प्लूयते सन्ध्यक्षरमप्रगृह्यमायाद्- भावं चापद्यते यथा भो भाविति ॥ ४६ ॥ पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ॥ ४७ ॥ अथाप्युदाहरन्ति । उपाध्यायाद्दशाचार्या आचार्याणां शतं पिता । पितुर्दशशतं माता गौरवेणातिरिच्यते ॥ ४८ ॥ भार्या पुत्राश्च शिष्याश्च संसृष्टाः पापकर्मभिः । परिभाष्य परित्याज्याः पतितो योन्यथा त्यजेत् ॥ ४९ ॥ ऋत्विगाचार्यावयाजकानध्यापकौ हेयावन्यत्र हानात्पतति ॥५०॥ पतितेनोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः ॥ ५१ ॥ सा हि परगामिनी ॥ ५२ ॥ तामरिक्थामुपेयात् ॥ ५३ ॥ गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिरिष्यते । गुरुवद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः ॥ ५४ ॥ शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य ॥ ५५ ॥ विद्यावित्तवयःसंबन्धाः कर्म च मान्यम् ॥ ५६ ॥ पूर्वः पूर्वो गरीयान् ॥ ५७ ॥ स्थविरबालातुरभारिकस्त्रीचक्रीवगतां पन्थाः समागमे परस्मै- परस्मै देयः ॥ ५८ ॥ राजस्नातकयोः समागमे राज्ञा स्नातकाय देयः ॥ ५९ ॥ 47. Compare Āpast. Dh. I, 28, 9 ; माता तु पुत्रं B. Bh. F. वा. ध. ६.
४० सर्वैरैव वध्वा ऊह्यमानायै ॥ ६० ॥ तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सतां गृहे नोच्छिद्यन्ते कदा च न कदा च नेति ॥ ६१ ॥ इति वासिष्ठधर्मशास्त्रे त्रयोदशोऽध्यायः ॥ १३ ॥ ―――― अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ १ ॥ चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ढपतितानामन्नमभो- ज्यम् ॥ २॥ कदर्यदीक्षितबद्धादुरसोमविक्रायितक्षरजकशौण्डिकसूचकवार्धुषिक- चर्मावकृन्तानाम् ॥ ३ ॥ शूद्रस्य च ॥ ४ ॥ अस्त्रभृतश्च ॥ ५ ॥ उपपतेर्यश्चोपपतिं मन्यते ॥ ६ ॥ यश्च गृहान्दहेत् ॥ ७ ॥ यश्च वधार्हाञ्चोपहन्यात् ॥ ८ ॥ को भोक्ष्यत इति वाचाभिघुष्टम् ॥ ९ ॥ गणान्नं गणिकान्नं चेति ॥ १० ॥ अथाप्युदाहरन्ति । नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः । भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे इति ॥ ११ ॥ ―――― XIV. 2. शठ° instead of °षण्ढ° B. Ban. ed. °खण्ड° H. 3. °बद्धासु- रसोम° H. °विक्रयितक्षक° Bh. E. H. विक्रयितस्कररजक° F. °सूचिक° B. Ban. ed. E. F. H. 5. अस्त्रपूतस्य H. 6. °उपपत्तिं F. यश्चोपरि B. Ban. ed.
[Page Header] ४१
एधोदकयवसकुशलाज(भ्युद्यतथानावसथशफरीप्रियङ्गुस्रग्गन्धम- धुमांसानीत्येतेषां प्रतिगृह्णीयात् ॥ १२ ॥ अथाप्युदाहरन्ति । गुर्वर्थं दारमुज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं तत इति ॥ १३ ॥ न मृगयोरिषुचारिणः परिवर्ज्यमन्नम् ॥ १४ ॥ विज्ञायते हि । अगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चचार । तस्यांसंतरसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥ १५ ॥ अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति । उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् । भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ॥ १६ ॥ श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः । न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् ॥ १७ ॥ न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ १८ ॥ चिकित्सक्स्य मृगयोः शल्यहर्तुस्तु पापिनः । षण्ढस्य कुलटायाश्च उद्यतापि न गृह्यत इति ॥ १९ ॥ उच्छिष्टमगुरोर्भोज्यम् ॥ २० ॥ खमुच्छिष्टमुच्छिष्टोपहतं च ॥ २१ ॥ यद्श्वसनकेशकीटोपहतं च ॥ २२ ॥ कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनावकीर्य वाचा प्रशस्त- मुपयुञ्जीत ॥ २३ ॥
- Ban. ed. F. H. connect विज्ञायते हि with the preceding Sūtra
- पाशिनः Bh. E. पाशिकः H. खण्डस्य E. H. 23. भोक्ष्य F. H.
४२ अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति । त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ २४ ॥ देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च । काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विसर्जयेत् ॥ २५ ॥ तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति । द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन तु ॥ २६ ॥ मार्जारमुखसंस्पृष्टं शुचि एव हि तद्भवेत् ॥ २७ ॥ अन्नं पर्युषितं भावदुष्टं सहल्लेखं पुनःसिद्धमाममांसं पक्वं च ॥ २८ ॥ कामं तु दध्ना घृतेन वाभिघारितमुपयुञ्जीत ॥ २९ ॥ अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति । घृतं वा यदि वा तैलं विप्रो नाद्यान्नखश्च्युतम् । यमस्तदशुचि प्राह तुल्यं गोमांसभक्षणैः ॥ ३० ॥ हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च । दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् ॥ ३१ ॥ प्रदद्यान्न तु हस्तेन नायसेन कदा च नेति ॥ ३२ ॥ लशुनपलाण्डुक्याकुगृञ्जनश्लेष्मान्तकवृक्षनिर्यासलोहितव्रश्चनश्व— काकावलीढशूद्रोच्छेपणभोजनेष्वतिकृच्छ्रः ॥ ३३ ॥ सन्धिनीक्षीरमवत्साक्षीरम् ॥ ३४ ॥ गोमहिष्यजानामनिर्दशाहानाम् ॥ ३५ ॥ 27. जाङ्गलमुख° H. शुचिरेव thus all MSS. 28. सुरूल्लेखं Bh. E. 31 उपतिष्ठन्ते H. भुङ्क्ते च F. H. 33. केचुकः instead of क्यांकुः H. कपालं F क्यान्हु E. After this Sūtra F. and H. only read अन्यत्र मधुमांसफल- विहतैश्चाम्यश्वविप्रयोः कृच्छ्र इतरेषु ॥
४३ अन्तर्नाव्युदकम् ॥ ३६ ॥ अपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि शुक्तानि वर्जयेत् ॥ ३७ ॥ अन्यांश्च क्षीरयवपिष्टविकारान् ॥ ३८ ॥ श्वाविच्छल्यकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ॥ ३९ ॥ अनुष्ट्राः पशूनामन्यतोदन्ताश्च ॥ ४० ॥ मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीराः ॥ ४१ ॥ विकृतरूपाः सर्पशीर्षाश्च ॥ ४२ ॥ गौरगवयशरभाश्च ॥ ४३ ॥ अनुद्दिष्टास्तथा ॥ ४४ ॥ धेन्वनडुहावपन्नदन्ताश्च ॥ ४५ ॥ भक्ष्यौ तु धेन्वनडुहौ मेध्यौ वाजसनेयके विज्ञायते ॥ ४६ ॥ खड्गे तु विवदन्त्यग्राम्यशूकरे च ॥ ४७ ॥ शकुनानां च विषुविष्किरजालपादकलविङ्कप्लवहंसचक्रवाकभासवाय- सपारावतकुररसारङ्गाण्डकपोतक्रौञ्चक्रकरकङ्कगृध्रश्येनबकबलाक- मद्गुटिट्टिभमान्धालनक्तञ्चरदार्वाघाटचटकैलातकाहारीतखञ्जरीट- ग्राम्यकुकुटशुकशारिकोकिलक्रव्यादो ग्रामचारिणश्च ग्रामचारि- णश्चेति ॥ ४८ ॥ इति वासिष्ठधर्मशास्त्रे चतुर्दशोऽध्यायः ॥ १४ ॥ 37. नाशुक्तानि H. नाशुष्कानि F. नाशुल्कानि B. Ban. ed. 39. °शल्क° F. H. 48. °कुक्कुट° B. E. F. °कुक्कुर° H. °माघार° B, Ban. ed. E. माधां नक्तं° Bh. F. H. °टिट्टिभान्धनक्तं° J. O. 913. क्रव्यातः H.