भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 199, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 199
१९०श्रीमद्वैपायनमुनिप्रणीतम्-[अ० ५७ श्लो० २३-४४]
( यज्ञवर्णनम् )

चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तत्र तावच्छती संध्या संध्यांशश्च तथाविधः ॥ २३
इतरासु च संध्यासु संध्यांशेषु च वै त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ २४
त्रेता त्रीणि सहस्राणि संख्ययैव परिकीर्त्यते । तस्यास्तु त्रिशती संध्या संध्यांशश्च तथाविधः ॥ २५
द्वापरं द्वे सहस्रे तु युगमाहुर्मनीषिणः । तस्यापि द्विशती संध्या संध्यांशः संध्यया समः ॥ २६
कलिं वर्षसहस्रं तु युगमाहुर्मनीषिणः । तस्याप्येकशती संध्या संध्यांशः संध्यया समः ॥ २७
एषा द्वादशसाहस्री युगसंख्या परिकीर्तिता । कृतं त्रेता द्वापरश्च कलिश्चैव चतुष्टयम् ॥ २८
अत्र संवत्सरः सृष्टा मानुषेण प्रमाणतः । कृतस्य तावद्वक्ष्यामि वर्षाणां तत्प्रमाणतः ॥ २९
सहस्राणां शतान्यत्र चतुर्दश तु संख्यया । चत्वारिंशत्सहस्राणि कलिकालयुगस्य तु ॥ ३०
+एवं संख्यावकालश्च कालेष्विह विशेषतः । एवं चतुर्युगः कालो विना संख्यांशकैः स्मृतः ॥ ३१
÷नियुतान्येकषड्विंशन्निरंशानि तु तानि वै । चत्वारिंशत्त्रीणि चैव नियुतानि च संख्यया ॥
विंशतिश्च सहस्राणि स संख्याशश्चतुर्युगे ॥ ३२
एवं चतुर्युगाख्या तु साधिका सेकसप्ततिः । कृतत्रेतादियुक्ता सा मन्वन्तरमुच्यते ॥ ३३
मन्वन्तरस्य संख्या तु वर्षीयेण निबोधत । त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिताः ॥ ३४
सप्तषष्ठिस्तथाऽन्यानि नियुतान्यधिकानि तु । विंशतिश्च सहस्राणि कालोऽयं संधिकं विना ॥ ३५
मन्वन्तरस्य संख्यैषा संख्याविद्भिर्द्विजैः स्मृता । मन्वन्तरस्य कालोऽयं युगैः सार्धं प्रकीर्तितः ॥ ३६
चतुःसहस्रयुक्तं वै प्रथमं तत्कृतं युगम् । त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ॥ ३७
युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते । क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम् ॥
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ॥ ३८
तत्र त्रेतायुगस्याऽऽदौ मनुः सप्तर्षयश्च ते । श्रौतं स्मार्तं च धर्मं च ब्रह्मणा च प्रचोदितम् ॥ ३९
दाराग्निहोत्रसंयोगमृग्यजुःसामसंज्ञितम् । इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥ ४०
परम्परागतं धर्मं स्मार्तं चाऽऽचारलक्षणम् । वर्णाश्रमाचारयुतं प्रभुः स्वायंभुवोऽब्रवीत् ॥ ४१
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै । तेषां सुतप्रतपसाभार्येण क्रमेण तु ॥ ४२

  • सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु । अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ॥ ४३
    अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः । आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ ४४

  • इदमर्धं नास्ति क. पुस्तके । ÷ अस्मिन्नर्धस्थाने इदमर्धं संख्यातस्त्वेककालस्तु काले त्विह विशेषत इति ख. ग. घ. ङ. पुस्तकेषु ।