वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 49, कुल 106 में से
संदर्भ में पढ़ें३५ प्राङ्मुखोन्नानि भुञ्जीत ॥ १८ ॥ तूष्णीं साङ्गुष्ठं कृत्स्नग्रासं ग्रसेत ॥ १९ ॥ न च शब्दं कुर्यात् ॥ २० ॥ ऋतुकालगामी स्यात्पर्ववर्जं स्वदारेषु ॥ २१ ॥ अतियंगुपेयात् ॥ २२ ॥ अथाप्युदाहरन्ति यस्तु पाणिगृहीताया आस्ये कुर्वीत मैथुनम् । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः या स्यादनित्यचारेण रतिः साधर्मसंश्रिता ॥ २३ ॥ अपि च काठके विज्ञायते । अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयीरन्निति स्त्रीणामिन्द्रदत्तो वर इति ॥ २४ ॥ न वृक्षमDictated -> न वृक्षमारोहेत् ॥ २५ ॥ न कूपमवरोहेत् ॥ २६ ॥ नाग्निं मुखेनोपधमेत् ॥ २७ ॥ नाग्निं ब्राह्मणं चान्तरेण व्यपेयात् २८ ॥ नाग्न्योः ॥ २९ ॥ न ब्राह्मणयोरनुज्ञाप्य वा ॥ ३० ॥ भार्यया सह नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते ॥ ३१ ॥ नेन्द्रधनुर्नाम्ना निर्दिशेत् ॥ ३२ ॥ मणिधनुरिति ब्रूयात् ॥ ३३ ॥ 20. मुखशब्दं B. F. H. 21. स्वादारैवं; स्त्रियमुपेयात् F. स्वदारेवं तीर्थमुपेयत Bh. E. H. 24. अद्य श्वा वा विजनिष्यमानाभिः F. H. अपि च नश्वयो E. अविनस्यो Bh. इन्द्रदत्तात् E. 25. तावन्न वृ° F. H. 28. च्यवेत?H.