भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 120, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 120

[अ० ३४ श्लो० १७-३७] वायुपुराणम् । १११

( जम्बूद्वीपवर्णनम् )

पूर्व्वतः श्वेतवर्णोऽसौ ब्राह्मण्यं तस्य तेन तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ १७ भृङ्गपत्रनिभश्चासौ पश्चिमेन महाबलः । तेनास्य शूद्रता दृष्टा मेरोनानार्थकारणात् ॥ १८ पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रता च स्यादिति वर्णाः प्रकीर्तिताः ॥ व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ १९ नीलश्च वैदूर्यमयः श्वेतशृङ्गो हिरण्मयः । मयूरबर्हवर्णस्तु शातकौम्भस्तु शृङ्गवान् ॥ २० एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ २१ मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः । नवैव तु सहस्राणि विस्तीर्णः पर्वतस्तु सः ॥ मध्ये तस्य महामेरोर्निर्धूम इव पावकः ॥ २२ वेद्यर्धं दक्षिणं मेरोरुत्तरार्धं तथोत्तरम् । वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्वताः ॥ २३ द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रवात् ॥ २४ जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ॥ २५ नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ २६ नवतिर्द्धावशीतिद्वौ सहस्राण्यायतास्तु ये । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ संपातविषमैस्तैस्तु पर्वतैरावृतानि च । संततानि नदीभेदैरगम्यानि परस्परम् ॥ २७ वसन्ति तेषु सत्त्वानि नानाजातीनि भागशः ॥ २८ इदं हैमवतं वर्षं भारतं नाम विश्रुतम् । हेमकूटं परं तस्मान्नाम्ना किंपुरुषं स्मृतम् ॥ २९ नैषधं हेमकूटं तु हरिवर्षं तदुच्यते । हरिवर्षात्परं चैव मेरोश्च तदिलावृतम् ॥ इलावृतप(तात्प)रं नीलं रम्यकं नाम विश्रुतम् । रम्यात्परतरं श्वेतं विश्रुतं तद्धिरण्मयम् ॥ ३० हिरण्मयात्परं चापि शृङ्गवांस्तु कुरु स्मृतम् ॥ ३१ धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ अर्वाक्च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्धं तु तदुत्तरम् ॥ ३२ वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ ३३ तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम् । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ उदगायतो महाशैलो माल्यवान्नाम पर्वतः । योजनानां सहस्रोरुरानीलनिषधा यतः ॥ ३४ [*आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामादथ विस्तारान्माल्यवानिति विश्रुतः ] ॥ ३५ परिमण्डलयोर्मध्ये मेरुस्तनपर्वतः । चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः ॥ ३६ अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ॥ अव्यक्तात्पृथिवीपद्मं मेरुर्वैपर्वतकर्णिकम् । चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ॥ ३७


* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।