भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 100, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 100

[अ० ३० श्लो० ७४-९४] वायुपुराणम् । ९१

( दक्षशापवर्णनम् ) एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे । प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसः ॥ ७४ दशभ्यस्तु प्रचेतोभ्यो मार्षायां च पुनर्नृपः । जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् ॥ ७५ भृग्वादयस्तु ते सर्वे जज्ञिरे वै महर्षयः । आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य ह ॥ ७६ देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ इति सानुशयो ह्यासीत्तयोर्जात्यन्तरागतः । प्रजापतेस्तु दक्षस्य त्र्यम्बकस्य च धीमतः ॥ ७७ तस्मान्नानुशयः कार्यो वैरैश्चिह कदाचन । जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः ॥ ७८ जन्तुं न मुञ्चति ख्यातिस्तन्न कार्यं विजानता ॥ ऋषय ऊचुः-- प्राचेतसस्य दक्षस्य कथं वैवस्वतेऽन्तरे । विनाशमगमत्सूत हयमेधः प्रजापतेः ॥ ७९ देव्या मृत्युं श्रुतं मत्वा क्रुद्धं सर्वात्मकं प्रभुम् । कथं पासादयद्दक्षः स यज्ञः साधितः कथम् ॥ ८० एतद्वेदितुमिच्छामस्तन्नो ब्रूहि यथातथम् ॥ * सूत उवाच-- पुरा मेरोर्द्विजश्रेष्ठाः शृङ्गं त्रैलोक्यविश्रुतम् । ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥ ८१ अप्रमेयमनाधृष्यं सर्वलोकनमसकृतम् । तस्मिन्देवो गिरिश्रेष्ठे सर्वधातुविभूषिते ॥ ८२ पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह ॥ शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत् । आदित्याश्च महात्मानो वसवश्चामितौजसः ॥ ८३ तथैव च महात्मानावश्विनौ भिषजां वरौ । तथा वैश्रवणो राजा गुह्यकैः परिवारितः ॥ ८४ यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः । उपासते महात्मानमुशना च महामुनिः ॥ ८५ सनत्कुमारप्रमुखास्ते चैव परमर्षयः ॥ आङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे । विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ ॥ ८६ अप्सरोगणसंघाश्च समाजग्मुरनेकशः । ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः ॥ ८७ सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा । तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ॥ ८८ महादेवं पशुपतिं पर्युपासन्ति तत्र वै । भूतानि च तथाऽन्यानि नानारूपधराण्यथ ॥ ८९ राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः । बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः ॥ ९० देवस्यानुचरास्तत्र तस्थुर्वैश्वानरोपमाः । नन्दीश्वरश्च भगवान्देवस्यानुमते स्थितः ॥ ९१ प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा । गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा ॥ पर्युपासत तं देवरूपिणी द्विजसत्तमाः ॥ ९२ एवं स भगवांस्तत्र दीप्यमानः सुरर्षिभिः । देवैश्च सुमहाभागैर्महादेवो व्ववस्थितः ॥ ९३ पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमारभत् । गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ९४


* इदं नास्ति ख. घ. ड. पुस्तकेषु ।

वायु पुराण · पृष्ठ 100, कुल 465 में से · BharatKosha