भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 203, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 203

१९४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ५७-५८ श्लो० ११५-१२५-१-४] (चतुर्युगाख्यानम्ः)

तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः। [ तुच्छं मूलं फलं शाकमुदपात्रं तपोधनाः॥
एवं दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः॥ ११५
अद्रोहश्चाप्यलोभश्च दमो भूतदया तपः ] । ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः॥
सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ॥ ११६
धर्ममन्त्रात्मको यज्ञस्तपश्चाज्ञानात्मकम् । यज्ञेन देवानाप्नोति वैराग्यं तपसा पुनः॥ ११७
ब्राह्मण्यं कर्मसंन्यासाद्वैराग्यात्प्रेक्षते लयम् । ज्ञानात्माप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥ ११८
एवं विवादः सुमहाञ्जयस्याऽऽसीत्प्रवर्तने । ऋषीणां देवतानां च पूर्वं स्वायंभुवेऽन्तरे ॥ ११९
ततस्ते ऋषयो दृष्ट्वाऽद्भुतं वर्त्म बलेन तु । वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागताः॥ १२०
गतेषु देवसंघेषु देवा यज्ञमवाप्नुयुः । श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रमया नृपाः॥ १२१
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः । सुमेधा विरजाश्चैव शङ्खपादज एव च॥
प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः॥ १२२
एते चान्ये च बहवो नृपाः सिद्धा दिवं गताः। राजर्षयो महासत्त्वा येषां कीर्तिः प्रतिष्ठिता ॥ १२३
(*तस्माद्विशिष्यते यज्ञात्तपः सर्वेषु कारणैः। ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा॥) १२४
तस्मान्नात्येति तद्यज्ञस्तपोमूलमिदं स्मृतम् । यज्ञप्रवर्तनं ह्येवमतः स्वायंभुवेऽन्तरे ॥
ततः प्रभृति यज्ञोऽयं युगैः सह व्यवर्तत ॥ १२५

इति श्रीमहापुराणे वायुप्रोक्ते यज्ञप्रवर्तनं नाम सप्तपञ्चाशोऽध्यायः ॥ ५७ ॥

आदितः श्लोकानां समष्ट्यङ्काः-४५५७


अथाष्टपञ्चाशोऽध्यायः ।

चतुर्युगाख्यानम् ।

सूत उवाच—
अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः। तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ १
द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे तस्मिंस्ततः सा संप्रणश्यति ॥ २
ततः प्रवर्तते तासां प्रजानां द्वापरे पुनः । लोभोऽधृतिर्वाणिग्युद्धं तत्त्वानामाविनिश्चयः॥ ३
संभेदश्चैव वर्णानां कार्याणां च विनिर्णयः। याच्ञा वधः पणो दण्डो मदो दम्भोऽक्षमाऽबलम् ॥
एषां रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ॥ ४


* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।