वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 103, कुल 465 में से
संदर्भ में पढ़ें| ९४ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ३० श्लो० १३४-१५८] |
|---|
( दक्षशापवर्णनम् )
कार्णिकाररजं दीप्तं क्रोधादुद्भ्रान्तलोचनम् । क्वचिन्नृत्यति चित्राङ्गं क्वचिद्वदति सुस्वरम् ॥ १३४
क्वचिद्ध्यायति युक्तात्मा क्वचित्स्थूलं प्रमाजर्ति । क्वचिद्धायति विश्वात्मा क्वचिद्रौति मुहुर्मुहुः ॥ १३५
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । प्रभुत्वमात्मसंबोधो हविष्ठानगुणैर्युतः ॥ १३६
जानुभ्यामवनिं गत्वा प्रणतः प्राञ्जलिः स्थितः । आज्ञापय त्वं देवेश किं कार्यं करवाणि ते ॥ १३७
तमुवाचाऽऽक्षिप मखं दक्षस्येह महेश्वरः । देवस्यानुमतिं श्रुत्वा वीरभद्रो महाबलः ॥
प्रणम्य शिरसा पादौ देवेशस्य उमापतेः ॥ १३८
ततो बन्धात्प्रमुक्तेन सिंहेनेवेह लीलया । देव्या मन्युकृतं मत्वा हतो दक्षस्य स क्रतुः ॥ १३९
मन्युना च महाभीमा भद्रकाली महेश्वरी । आत्मनः सर्वसाक्षित्वे तेन सार्धं सहानुगा ॥ १४०
स एष भगवान्क्रुद्धः प्रेतावासकृतालयः । वीरभद्र इति ख्यातो देव्या मन्युममार्जकः ॥ १४१
सोऽसृजद्रोमकूपेभ्यो रौद्रान्नाम गणेश्वरान् । रुद्रानुगा महावीर्या रुद्रवीर्यपराक्रमः ॥ १४२
रुद्रस्यानुचराः सर्वे सर्वे रुद्रसमप्रभाः । ते निपेतुरतस्तूर्ण शतशोऽथ सहस्रशः ॥ १४३
ततः किलकिलाशब्द आकाशं पूरयन्निव । तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः ॥ १४४
पर्वताश्च व्यशीर्यन्त कम्पते च वसुंधरा । मेरुश्च घूर्णते विमाः क्षुभ्यन्ते वरुणालयाः ॥ १४५
अग्नयो नैव दीप्यन्ते न च दीध्यति भास्करः । ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः ॥ १४६
ऋषयो नाभ्यभाषन्त न देवा न च दानवाः । एवं हि तिमिरीभूते निर्दहन्ति विमानिताः ॥ १४७
सिंहनादं प्रमुञ्चन्ति घोररूपा महाबलाः । प्रभञ्जन्ते परे घोरा यूपानुत्पाटयन्ति च ॥ १४८
प्रमर्दन्ति तथा चान्ये विनृत्यन्ति तथाऽपरे । आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः ॥ १४९
चूर्ण्यन्ते यज्ञपात्राणि यागस्याऽऽयतनानि च । शीर्यमाणानि दृश्यन्ते तारा इव नभस्तलात् ॥ १५०
दिव्यान्नपानभक्षाणां राशयः पर्वतोपमाः । क्षीरनद्यस्तथा चान्या घृतपायसकर्दमाः ॥
मधुमण्डोदका दिव्याः खण्डशर्करवालुकाः ॥ १५१
षड्रसाश्चिवहन्त्यन्या गुडकुल्या मनोरमाः । उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥ १५२
पानकानि च दिव्यानि लेह्यं चोष्यं तथाऽपरे । भुञ्जते विविधैर्वक्त्रैर्विल्लुण्ठन्ति (×क्षिपन्ति च॥१५३
रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः । सुरसैन्यानि मर्दन्तो भीषयन्ति ) च सर्वशः ॥ १५४
क्रीडन्ति विविधाकाराश्चिक्षेपुः सुरयोषितः ॥
रुद्रकोपप्रयुक्तास्तु सर्वदेवैः सुरक्षितम् । तं यज्ञमहञ्शीघ्रं रुद्रकल्पाः समीपतः ॥ १५५
चक्रुरन्ये तथा नादान्सर्वभूतभयंकरान् । छित्त्वा शिरोऽन्ये यज्ञस्य विनदन्ति भयंकराः ॥ १५६
दक्षो दक्षपतिश्चैव देवो यज्ञपतिस्तथा । मृगरूपेण चाऽऽकाशे प्रपलायितुमारभत् ॥ १५७
वीरभद्रोऽप्रमेयात्मा ज्ञात्वा तस्य बलं तदा । अन्तरिक्षगतस्याऽऽशु चिच्छेदास्य शिरो महान् ॥ १५८
× धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।