वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 99, कुल 106 में से
संदर्भ में पढ़ेंस्वकीयैः पितृनामाद्यैरर्थिप्रत्यर्थिसाक्षिणाम् । प्रतिनामभिराक्रान्तमर्थिसाक्षिश्वहस्त्वत् । स्पष्टावगतसंयुक्तं यथास्मृत्युक्तलक्षणम् ॥ १४ ॥ राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ १५ ॥ शासनं प्रथमं ज्ञेयं जयपत्रं तथापरम् । आज्ञाप्रज्ञापनपत्रे राजकीयं चतुर्विधम् ॥ १६ ॥ सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु वा । कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥ १७ ॥ ऋत्विक्पुरोहिताचार्यमान्येष्वाभ्यर्हितेषु च । कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥ १८ ॥ पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेषयेत् । पाण्डुलेखेन फलके ततः पत्रं विशोधयेत् ॥ १९ ॥ यथोपन्यस्तसाध्यार्थं संयुक्तं सोत्तरक्रियम् । सावधारणकं चैव जयपत्रकमुच्यते ॥ २० ॥ प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जायने जयपत्रकम् ॥ २१ ॥ सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालिख्यं विधौ तद्वत्स्वहस्तं तत्र दापयेत् ॥ २२ ॥ कालं निवेश्य राजानं स्थानं निवसितं तथा । दायकं ग्राहकं चैव पितृनाम्नां च संयुतम् ॥ २३ ॥ जातिं स्वगोत्रं शाखां च द्रव्याधार्थी स संख्यकम् । वृद्धिं ग्राहकहस्तं च विदिताथ च साक्षिणौ ॥ २४ ॥ तुल्यकाले निसृष्टानां लेख्यानामाधिकर्मणि । येन भुक्तं भवेत्पूर्वं तस्याधिर्बलवत्तरः ॥ २५ ॥ यद्येकदिवसे तौ तु भोक्तुकामावुपगता । विभज्याधिः समस्तत्र भोक्तव्य इति निश्चयः ॥ २६ ॥ सामान्योयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानितान्भाविनः पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः ॥ २७ ॥ 15–18. May. 11, 10; Vīr. 196; 22. Mit. [I. 33; Sm. Ap. Sm. Ap. Vaij. 23-24. Vīr. 191; Sm. Ap. 19. Sm. Mādh. Ap. 25. May 67, 16 : Vīr. 311, Ap. 20–21. Vīr. 195, 1; Mit II., 26. May. 67; Vīr 96; Sm. 33; Sm. 27. Ap. Vaij Kam.