वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 50, कुल 106 में से
संदर्भ में पढ़ें३६ पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ ३४ ॥ नोत्सङ्गे भक्षयेत् ॥ ३५ ॥ नासन्द्यां भुञ्जीत ॥ ३६ ॥ वैणवं दण्डं धारयेत् ॥ ३७ ॥ रुक्मकुण्डले च ॥ ३८ ॥ न बहिर्मालां धारयेदन्यत्र रुक्ममय्या ॥ ३९ ॥ ॰मय्याः इतिस्यात् सभाः समवायांश्च वर्जयेत् ॥ ४० ॥ अथाप्युदाहरन्ति अप्रामाण्यं च वेदानामार्षाणां चैव कुत्सनम् अव्यवस्था च सर्वत्र एतन्नाशनमात्मन इति ॥ ४१ ॥ नावृतो यज्ञं गच्छेदयदि व्रजेत्प्रदक्षिणं पुनराव्रजेत् ॥ ४२ ॥ अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ॥ ४३ ॥ नावं च सांशयिकीं नाधिरोहेत् ॥ ४४ ॥ बाहुभ्यां न नदीं तरेत् ॥ ४५ ॥ उत्थायापररात्रमधीत्य न पुनः प्रतिसंविशेत् ॥ ४६ ॥ प्राजापत्ये मुहूर्ते ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति॥४७॥ इति वासिष्ठधर्मशास्त्रे द्वादशोऽध्यायः ॥ १२ ॥ ―――― अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा ॥ १ ॥ अग्निमुपसमाधायाक्षतधाना जुहोति ॥ २ ॥ ―――― 36. आसन्द्यां न भुञ्जीत Bh. E. H. 39. माल्यं Bh. E. 40. सभाः समवा- यांश्च वर्क्षीयन्न F. H. जर्वीयन्न Bh. सभासमवायान्नाावजयेत् B. सभासमेधाया त्रावर्भवेत् E. नावजयेत K. 41. एवं नाशनं F. 45. wanted in Ban. ed. XIII. 2. उपसमाधाय कृतधानाः H.