वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 108, कुल 465 में से
संदर्भ में पढ़ें[अ० ३ ० श्लो० २५६-२७९] वायुपुराणम् ९९
( दक्षशापवर्णनम् )
तपो ब्रह्म च सत्यं च ब्रह्मचर्यमथाऽऽर्जवम् । भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ २५६
भूर्भुवस्वरितिश्चैव तथोत्पत्तिर्महेश्वरः । ईशानोद्धीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ २५७
ब्रह्मावर्त सुरावर्त कामावर्त नमोऽस्तु ते । कामबिम्बनिहर्ता च कर्णिकाररजःप्रियः ॥ २५८
मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः । चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ २५९
हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् । अधर्महा महादण्डो दण्डधारो रणप्रियः ॥ २६०
गौतमो गोप्रतारश्च गोवृषेश्वरवाहनः । * धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदोत्तमः ॥ २६१
त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च । तिष्ठंस्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ २६२
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः । दुर्धरो दुष्प्रकम्पश्च दुर्विदो दुर्जयो जयः ॥ २६३
शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् । आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह॥ २६४
सहो यज्ञो मृगव्याधो व्याधीनामाकरोऽकरः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ २६५
दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः । विषपोऽमृतपश्चैव सुरापाः क्षीरसोमपः ॥ २६६
मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः । वृषाश्ववाहो वृषभस्तथा वृषभलोचनः ॥ २६७
वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः । चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामह ॥ २६८
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥
न ब्रह्मा न च गोविन्दः पुराणऋषयो न च । महात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ २६९
या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् । ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ २७०
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तुते । भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ २७१
यः सहस्राण्यनेकानि पुंसामाहत्य दुर्दृशः । तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥ २७२
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
संभक्ष्य सर्वभूतानि युगान्ते समुपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सु शायिनम् ॥ २७४
प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि । ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ २७५
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते हि मां नित्यं नित्यामाप्याययन्तु माम् ॥
ये चाप्युत्पतिता गर्भादधोभागगताश्च ये । तेषां स्वाहाः स्वधाश्चैव अप्नुवन्तु स्वदन्तु च ॥ २७७
ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च । हर्षयन्ति च हृप्यन्ति नमस्तेभ्यस्तु नित्यशः ॥
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ २७८
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । (+हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ २७९
* इदमर्धं नास्ति ख. ग. घ. पुस्तकेषु । + धनुश्चिह्नान्तर्गतग्रन्थः क. ख. घ. पुस्तकेषु नास्ति