भारतकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 64, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 64

५०

गृहे च गूढोत्पन्नः षष्ठः ॥ २४ ॥ इत्येते दायादा बान्धवास्त्रातारो महतो भयादित्याहुः ॥ २५ ॥ अथादायादबन्धूनां सहोढ एव प्रथमः ॥ २६ ॥ या गर्भिणी संस्क्रियते सहोढः पुत्रो भवति ॥ २७ ॥ दत्तको द्वितीयः ॥ २८ ॥ यं मातापितरौ दद्याताम् ॥ २९ ॥ क्रीतस्तृतीयः ॥ ३० ॥ तच्छुनःशेपेन व्याख्यातम् ॥ ३१ ॥ हरिश्चन्द्रो वै राजा सोजीगर्तस्य सौयवसेः पुत्रं चिक्राय ॥ ३२ ॥ स्वयमुपागतश्चतुर्थः ॥ ३३ ॥ तच्छुनःशेपेन व्याख्यातम् ॥ ३४ ॥ शुनःशेपो वै यूपे नियुक्तो देवतास्तुष्टाव । तस्येह देवताः पाशं विमुमुचुस्तमृत्विज ऊचुः । ममैवायं पुत्रोस्त्विति तान्ह न संपेदे । ते संपादयामासुः । एष एव यं कामयेत्तस्य पुत्रोस्त्विति । तस्य ह विश्वामित्रो होतासीत्तस्य पुत्रत्वमियाय ॥ ३५ ॥ अपविद्धः पञ्चमः ॥ ३६ ॥ यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ॥ ३७ ॥ शूद्रापुत्र एव षष्ठो भवतीत्याहुरित्येतेदायादबान्धवाः ॥ ३८ ॥ अथाप्युदाहरन्ति । यस्य पूर्वेषां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं हरेरन्निति ॥ ३९ ॥ अथ भ्रातॄणां दायविभागः ॥ ४० ॥

  1. हरिश्चन्द्रोह वै F. H. विक्रीण्य B. विक्रीय Ban. ed. विक्रांय Bh. E. F. H. विक्राय्य स्वयं क्रीतवान् Calc. ed. J. O. 913. 34 °उपनयतः B. F. H. 35. यूपेन B. Bh. E. H. 39. सर्वेषां धर्माणं न E. पूर्वेषां वर्णानां न Bh. F. H.
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक) · पृष्ठ 64, कुल 106 में से · BharatKosha