वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 124, कुल 465 में से
संदर्भ में पढ़ें[अ० ३५ श्लो० १५-४२] वायुपुराणम् । ११५ (जम्बूद्वीपवर्णनम् ) वरकाञ्चनचितैश्च प्रवालैः समलंकृताः । रुचिराः शतपर्वाणः सिद्धवासा मुदान्विताः ॥ महाविमानैः श्रीमद्भिः समन्तात्परिदीपिताः ॥ १५ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १६ तेषां सहस्रशृङ्गेषु वज्रवैदूर्यवेदिकाः । शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिता ॥ १७ स्निग्धैर्नीलैर्घनैः पर्णैः संच्छन्नविविधाश्रयाः । अनेकयोजनोत्सेधाः सदा पुष्पफलोपगाः ॥ १८ यक्षगन्धर्वसेवाश्च सेविताः सिद्धचारणैः । महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥ १९ मन्दरस्य गिरेः शृङ्गे महावृक्षः स केतुराट् । आलम्बशाखाशिखरः कन्दरश्चैव पादपः ॥ २० महाकुम्भप्रमाणैस्तु पुष्पैर्विकचक्रेसरैः । महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ॥ २१ सहस्रमधिकं सोऽथ गन्धेनाऽऽपूरयन्दिशः । योजनानां समन्ताद्वै मन्दमारुतवीजितः ॥ २२ वरकेतुरेष प्रथितो भद्राश्वो नाम यो द्विजाः । यत्र साक्षाद्धृषीकेशः सिद्धसंघैर्महीयते ॥ २३ तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः । प्राप्तवानमरश्रेष्ठः स तत्र सहितः पुरा ॥ २४ तेन चाऽऽलोकितं सर्वं द्वीपं द्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ॥ २५ दक्षिणस्यापि शैलस्य शिखरे देवसेविता । जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ॥ २६ महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता । नवैः सदापुष्पफलैः शाखाभिश्चोपशोभिता ॥ २७ तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ २८ तस्माद्गिरिवरप्रस्थात्पुनः प्रस्यन्दवाहिनी । नदी जम्बूनादी नाम प्रवृत्ता मधुवाहिनी ॥ २९ तत्र जम्बूनदं नाम सुवर्णं ज्वलनप्रभम् । देवालंकारमतुलं जायते पापनाशनम् ॥ ३० देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । तत्पिबन्त्यमृतप्रख्यं मधु जम्बूरसस्रवम् ॥ ३१ स केतुर्दक्षिणे द्वीपे जम्बूलोकेषु विश्रुता । यस्या नाम्ना स विख्यातो जम्बूद्वीपः सनातनः ॥ ३२ विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः । जातः शृङ्गेऽतिसुमहानश्वत्थश्चैव पादपः ॥ ३३ विलाम्बिवरमालाढ्यः सुवर्णमणिवेदिकः । महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ॥ ३४ कुम्भप्रमाणैः सुस्वादैः फलैः सर्वर्तुकैः शुभैः । सकेतुः केतुमालानां देवगन्धर्वसेवितः ॥ ३५ केतुमालेति च यथा तस्या नाम प्रकीर्तितम् । तन्निबोधत विप्रेन्द्रा निरुक्तं नाम कर्मतः ॥ ३६ क्षीरोदमथने वृत्ते दैत्यपक्षे पराजिते । महासमरसंमर्दवृक्षक्षोभाविमर्दिता ॥ ३७ सहस्राक्षेण विहिता माला तस्य सुतानता । तस्य स्कन्धे समासक्त्या ह्यश्वत्थस्य वनस्पतेः ॥ ३८ सा तथैव महागन्धा ह्यम्लाना सर्वकामिकी । इज्यते सुमहाभागा विविधैः सिद्धचारणैः ॥ ३९ तस्य केतोः सदा माला देवदत्ता विराजते । पवनेनेरिता दिव्यं वाति गन्धं मनोरमम् ॥ ४० ताभ्यां नामाङ्कितो द्वीपः पश्चिमे बहुविस्तरः । केतुमाल इति ख्यातो दिवि चेह च सर्वशः ॥ ४१ स्वपार्श्वस्योत्तरे चापि शृङ्गे जातो महाद्रुमः । न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ॥ ४२