वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 142, कुल 465 में से
संदर्भ में पढ़ें[अ० ४३-४४ श्लो० ३३-३८।१-१४] वायुपुराणम् १३३
( भुवनविन्यासः ) समुद्धराष्ट्रं स्फीतं च नानाजनपदाकुलम् । नानावृक्षवनोद्देशं नानानगरसुवेष्टितम् ॥ ३३ नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम् । बहुधान्यवनोपेतं नानानृपतिपालितम् ॥ ३४ उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ॥ ३५ तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः । महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ॥ संभाषणं दर्शनं च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ॥ ३६ दश वर्षसहस्राणि तेषामायुः प्रकीर्तितम् । धर्माधर्मविशेषश्च न तेष्वस्ति महात्मसु ॥ अहिंसा सत्यवाक्यं च प्रकृत्यैव हि वर्तते ॥ ३७ ते भक्त्या शंकरं देवं गौरीं परमवैष्णवीम् । इज्यापूजानमस्कारैस्ताभ्यां नित्यं प्रयुञ्जते ॥ ३८
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम त्रिचत्वारिंशोऽध्यायः ।
आदितः श्लोकानां समष्ट्यङ्काः---३२२३
अथ चतुश्चत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच-- निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् । शृणुध्वं केतुमालानां विस्तरेण प्रकीर्तनम् ॥ १ निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः । पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ॥ २ कुलाचलानां सपानां नदीनां च विशेषतः । तथा जनपदानां च विस्तरं श्रोतुमर्हथ ॥ ३ विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः । *अशोको वर्धमानश्च सप्तैते कुलपर्वताः ॥ ४ तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ॥ ५ तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः । नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ॥ ६ ते नामधेयैर्विश्रान्ता विविधाः प्रथिता भुवि । अध्यासिता जनपदैः कीर्तनैश्च विभूषिताः ॥ ७ [+ तेषां सनामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ८ यथेह कथिताः पौरा गोमनुष्यकपोतकाः ] । तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ॥ ९ सुमोलाः स्तावकाः कौञ्चाः कृष्णाङ्गमणिपुञ्जकाः । कूटकम्बलमौपीयाः समुद्रान्तरकास्तथा ॥ १० करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः । श्वेताङ्गाः कृष्णपादाश्च विहाः कपिलकर्णिकाः ॥ ११ अत्याकरालगोज्वाला र्हानीनां वनपातकाः । महिवाः कुमुदाभाश्च करवाटाः सहोत्कचाः ॥ १२ शुनकासा महानासा वनासगजभूमिकाः । करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकाः ॥ १३ कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः । वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ॥ १४
* इदमर्धं नास्ति ग. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।