भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 101, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 101

५२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३० श्लो० ९५-११३] (दक्षशापवर्णनम्)

ततस्तस्य मखे देवाः शतक्रतुपुरोगमाः । गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ९५
स्वैर्विमानैर्महात्मानो ज्वलद्भिज्ज्वलनप्रभाः । देवस्यानुमतेऽगच्छन्गङ्गाद्वार इति श्रुतिः ॥ ९६
गन्धर्वाप्सरसाकीर्णं नानाद्रुमलतावृतम् । ऋषिसंघैः परिवृतं दक्षं धर्मभृतां वरम् ॥ ९७
पृथिव्यामन्तरिक्षे वा ये च स्वर्लोकवासिनः । सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥ ९८
आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः । जिष्णुना सहिताः सर्वे आगता यज्ञभागिनः ॥ ९९
उष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा । अश्विनौ पितरश्चैव आगता ब्रह्मणा सह ॥ १००
एते चान्ये च बहवो भूतग्रामास्तथैव च । जरायुजाण्डजाश्चैव स्वेदजोद्भिज्जकास्तथा ॥ १०१
आहूता मन्त्रतः सर्वे देवाश्च सह पत्निभिः × । विराजन्ते विमानस्था दीप्यमाना इवाग्नयः ॥ १०२
तान्दृष्ट्वा मन्युमाविष्टो दधीचो वाक्यमब्रवीत् । अपूज्यपूजने चैव पूज्यानां चाप्यपूजने ॥
नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ १०३
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत । पूज्यं तु पशुभर्तारं कस्मान्नाऽऽह्वयसे प्रभुम् ॥ १०४

दक्ष उवाच—
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः । एकादशावस्थगता नान्यं वेद्मि महेश्वरम् ॥ १०५

दधीच उवाच—
सर्वेषामेकमन्त्रोऽयं येनेशो न निमन्त्रितः । यथाऽहं शंकरादूर्ध्वं नान्यत्पश्यामि दैवतम् ॥
तथा दक्षस्य विपुलों यज्ञोऽयं न भविष्यति ॥ १०६

दक्ष उवाच—
एतन्मखेशाय सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् ।
विष्णोर्नयाम्यप्रतिमस्य सर्वं प्रभोर्विभोर्ह्याहवनीयनित्यम् ॥ १०७
गतांस्तु देवता ज्ञात्वा शैलराजसुता तदा । उवाच वचनं साध्वी देवं पशुपतिं तदा ॥ १०८

उमोवाच—
भगवन्क गता ह्येते देवाः शक्रपुरोगमाः । ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ १०९

महेश्वर उवाच—
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ ११०

देव्युवाच—
यज्ञमेतं महाभाग किमर्थं न गतोऽसि वै । केन वा प्रतिषेधेन गमनं प्रतिषिध्यते ॥ १११

महेश्वर उवाच—
सुरैरेव महाभागे सर्वमेतनुष्ठितम् । यर्वेषु मम सवेषु न भाग उपकल्पितः ॥ ११२
पूर्वोपायापपन्नेन मार्गेण वरवर्णिनि । न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धीमतः ॥ ११३


× आर्षः प्रयोगः ।

वायु पुराण · पृष्ठ 101, कुल 465 में से · BharatKosha