भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 144, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 144

108 वास्तुमण्डनम् गृहे मध्योन्नताभूमिर्निम्नाऽपीष्टा सुरालये । गजस्कन्धा समोत्सेधा राजवेश्मादिभूमिकाः ॥ ३७ ॥ ताम्रपात्रस्थितैर्धान्यं मृत्कन्दौषधिधातुभिः । ११सरत्नैः स्वस्वचिह्नाद्यैर्गर्भन्यासो गृहादिषु ॥ ३८ ॥ ब्राह्ममैत्रेद्रवादित्यपुष्यस्वात्युत्तरे१२व च । पित्रे पौष्णे श्रुतौ १३गर्भः सद्युक्ते क्षे स्थिरोदये ॥ ३९ ॥ गर्भस्थानं गृहेषिन्द्रे भल्लाटे वा गृहक्षते । पुष्पदन्तेऽथवा द्वारदक्षिणस्तम्भकादधः ॥ ४० ॥ सगर्भं सर्वसम्पत्त्यै विगर्भं सर्वनाशनम् । तस्मात् सर्वप्रयत्नेन गर्भं सम्यग्विनिक्षिपेत् ॥४१ ॥ इति गर्भन्यासः ॥ प्रतिहस्तं शिलाबद्धा भूमिर्युगयवानता । इष्टका भित्तिविस्तारो गृहव्यासः कलांशतः ॥४२ ॥ पादोनो मध्यमः प्रोक्तो उत्तमार्धेन कन्यसः । मन्वङ्गुलादेः केप्याऽहुस्त्रिंशन्मात्रावधिं तु तान् ॥४३ ॥ इति भित्तिः ॥ नागदन्तौ तु शालायां द्वौ द्वौ वामे चं दक्षिणे । एकशालार्कभागेन तस्मान्यदर्धेऽन्तरे परः ॥४४ ॥ द्वारोर्ध्वाङ्गसमा शस्ता न गृहाभिमुखाः शुभाः । दैवे दीपालयो वामे दक्षिणाङ्गे नृणां गृहे ॥४५ ॥ ११. सरलैः in BCDE १२. करे in A १३. गर्त in BCDE

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक) · पृष्ठ 144, कुल 296 में से · BharatKosha