वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 106, कुल 465 में से
संदर्भ में पढ़ें[अ० ३० श्लो० २११-२३२] वायुपुराणम् । ९७
(दक्षशापवर्णनम )
हुंहुंकाराय पाराय हुंहुंकारप्रियाय च । नमश्च शम्भवे नित्यं गिरिवृक्षकलाय च ॥ २११
गर्भमांसशृगालाय तारकाय तराय च । नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ २१२
यज्ञवाहाय दानाय तप्याय तपनाय च । तमस्तटाय भव्याय तडितां पतये नमः ॥ २१३
अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च । नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ २१४
सहस्रोद्यतशूलाय सहस्रनयनाय च । नमोऽस्तु बालरूपाय बालरूपधराय च ॥ २१५
बालानां चैव गोप्त्रे च बालकीडनकाय च । नमः शुद्धाय बुद्धाय शोभनायाक्षताय च ॥ २१६
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ २१७
वर्णाश्रमाणां विधिवत्पृथक्कर्मप्रवर्त्तिने । नमो घोषाय घोष्याय नमः कलकलाय च ॥ २१८
[ *श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । धर्मार्थकाममोक्षाय कथाय कथनाय च ]॥ २१९
सांख्याय सांख्यमुख्याय योगाधिपतये नमः । नमो रथ्यविरथ्याय चतुष्पथरताय च ॥ २२०
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशान वज्रसंह्राय हरिकेश नमोऽस्तु ते ॥
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ २२१
काम कामद कामघ्न धृष्टोद्धृस निसूदनः । सर्व सर्वद सर्वज्ञ संध्याराग नमोऽस्तु ते ॥ २२२
महाबल महाबाहो महासत्त्व महाद्युते । महोमघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ २२३
स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे । दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे ॥
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ २२४
उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज । चन्द्रावर्त युगावर्त मेघावर्त नमोऽस्तु ते ॥ २२५
त्वमन्नमन्नकर्ता च अन्नदश्च त्वमेव हि । अन्नस्रष्टा च पक्ता च पक्वभुकपचे नमः ॥ २२६
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च । त्वमेव देवदेवेशो भूतग्रामश्चतुर्विधः ॥ २२७
चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च । त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ २२८
सत्त्वस्यं परमा योनिरब्वायुर्ज्योतिषां निधिः । ऋक्सामानि तथोङ्कारमाहस्त्वां ब्रह्मवादिनः ॥ २२९
हविर्हावी हवो हावी हुवां वाचाऽहुतिः सदा । गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ २३०
÷यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा । पठ्यसे ब्रह्मविद्भ्रिस्त्वं कल्पोपनिषदां गणैः ॥ २३१
ब्राह्मणाः क्षत्रया वैश्याः शूद्रा वर्णावरोश्रये । त्वामेव मेघसंघाश्च विध्वस्तनितगर्जतम् ॥ २३२
* धनुश्चिह्नान्तर्गतग्रन्थः ख, घ, पुस्तकयोर्नास्ति । ÷ इदमर्द्धंनास्ति ख, पुस्तके ।
१३