वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 65, कुल 106 में से
संदर्भ में पढ़ें५१ याश्चानपत्यास्तासामा पुत्रलाभात् ॥ ४१ ॥ द्व्यंशं ज्येष्ठो हरेत् ॥ ४२ ॥ गवाश्वस्य चानुदशमम् ॥ ४३ ॥ अजावयो गृहं च कनिष्ठस्य ॥ ४४ ॥ कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥ ४५ ॥ मातुः पारिणेयं स्त्रियो विभजेरन् ॥ ४६ ॥ यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैश्यासु पुत्राः स्युः ॥ ४७ ॥ त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् ॥ ४८ ॥ द्व्यंशं राजन्यायाः पुत्रः ॥ ४९ ॥ सममितरे विभजेरन् ॥ ५० ॥ येन चैषां स्वयमुत्पादितं स्याद् द्व्यंशमेव हरेत् ॥ ५१ ॥ अनंशास्त्वाश्रमन्तरगताः ॥ ५२ ॥ क्लीबोन्मत्तपतिताश्च ॥ ५३ ॥ भरणं क्लीबोन्मत्तानाम् ॥ ५४ ॥ प्रेतपत्नी षण्मासान्व्रतचारिण्यक्षारलवणं भुञ्जानाधः शयीत ॥ ५५ ॥ ऊर्ध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्म- गुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा नियोगं कारयेत् ॥ ५६ ॥ न सोन्मादामवशां व्याधितां वा नियुञ्ज्यात् ॥ ५७ ॥ ज्यायसीमपि ॥ ५८ ॥ षोडश वर्षाणि ॥ ५९ ॥ न चेदामयावी स्यात् ॥ ६० ॥ 47. यदि च E. H. 56. सन्नियोगं Ban. ed. H. 57. उन्मत्तां B, F. H. perhaps वशां to be read instead of अवशां of all the Mss.