भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 107, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 107
९८श्रीमद्वैपायनमुनिप्रणीतम्–[अ० ३० श्लो० २३३–२५५]
(दक्षशापवर्णनम्)

संवत्सरस्त्वमृतवो मासो मासार्द्धमेव च । कलाकाष्ठानिमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ २३३
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च । सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ २३४
क्षीरोदो हृदधीनां च यन्त्राणां धनुरेव च । वज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥ २३५
इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः । व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ २३६
त्वं मदी त्वं शरी चापि खट्वाङ्गी भर्भरी तथा । छेत्ता भेत्ता महर्ता च त्वं नेताऽप्यन्तको मतः ॥ २३७
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ २३८
लतावली तृणौषध्यः पशवो मृगपक्षिणः । द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ २३९
आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च । हरितो लोहितः कृष्णो नीलः पीतस्तथाऽरुणः ॥ २४०
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा । सुवर्णरेता विख्यातः सुवर्णश्चापतो मतः ॥ २४१
सुवर्णनामा च तथा सुवर्णप्रिय एव च । (*त्वामिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ २४२
उत्फुल्लश्चित्रभानुश्च स्वभानुर्भानुरेव च । होत्रं होता च होमस्त्वं हुतं च प्रहुतं प्रभुः ॥ २४३
सुपर्णंच तथा ब्रह्म यजूषां शतरुद्रियम् । पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥ २४४
गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च) । सत्त्वं त्वं च रजस्त्वं च तमश्च प्रजनं तथा ॥ २४५
प्राणोऽपानः समानश्च उदानो व्यान एव च । उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ २४६
लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः । शुचिरोमा हरिश्मश्रूरूर्ध्वकेशस्त्रिलोचनः ॥ २४७
गीतवादित्रनृत्याङ्गो गतिवादनकप्रियः । मत्स्यो जलो जलो जल्यो जवः कालः कली कलः ॥ २४८
निकालश्च सुकालश्च दुःप्कालः कालनाशनः । मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ २४९
संवर्तकोऽन्तकश्चैव संवर्तकबलाहकौ । वटो वटीको घण्टीको चूडालो लबलो बली ॥ २५०
ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् । चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ २५१
चतुराश्रमवेत्ता च चातुर्वर्ण्यकरश्च ह । क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ २५२
रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः । शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ २५३
भग्नेत्रान्तकश्चन्द्रः पूष्णो दन्ताविनाशनः । + स्वाहा स्वधा वषट्कार नमस्कार नमोऽस्तु ते ॥
गूढावर्तश्च गूढश्च गूढपातिनिषेविता ॥ २५४
तरणस्तारकश्चैव सर्वभूतसुतारणः । धाता विधाता सत्त्वानां निधाता धारणो धरः ॥ २५५


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + इदमर्धं नास्ति क. पुस्तके ।