वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 144, कुल 465 में से
संदर्भ में पढ़ें[अ०४५श्लो०११-४०] - वायुपुराणम् । - १३९
( भुवनविन्यासः )
उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिणे । कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ ११ तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ १२ सर्वकामफलास्तत्र केचिद्वृक्षा मनोरमाः । गन्धवर्णरसोपेतं प्रक्षरन्ति मधूत्तमम् ॥ १३ अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ १४ सर्वा मणिमयी भूमिः सूक्ष्माकाञ्चनवालुका । सर्वतः सुखसंस्पर्शा निष्पङ्का नीरुजा शुभा ॥ १५ देवलोकाच्च्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः ॥ १६ मिथुनानि प्रसूयन्ते स्त्रियश्चातिमनोहराः । से च तं क्षीरिणं वृक्षं पिबन्ति ह्यमृतोपमम् ॥ १७ मिथुनं जायते सद्यः समं चैव विवर्त्तते । समं शीलं च रूपं च म्रियन्ते चैव ते समम् ॥ १८ अन्योन्यमनुरक्ताश्च चक्रवाकसाधर्मिणः । अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ १९ त्रयोदश सहस्राणि शतानि दश पञ्च च । जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ २० कुरूणामपि चैतेषां शृणुध्वं विस्तरेण तु । जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि ॥ दिक्षु सर्वासु यद्यत्र कीर्त्यमानं विबोधत ॥ २१ अनेककन्दरदरीगुहानिर्झरमण्डितौ । नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ॥ २२ अनेकधातुकीलौ सर्वधातुविभूषितौ । पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ॥ २३ द्वावपेतौ सुमहन्तावाच्छ्रितौ कुलपर्वतौ । ताभ्यां कूटशतैर्नैकैस्तद्दीपमुपसेवितम् ॥ २४ चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् । ययोर्मध्येन सा याता भद्रीसीमा महानदी ॥ २५ सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः । पर्यापोदाः कुरूणां हि स्नानपानावगाहनैः ॥ २६ तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः । मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ॥ २७ दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वताः । अमृतस्वादुकल्पानि फलानि विविधानि च ॥ २८ गन्धवर्णरसाढ्यानि मूलानि च फलानि च । पञ्चयोजनमानानि महागन्धानि सर्वशः ॥ २९ नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः । उपभोगसहस्राणि भद्राणि च महान्ति च ॥ ३० गन्धवर्णसारढ्यानि स्पर्शोपेतानि सर्वशः । तमालागुरुगन्धानां चन्दनानां वनानि च ॥ ३१ भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च । वृक्षगुल्मलताढ्यानि वनानि सुखानि च ॥ ३२ षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः । पद्मोत्पलवनाढ्यानि सरांसि च सहस्रशः ॥ ३३ भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः । मनोहरमुखैश्चित्रैः पक्षिसंघैर्निकूजिताः ॥ ३४ शयनासनोपभोगाश्च अनेकगुणविस्तराः । विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ॥ ३५ आक्रीडाः सर्वतः स्फीता मणिहेमपरिष्कृताः । शिलागृहा वृक्षगृहा वरेण्याः कदलीगृहाः ॥ ३६ लतागृहसहस्राणि सुखानि समन्ततः । शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ॥ ३७ तपनीयगवाक्षाणि मणिजालान्तराणि च । सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ॥ ३८ महावृक्षसहस्राणि वरेण्यानि स सर्वशः । नानाकाराणि वासांसि सूक्ष्माणि सुखानि च ॥ ३९ मृदङ्गवेणुपणववीणाद्या बहुविस्तराः । फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ॥ ४०