वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 48, कुल 106 में से
संदर्भ में पढ़ें३४ अथातः स्नातकव्रतानि ॥ १ ॥ स न कंचिद्याचेतान्यत्र राजान्तेवासिभ्यः ॥ २ ॥ क्षुधापरीतस्तु किंचिदेव याचेत कृतमकृतं वा क्षेत्रं गामजाविक- मन्ततो हिरण्यं धान्यमन्नं वा ॥ ३ ॥ न तु स्नातकः क्षुधावसीदेदित्युपदेशः ॥ ४ ॥ न मलिनवाससा सह संवसेत ॥ ५ ॥ न रजस्वलया ॥ ६ ॥ नायोग्यया ॥ ७ ॥ न कुलंकुलः स्यात् ॥ ८ ॥ वत्सतन्त्रीं विततां नातिक्रामेत् ॥ ९ ॥ नोद्यन्तमादित्यं पश्येन्नास्तं यन्तम् ॥ १० ॥ नाप्सु मूत्रपुरीषे कुर्यात् ॥ ११ ॥ न निष्ठीवेत् ॥ १२ ॥ परिवेष्टितशिरा भूमियमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यादु दङ्मुखश्चाहनि नक्तं दक्षिणामुखः सन्ध्यामासीतोत्तरम् ॥ १३ ॥ अथाप्युदाहरन्ति स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥ १४ ॥ अप्सु पाणौ च काष्ठे च कथितं पावके शुचिः तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥ १५ ॥ पर्यग्निकरणं ह्येतन्मनुराह प्रजापतिः ॥ १६ ॥ कृत्वा चावश्यकर्माणि आचामेच्छौचवित्तम इति ॥ १७ ॥ XII. 6. Thus all MSS., but this Sūtra has to be read नारज- स्खलया. 10. पश्येन्नादित्य यन्तं H. 13. °उत्तरा Bh. E. F. H. 17. चावे- श्यकार्याणि Bh. E. F. H. °वित्तत इति B. Bh. E. F. H.