वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 98, कुल 106 में से
संदर्भ में पढ़ेंराजन्यश्चेदब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येदेवं वैश्यो राजन्यायां मैथुनमाचरञ्छूद्रस्तु राजन्यवैश्ययोः ॥ 𝑗 B. Quotations which go by the name of Vasiṣṭha, but are not found in our MSS. सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्विषी ॥ १ ॥ समवेतैस्तु यद्दृष्टं वक्तव्यं तु तथैव तत् । विभिन्नैरेव यत्कार्यं वक्तव्यं तत्पृथक्पृथक् ॥ २ ॥ भिन्नकाले तु यत्कार्यं विज्ञातं यच्च साक्षिभिः । एकैकं वाद्येत्तत्र विधिरेषः प्रकीर्तितः ॥ ३ ॥ अथ चेदनृतं ब्रूयात्सर्वतो मिथ्यलक्षणम् । मृतो नरकमायाति तिर्यग्गच्छत्यसंशयम् ॥ ४ ॥ शूकरो दश वर्षाणि दश वर्षाणि गर्दभः । श्वा चैव दश वर्षाणि भासो वा निजाविंशतिम् ॥ ५ ॥ कृमिकीटपतङ्गेषु चत्वारिंशत्तथैव च । मृगस्तु दश वर्षाणि जायते मानवस्ततः ॥ ६ ॥ मानुष्यं तु यदाप्नोति मूकोऽन्धस्तु भवेद्धि सः । पामरो जायते पश्चात्स परिव्यक्तबान्धवः ॥ ७ ॥ पंग्वन्धबधिरो मूकः कुष्ठी नग्नः पिपासितः । बुभुक्षितः शत्रुगृहे भिक्षते भार्यया सह ॥ ८ ॥ ज्ञात्वैताननृते दोषान्कांश्चान्त्या सत्ये च सद्गुणान् । श्रेयस्करमिहान्यत्र सत्यं साक्ष्ये वदेदतः ॥ ९ ॥ लौकिकं राजकीयं च लेख्यं विद्याद्द्विलक्षणम् । राजकीयं चतुर्भेदंनष्टभेदं तु लौकिकम् ॥ १० ॥ चिरकं च स्वहस्तं च तथापगतसंज्ञितम् । आधिपत्रं चतुर्थं च पञ्चमं क्रयपत्रकम् ॥ ११ ॥ षष्ठं तु स्थितिपत्राख्यं सप्तमं सन्धिपत्रकम् । विशुद्धिपत्रकं चैवमष्टधा लौकिकं स्मृतम् ॥ १२ ॥ चिरकं नाम लिखितं पुराणैः पौरलेखकैः । अर्थिप्रत्यर्थिनिर्दिष्टैर्यथासंभवसंस्कृतैः ॥ १३ ॥
(𝑗) Vas. XXI., 3 ; Vaij. Kam. 10. May. 9, 24 ; Sm. Ap. Vīr.
- Vīr 37, 13; Ap. Vaij. Kam. 197. 2-3 Vīr. 168, 19 ; May. 15, 11-12. Vīr. 197, Sm. Ap. 25 ; Ap. Vaij. 13-14. Sm. Ap. Vaij. 4-9. Vīr. 170. 171 ; Sm. Ap.