भारतकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 51, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 51

३७ देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ ३ ॥ ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुर्वीरन् ॥ ४ ॥ अर्धपञ्चमान्मासानर्धषष्ठान्वा ॥ ५ ॥ अत ऊर्ध्वं शुक्लपक्षेष्वधीयीत ॥ ६ ॥ कामं तु वेदाङ्गानि ॥ ७ ॥ तस्यानध्यायाः ॥ ८ ॥ सन्ध्यास्तनिते ॥ ९ ॥ सन्ध्यासु ॥ १० ॥ अन्तःशवदिवाकीर्त्येषु नगरेषु ॥ ११ ॥ कामं गोमयपर्युषिते परिलिखिते वा ॥ १२ ॥ श्मशानान्ते ॥ १३ ॥ शयानस्य ॥ १४ ॥ श्राद्धिकस्य ॥ १५ ॥ मानवं चात्र श्लोकमुदाहरन्ति । फलान्यपस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् । प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता इति ॥ १६ ॥ धावतः पूतिगन्धप्रभृताविरिणे ॥ १७ ॥ वृक्षारूढस्य ॥ १८ ॥ नावि सेनायां च ॥ १९ ॥ भुक्त्वा चार्द्रपाणेः ॥ २० ॥ वाणशब्दे ॥ २१ ॥ चतुर्दश्यामामावास्यायामष्टम्यामष्टकासु ॥ २२ ॥ 4. अर्धपञ्चमासान् Bh. E. 16. फलान्यापः E. Bh. K. °यथान्यत्° B. H. 17. गन्धिप्रभृतीरिणे B. H. गन्धप्रभृताव्रण E.