वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 123, कुल 465 में से
संदर्भ में पढ़ें११४ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३४-३५श्लो० ९२ ९६-१-१४] (जम्बूद्वीपवर्णनम् )
महाविमानान्चेतानि दिक्ष्वष्टासु शुभानि हि । अष्टानां देवमुख्यानामिन्द्रादीनां महात्मनाम् ॥ ९२
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
नाकपृष्ठं दिवं स्वर्गमिति यैः परिपठ्यते । वेदवेदाङ्गविद्भिर्हि शब्दैः पर्यायवाचकैः ॥ ९४
तदेतत्सर्वदेवानामधिवासे कृतात्मनाम् । देवलोको गिरौ तस्मिन्सर्वश्रुतिषु गीयते ॥ ९५
नियमैर्विविधैर्यज्ञैर्बहुभिर्नियतात्मभिः । पुण्यैरन्यैश्च विविधैर्नैकजातिशताजितैः ॥
प्राप्नोति देवलोकं तं स स्वर्ग इति चोच्यते ॥ ९६
इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३६
अथ पञ्चत्रिंशोऽध्यायः ।
जम्बूद्वीपवर्णनम् ।
सूत उवाच—
यत्तद्वै कर्णिकामूलमिति वै संप्रकीर्तितम् । तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ॥ १
चत्वारिंशत्तथाऽष्टौ च सहस्राण्यत्र मण्डलम् । शैलराजवृतं रम्यं मेरुमूलमिति श्रुतिः ॥ २
तेषां गिरिसहस्राणामनेकेषु महोच्छ्रिताः । दिक्षु सर्वासु पर्यन्तैर्मर्यादाः पर्वताः स्मृताः ॥ ३
निकुञ्जकन्दरनदीगुहानिर्झरशोभिताः । बहुप्रासादकटकैस्तटैश्च कुसु्मोज्ज्वलैः ॥ ४
नितम्बपुष्पमालौघैः सानुभिर्धातुमण्डितैः । शिखरैर्हेमकपिलैर्नैकप्रस्रवणावृतैः ॥
शोभिता गिरयः सर्वे पृष्टे रत्नसमर्पितैः ॥ ५
विहंगशतसंघुष्टैः कुञ्जरैरुपमौरपि । सिंहशार्दूलशरभैर्नैकैश्चामरवारणैः ॥
नानावर्णाकृतिधरैः सेविता विविधैर्मृगैः ॥ ६
सप्ताधहारिकृष्णाङ्गमौकैकं दशपर्वतम् । बाह्यमाभ्यन्तरा ये तु त्रिवाहास्तु समाः स्मृतः ॥ ७
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । तौ दक्षिणोत्तरायामावानीलानिषधायतौ ॥ ८
कैलासो हिमवांश्चैव दक्षिणोत्तरपर्वतौ । पूर्वपश्चायतावेतावर्णावान्तव्यवस्थितौ ॥ ९
येऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः । विष्कम्भं तस्य वक्ष्यामि तन्मे निगदतः शृणु ॥ १०
महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् । यैर्धृतत्वान्न चलति सप्तद्वीपवती मही ॥ ११
दशयोजनसाहस्र आयामस्तेषु पठ्यते । देवगन्धर्वयक्षाणां नानारत्नोपशोभिताः ॥
नैकनिर्झरवप्राढ्या रम्यकन्दरनिर्मिताः ॥ १२
नितम्बपुष्पकादम्बैः शोभिताश्चित्रसानवः । मनःशिलादरीभिश्च हरितालतलैस्तथा ॥ १३
सुवर्णमणिचित्राभिर्गुहाभिश्च समन्ततः । शुद्धहिङ्गुलकप्रख्यैः काञ्चनेर्धातुमाण्डितैः ॥ १४