भारतकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 53, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 53

मातापितरौ च ॥ ४३ ॥ यो विद्यादभिवादितुमहंमयं भो इति यात् ॥ ४४ ॥ यश्च न विद्यात् ॥ ४५ ॥ प्रत्यभिवादमामन्त्रिते स्वरोन्त्यः प्लूयते सन्ध्यक्षरमप्रगृह्यमायाद्- भावं चापद्यते यथा भो भाविति ॥ ४६ ॥ पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ॥ ४७ ॥ अथाप्युदाहरन्ति । उपाध्यायाद्दशाचार्या आचार्याणां शतं पिता । पितुर्दशशतं माता गौरवेणातिरिच्यते ॥ ४८ ॥ भार्या पुत्राश्च शिष्याश्च संसृष्टाः पापकर्मभिः । परिभाष्य परित्याज्याः पतितो योन्यथा त्यजेत् ॥ ४९ ॥ ऋत्विगाचार्यावयाजकानध्यापकौ हेयावन्यत्र हानात्पतति ॥५०॥ पतितेनोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः ॥ ५१ ॥ सा हि परगामिनी ॥ ५२ ॥ तामरिक्थामुपेयात् ॥ ५३ ॥ गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिरिष्यते । गुरुवद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः ॥ ५४ ॥ शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य ॥ ५५ ॥ विद्यावित्तवयःसंबन्धाः कर्म च मान्यम् ॥ ५६ ॥ पूर्वः पूर्वो गरीयान् ॥ ५७ ॥ स्थविरबालातुरभारिकस्त्रीचक्रीवगतां पन्थाः समागमे परस्मै- परस्मै देयः ॥ ५८ ॥ राजस्नातकयोः समागमे राज्ञा स्नातकाय देयः ॥ ५९ ॥ 47. Compare Āpast. Dh. I, 28, 9 ; माता तु पुत्रं B. Bh. F. वा. ध. ६.