वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
४४ शोणितशुक्रसंभवः पुरुषो भवति मातापितृनिमित्तकः ॥ १ ॥ तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥ २ ॥ न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ॥ ३ ॥ स हि सन्तानाय पूर्वेषाम् ॥ ४ ॥ न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः ॥ ५ ॥ पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि च निवेद्य निवेशनस्य मध्ये व्याहृतिभिर्हुत्वादूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयात् ॥ ६ ॥ सन्देहे चोत्पन्ने दूरेबान्धवं शूद्रमिव स्थापयेत् ॥ ७ ॥ विज्ञायते ह्येकेन बहूंस्त्रायत इति ॥ ८ ॥ तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत चतुर्थभागभागी स्याद्दत्तकः ॥ ९ ॥ यदि नाभ्युदयिकेषु युक्तः स्यात् ॥ १० ॥ वेदविप्लावकः शूद्रयाजक उत्तमवर्णवर्गपतितास्तेषां पात्रनि- नयनम् ॥ ११ ॥ अपात्रसङ्करादकृत्स्नं पात्रमादाय दासोसवर्णपुत्रो वा बन्धुरसदृशो वा गुणहीनः सव्येन पादेन प्रवृत्ताग्रान्दर्भाल्लोहितान्वोपस्तीर्य पूर्ण- पात्रमस्मै निनयेत् ॥ १२ ॥ निनेतारं चास्य प्रकीर्णकेशा ज्ञातयोन्वालभेरन् ॥ १३ ॥ अपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन् ॥ १४ ॥ अत ऊर्ध्वं न तं धर्मयेयुः ॥ १५ ॥ XV. 1. भवति wanted B. F. H. 3 त्वेवैकं B. न चैकं H. 5. न तु B.: 6. चावेद्य B. F. H. 10. उपयुक्तः Bh. 11. विप्लावाकिनः F. H. विष्ठावहीनः 13. नेतारं F.
४५ तद्धर्माणस्तं धर्मयन्तः ॥ १६ ॥ पतितानां तु चरितव्रतानां प्रत्युद्धारः ॥ १७ ॥ अथाप्युदाहरन्ति । अग्रेभ्युद्धरतां गच्छेत्क्रीडन्निव हसन्निव । पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निवेति ॥ १८ ॥ आचार्यमातृपितृहन्तारस्तत्प्रसादादपयाप्याद्वा एषां तेषां प्रत्या- पत्तिः ॥ १९ ॥ पुण्यह्रदात्प्रसृताद्वा काञ्चनं पात्रं माहेयं वा पूरयित्वापोहिष्ठाभि- रैनमद्भिरभिषिञ्चन्ति ॥ २० ॥ सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातो व्याख्यात इति ॥ २१ ॥ इति वासिष्ठधर्मशास्त्रे पञ्चदशोऽध्यायः ॥ १५ ॥ अथ व्यवहाराः ॥ १ ॥ राजा मन्त्री वा सद्यःकार्याणि कुर्यात् ॥ २ ॥ द्वयोर्विवदमानयोः पक्षान्तरं न गच्छेत् ॥ ३ ॥ यथासनमपराधोह्यन्तेनापराधः ॥ ४ ॥ समः सर्वेषु भूतेषु यथासनमपराधोह्याद्यवर्णयोर्विद्यान्ततः ॥ ५ ॥ संपन्नं च रक्षयेत् ॥ ६ ॥ राजबालधनानि ॥ ७ ॥ अप्राप्तव्यवहाराणाम् ॥ ८ ॥ 16. ते न संघर्मयेयुः B. Bh. E. H. 19. एषां Bh. E. 20. पूर्णाद्वाद् thus all MSS. except B. which reads पूर्णाद्वा दशाद्वब्दात्प्रवृत्ताद्वा. XVI. 4. and 5. are evidently corrupt. 5. अद्यवर्णयोर्विधानतः J.O. 913. 6. सपत्नं च र° B. Ban. ed. संपन्नं च क्षरेत्तु H.
४६ प्राप्तकाले तु तद्यत् ॥ ९ ॥ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । धनस्वीकरणं पूर्वं धनी धनमवाप्नुयादिति ॥ १० ॥ मार्गक्षेत्रेभ्यो विसर्गस्तथा परिवर्त्तनम् ॥ ११ ॥ तरुणगृहेष्वर्थान्तरेषु त्रिपादमात्रम् ॥ १२ ॥ गृहक्षेत्रविरोधे सामन्तप्रत्ययः ॥ १३ ॥ सामन्तविरोधे लेख्यप्रत्ययः ॥ १४ ॥ प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः ॥ १५ ॥ अथाप्युदाहरन्ति । पैतृकं क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् । यज्ञादुपगमो वेणिस्तथा धूमशिखाष्टमीति ॥ १६ ॥ तत्र भुक्तानुभुक्तदशवर्षम् ॥ १७ ॥ अन्यथाप्युदाहरन्ति । आधिः सीमा बालधनो निक्षेपोपनिधिस्त्रियः । राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ॥ १८ ॥ प्रहीणद्रव्याणि राजगामीनि भवन्ति ॥ १९ ॥ ततोन्यथा राजा मन्त्रिभिः सह नागरैश्च कार्याणि कुर्यात् ॥ २० ॥ वेधसो वा राजा श्रेयान्गृध्रपरिवारं स्यात् ॥ २१ ॥ गृध्रपरिवारं वा राजा श्रेयान् ॥ २२ ॥ गृध्रपरिवारं स्यान्न गृध्रो गृध्रपरिवारं स्यात् ॥ २३ ॥ परिवाराद्धि दोषाः प्रादुर्भवन्ति ॥ २४ ॥ 11. मार्गे क्षेत्रे एज्यो बिसर्गे तथा Bh. E. H. मार्गेक्षेत्रयोर्विसर्गं तथा पारी- वर्त्तने F. 12. त्रिपादपात्रं B. Ban. ed. 16. पन्त्रकं F. H. पैत्रकं B पत्रकां E. Bh. प्रतिग्रहः K. 18. बालधनं निक्षेपोनिधी Manu Dh. 8, 149. तथा- न्यथा B. Eh. 21-23. These three Sūtras are most probably corrupt ;read वैतसः instead of वैधसः of all Mss.; अगृध्रपरिवारः K. गृध्रपरिधारः K.
४७ स्तेयहारविनाशनं च ॥ २५ ॥ तस्मात्पूर्वमेव परिवारं पृच्छेत् ॥ २६ ॥ अथ साक्षिणः ॥ २७ ॥ श्रोत्रियो रूपवाञ्शीलवान्पुण्यवान्सत्यवान्साक्षिणः ॥ २८ ॥ सर्वेषु सर्व एव वा ॥ २९ ॥ स्त्रीणां साक्षिणः स्त्रियः कुर्याद्द्विजानां सदृशा द्विजाः शूद्राणां सन्तः शूद्राश्चान्त्यानामन्त्ययोनयः ॥ ३० ॥ अथाप्युदाहरन्ति । प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् । दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति ॥ ३१ ॥ ब्रूहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव । तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ॥ ३२ ॥ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुले गच्छेद्वः साक्ष्यमनृतं वदेत् ॥ ३३ ॥ पञ्च कन्यान्नृते हन्ति दश हन्तिगवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ३४ ॥ व्यवहारे मृते दारे प्रायश्चित्तं कुलस्त्रियाः । तेषां पूर्वपरिच्छेदाच्छिद्यन्तेत्रापवादिभिः ॥ ३५ ॥ उद्वाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ ३६ ॥ 26. पश्चात्पूर्वं B. F. H. 27. साक्षिकः F. H. 28. गुणवान् E. H. 30. स्त्रीणां तु F. H. 31. सैरिकं B. Ban. ed. 35. व्यवहेन्नृते पारे B. Ban. ed. द्वारे Bh. E. चापवादिभिः B. H. वासिष्ठ धर्म ७. भारते ऽयमर्थो न यानुपूर्व्योक्तिः — न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन् विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥
स्वजनस्वार्थे यदि वार्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम् । ते शब्दवंशस्य कुलस्य पूर्वान् स्वर्गस्थितांस्तानपि पातयन्ति ॥ अपि पातयन्तीति ॥ ३७ ॥ इति वासिष्ठधर्मशास्त्रे षोडशोऽध्यायः ॥ १६ ॥ ऋणमस्मिन्सन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ १ ॥ अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोस्तीति श्रूयते ॥ २ ॥ अप्रजाः सन्तवत्रिण इत्यभिशापः ॥ ३ ॥ प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥ ४ ॥ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपमिति ॥ ५ ॥ क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ॥ ६ ॥ तत्रोभयथाप्युदाहरन्ति ॥ ७ ॥ यद्यन्यगोष्ठु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्यन्दितमर्षभमिति ॥ ८ ॥ स्कन्दितमिति पाठः। अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः। जनयितुः पुत्रो भवति संपराये मोघं तेत्ता कुरुते तन्तुमेतमिति ॥ ९ ॥
पादटिप्पणी (Footnotes):
- पक्षाश्रयेणाभिवदन्ति कार्याः B. Ban. ed. H. द्वे शब्द° B. Ban. ed. H. कुलस्य दग्ध्वा स्वर्गं Ban. ed. दृष्ट्वा B. °स्थितानसपि B. Ban. ed. XVII. 8. यद्यन्यां गोषु B. Bh.. गोपानामेव E. 9. न जनयितुं B. Bh. E. H,, compare however Āpast Bh. II, 6. 13. 7. संपरायः B. Ban ed, H.
४९ बहूनामेकजातानामेकश्चेत्पुत्रवान्नरः । सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ १० ॥ वह्वीनामेकपत्नीनामेका पुत्रवती यदि । सर्वास्तास्तेन पुत्रेण पुत्रवन्त्य इति श्रुतिः ॥ ११ ॥ द्वादश इत्येव पुत्राः पुराणदृष्टाः ॥ १२ ॥ स्वयमुत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः ॥ १३ ॥ तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः ॥ १४ ॥ तृतीयः पुत्रिका ॥ १५ ॥ विज्ञायत अभ्रातृका पुंसः पितॄनभ्येति प्रतीचीनं गच्छति पुत्र- त्वम् ॥ १६ ॥ तत्र श्लोकः । अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ १७ ॥ पौनर्भवश्चतुर्थः ॥ १८ ॥ या कौमारं भर्त्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्ब- माश्रयति सा पुनर्भूर्भवति ॥ १९ ॥ या च क्लीबं पतितमुन्मत्तं वा भर्त्तारमुत्सृज्यान्यं पतिं विन्दते मृते वा सा पुनर्भूर्भवति ॥ २० ॥ कानीनः पञ्चमः ॥ २१ ॥ यं पितृगृहेऽसंस्कृता कामादुत्पादयेन्मातामहस्य पुत्रो भवती- त्याहुः ॥ २२ ॥ अथाप्युदाहरन्ति । अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः । पुत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति ॥ २३ ॥ 19. पुनर्भूया B. F. H. 20. या वा B. F. H. 22. या E. H,
५०
गृहे च गूढोत्पन्नः षष्ठः ॥ २४ ॥ इत्येते दायादा बान्धवास्त्रातारो महतो भयादित्याहुः ॥ २५ ॥ अथादायादबन्धूनां सहोढ एव प्रथमः ॥ २६ ॥ या गर्भिणी संस्क्रियते सहोढः पुत्रो भवति ॥ २७ ॥ दत्तको द्वितीयः ॥ २८ ॥ यं मातापितरौ दद्याताम् ॥ २९ ॥ क्रीतस्तृतीयः ॥ ३० ॥ तच्छुनःशेपेन व्याख्यातम् ॥ ३१ ॥ हरिश्चन्द्रो वै राजा सोजीगर्तस्य सौयवसेः पुत्रं चिक्राय ॥ ३२ ॥ स्वयमुपागतश्चतुर्थः ॥ ३३ ॥ तच्छुनःशेपेन व्याख्यातम् ॥ ३४ ॥ शुनःशेपो वै यूपे नियुक्तो देवतास्तुष्टाव । तस्येह देवताः पाशं विमुमुचुस्तमृत्विज ऊचुः । ममैवायं पुत्रोस्त्विति तान्ह न संपेदे । ते संपादयामासुः । एष एव यं कामयेत्तस्य पुत्रोस्त्विति । तस्य ह विश्वामित्रो होतासीत्तस्य पुत्रत्वमियाय ॥ ३५ ॥ अपविद्धः पञ्चमः ॥ ३६ ॥ यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ॥ ३७ ॥ शूद्रापुत्र एव षष्ठो भवतीत्याहुरित्येतेदायादबान्धवाः ॥ ३८ ॥ अथाप्युदाहरन्ति । यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं हरेरन्निति ॥ ३९ ॥ अथ भ्रातॄणां दायविभागः ॥ ४० ॥
- हरिश्चन्द्रोह वै F. H. विक्रीण्य B. विक्रीय Ban. ed. विक्रांय Bh. E. F. H. विक्राय्य स्वयं क्रीतवान् Calc. ed. J. O. 913. 34 °उपनयतः B. F. H. 35. यूपेन B. Bh. E. H. 39. सर्वेषां धर्माणं न E. पूर्वेषां वर्णानां न Bh. F. H.
५१ याश्चानपत्यास्तासामा पुत्रलाभात् ॥ ४१ ॥ द्व्यंशं ज्येष्ठो हरेत् ॥ ४२ ॥ गवाश्वस्य चानुदशमम् ॥ ४३ ॥ अजावयो गृहं च कनिष्ठस्य ॥ ४४ ॥ कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥ ४५ ॥ मातुः पारिणेयं स्त्रियो विभजेरन् ॥ ४६ ॥ यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैश्यासु पुत्राः स्युः ॥ ४७ ॥ त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् ॥ ४८ ॥ द्व्यंशं राजन्यायाः पुत्रः ॥ ४९ ॥ सममितरे विभजेरन् ॥ ५० ॥ येन चैषां स्वयमुत्पादितं स्याद् द्व्यंशमेव हरेत् ॥ ५१ ॥ अनंशास्त्वाश्रमन्तरगताः ॥ ५२ ॥ क्लीबोन्मत्तपतिताश्च ॥ ५३ ॥ भरणं क्लीबोन्मत्तानाम् ॥ ५४ ॥ प्रेतपत्नी षण्मासान्व्रतचारिण्यक्षारलवणं भुञ्जानाधः शयीत ॥ ५५ ॥ ऊर्ध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्म- गुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा नियोगं कारयेत् ॥ ५६ ॥ न सोन्मादामवशां व्याधितां वा नियुञ्ज्यात् ॥ ५७ ॥ ज्यायसीमपि ॥ ५८ ॥ षोडश वर्षाणि ॥ ५९ ॥ न चेदामयावी स्यात् ॥ ६० ॥ 47. यदि च E. H. 56. सन्नियोगं Ban. ed. H. 57. उन्मत्तां B, F. H. perhaps वशां to be read instead of अवशां of all the Mss.
३. अध्याय १६-२१: राजधर्म, दण्ड, साक्ष्य व दायभाग
५२ प्रजापत्ये मुहूर्ते पाणिग्राहवदुपचरेदन्यत्र संग्रहास्य वाक्पा- रुष्यदण्डपारुष्याच्च ॥ ६१ ॥ ग्रासाच्छादनस्नानानुलेपनेषु प्राग्गामिनी स्यात् ॥ ६२ ॥ अनियुक्तायामुत्पन्न उत्पादचितुः पुत्रो भवतीत्याहुः ॥ ६३ ॥ स्याच्चेन्नियोगिनोः ॥ ६४ ॥ रिक्थलोभान्नास्ति नियोगः ॥ ६५ ॥ प्रायश्चित्तं वाप्युपदिश्य नियुञ्ज्यादित्येके ॥ ६६ ॥ कुमार्यृतुमती त्रीणि वर्षाण्युपासीत ॥ ६७ ॥ त्रिभ्यो वर्षेभ्यः पतिं विन्देत्तुल्यम् ॥ ६८ ॥ अथाप्युदाहरन्ति । पितुः प्रमादात्तु यदीह कन्या वयःप्रमाणं समतीत्य दीयते । सा हन्ति दातारमुदीक्षमाणा कालातिरिक्ता गुरुदक्षिणेव ॥ ६९ ॥ प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता । ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥ ७० ॥ यावन्तः कन्यामृतवः स्पृशन्ति तुल्यैः सकामामभियाच्यमानाम् । भ्रूणानि तावन्ति हतानि ताभ्यां मातापितृभ्यामिति धर्मवादः ॥ ७१ ॥ अद्भिर्वाचा च दत्तायां म्रियेतादौ वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा ॥ ७२ ॥
- °नियोगिनो दृष्ट्वा Bh. E. F. H. 67. °उपसीतांध्ध्रं B. H. 71. यावन्ति F. H.
बलाच्चेत्प्रहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ ७३ ॥ पाणिग्राहे मृते बाला केवलं मन्त्रसंस्कृता । सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हतीति ॥ ७४ ॥ प्रोषितपत्नी पञ्च वर्षाण्युपासीत ॥ ७५ ॥ ऊर्ध्वं पञ्चभ्यो वर्षेभ्यो भर्तुस्सकाशं गच्छेत् ॥ ७६ ॥ यदि धर्मार्थाभ्यां प्रवासं प्रत्यनुकामा न स्याद्यथा प्रेत एवं वर्त्ति- तव्यं स्यात् ॥ ७७ ॥ एवं ब्राह्मणी पञ्च प्रजाताप्रजाता चत्वारि राजन्या प्रजाता पञ्चाप्रजाता त्रीणि वैश्या प्रजाता चत्वार्यप्रजाता द्वे शूद्रा प्रजाता त्रीण्यप्रजातैकम् ॥ ७८ ॥ अत ऊर्ध्वं समानार्थजन्मपिण्डोदकगोत्राणां पूर्वः पूर्वो गरीयान् ॥ ७९ ॥ न तु खलु कुलीने विद्यमाने परगामिनी स्यात् ॥ ८० ॥ यस्य पूर्वेषां षण्णां न कश्चिद्वायादः स्यात्सपिण्डाः पुत्रस्थानीया वा तस्य धनं विभजेरन् ॥ ८१ ॥ तेषामलाभ आचार्यान्तेवासिनौ हरेयाताम् ॥ ८२ ॥ तयोरलाभे राजा हरेत् ॥ ८३ ॥ न तु ब्राह्मणस्य राजा हरेत् ॥ ८४ ॥ ब्रह्मस्वं तु विषं घोरम् ॥ ८५ ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकमिति ॥ ८६ ॥
- पाणिग्राहसूते E. 78. यत्प्रजाता instead of अप्रजाता E. H. 86. °पौत्रिकं B. F. H.
५४ त्रैविद्यसाधुभ्यः संप्रयच्छेद्संप्रयच्छेदिति ॥ ८७ ॥ इति वासिष्ठधर्मशास्त्रे सप्तदशोऽध्यायः ॥ १७ ॥
शूद्रेण ब्राह्मण्यामुत्पन्नश्चाण्डालो भवतीत्याहुः ॥ १ ॥ राजन्यायां वैणः ॥ २ ॥ वैश्यायामन्त्यावसायी ॥ ३ ॥ वैश्येन ब्राह्मण्यामुत्पन्नो रामक्रो भवतत्याहुः ॥ ४ ॥ राजन्यायां पुल्कसः ॥ ५ ॥ राजन्येन ब्राह्मण्यामुत्पन्नः सूतो भवतीत्याहुः ॥ ६ ॥ अथाप्युदाहरन्ति । छन्नोत्पन्नाश्च ये केचित्प्रातिलोम्यगुणाश्रिताः । गुणाचारपरिश्रंशात्कर्मभिस्तान्विजानीयुरिति ॥ ७ ॥ एकान्तराद्व्यन्तरात्त्र्यन्तरासु जाता ब्राह्मणक्षत्रियवैश्यैरम्बष्ठो- ग्रनिषादा भवन्ति ॥ ८ ॥ शूद्राणां पारशवः ॥ ९ ॥ पारशवो नैव जीवन्नेव शवो भवतीत्याहुः ॥ १० ॥ एके वा एतच्छ्मशानं ये शूद्राः ॥ ११ ॥ तस्माच्छूद्रसमीपे नाध्येतव्यम् ॥ १२ ॥ अथापि यमगीताञ्श्लोकानुदाहरन्ति । श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः । तस्माच्छूद्रसमीपे तु नाध्येतव्यं कदा च न ॥ १३ ॥
XVIII. 4. रोमकः B. Ban. ed. F. उत्पन्नास्तु B. Ban. ed. °विभावयुं- रिति B. H. 8. °अनुजता B. E. H. 10. पारशवं नैव K. शव इति मृताख्या thus all MSS., but it is an interpolation.
५५ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ १४ ॥ यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत् । सोसंवृत्तं तमो घोरं सह तेन प्रपद्यत इति ॥ १५ ॥ व्रणद्वारे कृमिर्यस्य संभवेत् कदा च न । प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा इति ॥ १६ ॥ नाग्निं चित्वा रामामुपेयात् ॥ १७ ॥ कृष्णवर्णा या रामा रमणायैव न धर्माय न धर्मायेति ॥ १८ ॥ इति वासिष्ठधर्मशास्त्रेष्टादशोध्यायः ॥१८ ॥ स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः ॥ १ ॥ भयकारुण्यहानं जरामर्यं वा एतत्सच्रमाहुर्विद्वांसः ॥ २ ॥ तस्माद्बार्हस्थ्यनैयमिकेषु पुरोहितं दध्यात् ॥ ३ ॥ विज्ञायते । ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति ॥ ४ ॥ उभयस्य पालनात् ॥ ५ ॥ असामर्थ्याच्च ॥ ६ ॥ देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णा- न्स्वधर्मे स्थापयेत् ॥ ७ ॥ तेष्वपचरत्सु दण्डं धारयेत् ॥ ८ ॥ दण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैर्हिंसाक्रोशयोः कल्प्यः ॥ ९ ॥ आगमाद्दृष्टान्ताच्च ॥ १० ॥ 15. सुखं वृतं E. F. XIX. 2. This Sūtra seems to be faulty. 3. दद्यात्. F. H. 4. ऋध्यतिः E. H. 9. कल्पः Ban. ed. कल्पाः Bh. E. H. वासिष्ठ धर्म ८.
५६ पुष्पफलोपगान्पादपान्न हिंस्यात् ॥ ११ ॥ कर्षणकारणार्थं चोपहन्यात् ॥ १२ ॥ गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् ॥ १३ ॥ अधिष्ठानान्न नीहारः स्वार्थानाम् ॥ १४ ॥ मानमूल्यमात्रं नैहारिकं स्यात् ॥ १५ ॥ महामहयोः स्थानात्पथः स्यात् ॥ १६ ॥ संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् ॥ १७ ॥ प्रत्येकं प्रपाः स्युः ॥ १८ ॥ पुंसां शतावराध्ये चाहवयेत् ॥ १९ ॥ अन्वर्थाः स्त्रियः स्युः ॥ २० ॥ कराष्ठीला माषः शरमध्यापः पादः कार्षापणाः स्युः ॥ २१ ॥ निरुदकस्तरो मोष्यः ॥ २२ ॥ अकरः श्रोत्रियो राजपुमाननाथप्रव्रजितबालवृद्धतरुणप्रजाताः ॥ २३ ॥ प्राग्गामिकाः कुमार्यो मृतपत्न्यश्च ॥ २४ ॥ बाहुभ्यामुत्तरञ्छतगुणं दद्यात् ॥ २५ ॥ नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युः ॥ २६ ॥ तदुपजीविनो वा दद्युः ॥ २७ ॥ प्रतिमासमुद्वाहकंरं त्वागमयेत् ॥ २८ ॥ राजनि च प्रेते दद्यात्प्रासङ्गिकम् ॥ २९ ॥ एतेन मातृवृत्तिर्व्याख्याता ॥ ३० ॥ 11. °उपगान्यदेयानि F. H. 16. स्थानमन्यथा Bh. पयः F. H. 20. अप्य- प्याः B. F. 21. करोष्टीमो मीषः B. Ban. ed. करोष्टौ मामीपः E. करो- ष्टोमा माषाः Bh. H. 23. प्रदाताः thus all MSS., प्रदातारः Ban. ed. see XI., 7. 28. °उद्वाहकैरस्तु B. E. H.
५७ राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात् ॥ ३१ ॥ तद्बन्धूंश्चान्यांश्च ॥ ३२ ॥ राजपत्न्यो ग्रासाच्छादनं लभेरन् ॥ ३३ ॥ अनिच्छन्त्यो वा प्रव्रजेरन् ॥ ३४ ॥ क्लीवोन्मत्तान् राजा बिभृयात् ॥ ३५ ॥ तद्गामित्वादरिक्थस्य ॥ ३६ ॥ शुल्के चापि मानवं श्लोकमुदाहरन्ति । न भिन्नकार्षापणमस्ति शुल्के न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हुतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञ इति ॥ ३७ ॥ स्तेनो नुप्रवेशान्न दुष्यते ॥ ३८ ॥ शस्त्रधारी सहोढो व्रणसंपन्नो व्यपदिष्टस्त्वेकेषाम् ॥ ३९ ॥ दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् ॥ ४० ॥ त्रिरात्रं पुरोहितः ॥ ४१ ॥ कृच्छ्रमदण्ड्यदण्डने पुरोहितः ॥ ४२ ॥ त्रिरात्रं राजा ॥ ४३ ॥ अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ ४४ ॥ (मनौ ८।३१७॥) राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ४५ ॥ (मनौ ८।३१८) कृतदण्डा इति च तत्र पाठः । 39. °संपन्नस्य व्यपावदृस्तु thus all, MSS.
एनो राजानमृच्छति उत्सृजन्तं सकिल्विषम् । तं चेद्वा घातयेद्राजा हन्ति धर्मेण दुष्कृतमिति ॥ ४६ ॥ राज्ञामात्ययिके कार्ये सद्यः शौचं विधीयते । तथा नात्ययिके नित्यं काल एवात्र कारणमिति ॥ ४७ ॥ यमगीतं चात्र श्लोकमुदाहरन्ति । नाद्य दोषोस्ति राज्ञां वै व्रतिनां न च सत्रिणाम् । ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदेति ॥ हि ते सदेति ॥ ४८ ॥ इति वासिष्ठधर्मशास्त्रे एकोनविंशोध्यायः ॥ १९ ॥ अनभिसंधिकृते प्रायश्चित्तमपराधे ॥ १ ॥ अभिसंधिकृतेप्येके ॥ २ ॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यम इति ॥ ३ ॥ तत्र च सूर्याभ्युदितः सन्नहस्तिष्ठेत्सावित्रीं च जपेत् ॥ ४ ॥ एवं सूर्याभिनिर्मुक्तो रात्रावासीत् ॥ ५ ॥ कुनखी श्यावदन्तस्तु कृच्छ्रं द्वादशरात्रं चरेत् ॥ ६ ॥ परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत तां चैवोपयच्छेत् ॥ ७ ॥ अथ परिविविदानः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्नि- विशेत तां चैवोपयच्छेत् ॥ ८ ॥ 46. तं चेद्घातयेत राजा राजधर्मेण दुष्यति F. H. ज्ञान्त B. 48. नाद्य E. H. मन्त्रिणं E. H. XX. 4. °अभ्युद्यितः B. Bh. E. H.
५९ अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविक्षेत तां चोप- यच्छेत् ॥ ९ ॥ दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निंविशेत् ॥ १० ॥ वीरहणं परस्ताद्वक्ष्यामः ॥ ११ ॥ ब्रह्मोञ्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात् ॥ १२ ॥ गुरुतल्पगः सवृषणं शिश्नमुद्धृत्याञ्जलावाधाय दक्षिणामुखो गच्छे- द्यत्रैव प्रतिहन्यात्तत्र तिष्ठेदाप्रलयम् ॥ १३ ॥ निष्कालको वा घृताभ्यक्तस्तप्तां सूर्मीं परिष्वजेन्मरणात्पूतो भव- तीति विज्ञायते ॥ १४ ॥ आचार्यपुत्रशिष्यभार्यासु चैवम् ॥ १५ ॥ योनिषु गुर्वी सखीं गुरुसखीमपपात्रां पतितां च गत्वा कृच्छ्रा- ब्दपादं चरेत् ॥ १६ ॥ एतदेव चाण्डालपतितान्नभोजनेषु ततः पुनरुपनयनं वपनादीनां तु निवृत्तिः ॥ १७ ॥ मानवं चात्र श्लोकमुदाहरन्ति । वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । एतानि तु निवर्तन्ते पुनःसंस्कारकर्मणीति ॥ १८ ॥ (११।१५१॥) मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतं प्राश्य पुनःसंस्कारश्च ॥ १९ ॥ मूत्रशकृच्छुक्राभ्यवहारेषु चैवम् ॥ २० ॥ 11. वोरणं B. Bh. E. 12. ब्रह्मघ्नः F. ब्रह्मोझः E. H. ब्रह्मोकः B. Bh. 14. निष्कलङ्को वा घृताक्तस्तप्तां F. E. 16. योनिषु च F. H.
(वाम पार्श्व टिप्पणी): निवर्तन्ते द्विजातीनामिति च तत्र पाठः।
६० मद्यभाण्डे स्थिता आपो यदि कश्चिद्विजः पिबेत्पद्मोडुम्बरबिल्व- पलाशानमुदकं पीत्वा त्रिरात्रेणैव शुध्यति ॥ २१ ॥ अभ्यासे तु सुराया अग्निवर्णां तां द्विजः पिबेन्मरणात्पूतो भवतीति ॥ २२ ॥ भ्रूणहनं वक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं च गर्भम् ॥ २३ ॥ अविज्ञाता हि गर्भाः पुमांसो भवन्ति तत्मात्पुंस्कृत्या जुह्वतीति ॥ २४ ॥ भ्रूणहाग्निमुपसमाधाय जुहुयादेताः ॥ २५ ॥ लोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वासय इति प्रथमां । त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय इति द्वितीयां । लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासय इति तृतीयां । मांसं मृत्यो- र्जुहोमि मांसेन मृत्युं वासय इति चतुर्थीं । स्नावानि मृत्यो- र्जुहोमि स्नावभिर्मृत्युं वासय इति पञ्चमीं । मेदो मृत्योर्जुहोमि मेदसा मृत्युं वासय इति षष्ठीं । अस्थीनि मृत्योर्जुहोम्यस्थि- भिर्मृत्युं वासय इति सप्तमीं । मज्जानं मृत्योर्जुहोमि मज्जाभिर्मृत्युं वासय इत्यष्टमीमिति ॥ २६ ॥ राजार्थे ब्राह्मणार्थे वा संग्रामेऽभिमुखमात्मानं घातयेत् ॥ २७ ॥ त्रिरजितो वापराद्धः पूतो भवतीति विज्ञायते हि ॥ २८ ॥ निरुक्तं ह्येनः कनीयो भवतीति ॥ २९ ॥ 21. पिबेत्कुशमोडुम्बर °Ban. ed. 24. पुस्कृत B. H. पुरस्कृत्य Bh. E. H. 25. एता: wanted F. H. 26. वाशय B. F. प्रथम। द्विताय and so on F. H. 27. शवार्थे F. 28. त्रिरजितो वापराद्धं: Bh. E. विरजितो- व्यापराद्धः H. व्यापराधः F. this Sūtra seems to be corrupt, compare Āpast. Dh. I, 24, 21 and Gautama 22, 8.
६१ तथाप्युदाहरन्ति । पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः । वचनात्तुल्यदोषः स्यान्मिथ्या द्विर्दोषतां व्रजेदिति ॥ ३० ॥ एवं राजन्यं हत्वाष्टौ वर्षाणि चरेत् ॥ ३१ ॥ षड् वैश्यम् ॥ ३२ ॥ त्रीणि शूद्रम् ॥ ३३ ॥ ब्राह्मणीं चात्रेयीं हत्वा सवनगतौ च राजन्यवैश्यौ ॥ ३४ ॥ आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः ॥ ३५ ॥ अत्र ह्रोष्यदपत्यं भवतीति ॥ ३६ ॥ अनात्रेयीं राजन्यहिंसायाम् ॥ ३७ ॥ राजन्यां वैश्यहिंसायाम् ॥ ३८ ॥ वैश्यां शूद्रहिंसायाम् ॥ ३९ ॥ शूद्रां हत्वा संवत्सरम् ॥ ४० ॥ ब्राह्मणसुवर्णहरणे प्रकीर्य केशानराजानमभिधावेत्स्तेनोस्मि भोः शास्तु मां भवानिति तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेन्मरणात्पूतो भवतीति विज्ञायते ॥ ४१ ॥ निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदा- शरीरम् हयेन्मरणात्पूतो भवतीति विज्ञायते ॥ ४२ ॥ इत्यर्थः । अथाप्युदाहरन्ति । पुरा कालात्प्रमीतानां पापाद्द्विविधकर्मणाम् । पुनरापन्नदेहानामङ्गं भवति तच्छृणु ॥ ४३ ॥ स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा । सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पग इति ॥ ४४ ॥ 36. ह्रोष्वदम्पत्यं B. ह्रेपामपत्यं E. H. ह्रोष्यमपत्यं Bh. ह्रष्पदपलं F. 43. यथाप्युदाहरन्ति Bh. E.
६२ पतितसंप्रयोगे च ब्राह्मेण वा यौनेन वा यास्तेभ्यः सकाशा- न्माता उपलब्धास्तासां परित्यागस्तैश्च न संवसेत् ॥ ४५ ॥ उदीचीं दिशं गत्वानश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥ ४६ ॥ तथाप्युदाहरन्ति । शरीरपरितापेन तपसाध्ययनेन च । मुच्यते पापकृत्यापाद्दानाच्चापि प्रमुच्यते ॥ इति विज्ञायते विज्ञायत इति ॥ ४७ ॥ इति वासिष्ठधर्मशास्त्रे विंशोध्यायः ॥ २० ॥ शूद्रश्चेद्व्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येद्व्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णख- रमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ १ ॥ वैश्यश्चेद्व्राह्मणीमभिगच्छेल्लोहितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद्व्रा- ह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां गौर- खरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ २ ॥ राजन्यश्चेद्व्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्ये- द्व्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां श्वेतखरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ ३ ॥ एवं वैश्यो राजन्यायाम् ॥ ४ ॥ 45. °संप्रयोगं च B. Bh. Ban. ed. XXI. 1. 2. 3. प्राश्येत् B. Ban. ed. H. वापनं Bh. E. H. सर्पिषाभ्यज्य B. H.
६३ शूद्रश्च राजन्यवैश्ययोः ॥ ५ ॥ मनसा भर्तुरतिचारे त्रिरात्रं यावकं क्षीरोदनं वा भुञ्जानाधः शयीतोर्ध्वं त्रिरात्रादप्सु निमग्नायाः सावित्र्याष्टशतेन शिरोभि- र्जुहुयात्पूता भवतीति विज्ञायते ॥ ६ ॥ वाक्संबन्ध एतदेव मासं चरित्वोर्ध्वं मासादप्सु निमग्नायाः सावित्र्याश्चतसृभिरष्टशतैः शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥ ७ ॥ व्यवाये तु संवत्सरं घृतपटं धारयेद्गोमयगर्ते कुशप्रस्तरे वा शयीतोर्ध्वं संवत्सरादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरो- भिर्जुहुयात्पूता भवतीति विज्ञायते ॥ ८ ॥ व्यवाये तीर्थगमने धर्मेभ्यस्तु निवर्तते ॥ ९ ॥ चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥ १० ॥ या ब्राह्मणी च सुरापी न तां देवाः पतिलोकं नयन्तीहैव सा चरति क्षीणपुण्याप्सु लुम्भवति शुक्तिका वा ॥ ११ ॥ ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण सङ्गताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥ १२ ॥ प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रायणोत्तरम् ॥ १३ ॥ पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचिव्रतानाम् । तासां तु लोकाः पतिभिः समाना गोमायुलोका व्यभिचारिणीनाम् ॥ १४ ॥ 9. व्यवायतीर्थगमनधर्मेभ्यः Colebrooke IV., Dig. LXXVI., 10. पतिघ्नि तु B. F. H. 11. शूकरी वा Colebrooke IV., Dig. CXIII, 12. ते नराः F. H. वासिष्ठधर्म ९.