वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 54, कुल 106 में से
संदर्भ में पढ़ें४० सर्वैरैव वध्वा ऊह्यमानायै ॥ ६० ॥ तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सतां गृहे नोच्छिद्यन्ते कदा च न कदा च नेति ॥ ६१ ॥ इति वासिष्ठधर्मशास्त्रे त्रयोदशोऽध्यायः ॥ १३ ॥ ―――― अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ १ ॥ चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ढपतितानामन्नमभो- ज्यम् ॥ २॥ कदर्यदीक्षितबद्धादुरसोमविक्रायितक्षरजकशौण्डिकसूचकवार्धुषिक- चर्मावकृन्तानाम् ॥ ३ ॥ शूद्रस्य च ॥ ४ ॥ अस्त्रभृतश्च ॥ ५ ॥ उपपतेर्यश्चोपपतिं मन्यते ॥ ६ ॥ यश्च गृहान्दहेत् ॥ ७ ॥ यश्च वधार्हाञ्चोपहन्यात् ॥ ८ ॥ को भोक्ष्यत इति वाचाभिघुष्टम् ॥ ९ ॥ गणान्नं गणिकान्नं चेति ॥ १० ॥ अथाप्युदाहरन्ति । नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः । भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे इति ॥ ११ ॥ ―――― XIV. 2. शठ° instead of °षण्ढ° B. Ban. ed. °खण्ड° H. 3. °बद्धासु- रसोम° H. °विक्रयितक्षक° Bh. E. H. विक्रयितस्कररजक° F. °सूचिक° B. Ban. ed. E. F. H. 5. अस्त्रपूतस्य H. 6. °उपपत्तिं F. यश्चोपरि B. Ban. ed.