भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 202, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 202

[अ० ५७ श्लो० ९२-११४] वायुपुराणम् । १९३
( यज्ञवर्णनम् : )

अथाश्वमेधे वितते समाजग्मुर्महर्षयः । यजन्ते पशुभिर्मेध्यैर्हुत्वा सर्वे समागताः ॥ ९२
कर्मव्यग्रेषु ऋत्विक्षु सतते यज्ञकर्मणि । संप्रगीतेषु तेष्वेवमागमेष्वथ सुस्वरम् ॥ ९३
परिक्रान्तेषु लघुषु अध्वर्युवृषभेषु च । आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ॥ ९४
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः । आहूतेषु च देवेषु यज्ञभाक्षु महात्मसु ॥ ९५
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये । तान्यजन्ते तदा देवाः कल्पादिषु भवन्ति ये ॥ ९६
अध्वर्यवः प्रैषकाले व्युत्थिता ये महर्षयः । महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणान्स्थितान् ॥
पप्रच्छुरिन्द्रं संभूय कोऽयं यज्ञविधिस्तव ॥ ९७
अधर्मो बलवानेष हिंसाधर्मेप्सया तव । नेष्टः पशुवधस्त्वेव तव यज्ञे सुरोत्तम ॥ ९८
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया । नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥ ९९
आगमेन भवान्यज्ञं करोतु यदिहेच्छसि । विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना ॥ १००
यज्ञबीजैः सुरश्रेष्ठ येषु हिंसा न विद्यते ॥
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः । एष धर्मो महानिन्द्र स्वयंभुविहितः पुरा ॥ १०१
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः । जङ्गमैः स्थावरैर्वेति कैर्यष्टव्यमिहोच्यते ॥ १०२
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः । संधाय वाक्यमिन्द्रेण पप्रच्छुश्चेश्वरं वसुम् ॥ १०३

ऋषय ऊचुः—
महाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप । उत्तानपादे प्रब्रूहि संशयं छिन्धि न प्रभो ॥ १०४
• श्रुत्वा वाक्यं ततस्तेषामाविचार्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥
यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ॥ १०५
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा । हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ॥ १०६
यथेह संहितामन्त्रा हिंसालिङ्गा महर्षिभिः । दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः ॥
तत्प्रामाण्यान्मया चोक्तं तस्मान्मा मन्तुमर्हथ ॥ १०७
यदि प्रमाणं तान्येव मन्त्रवाक्यानि (णि) च द्विजाः । तदा प्रवर्त्ततां यज्ञो ह्यन्यथा नोऽनृतं वचः ॥
एवं हतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ॥ १०८
अधश्च भवनं दृष्ट्वा तमर्थं वाग्यतो भव । मिथ्यावादी नृपो यस्मात्प्रविवेश रसातलम् ॥ १०९
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् । ऊर्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ॥ ११०
वसुधातलावासी तु तेन वाक्येन सोऽभवत् । धर्माणां संशयच्छेत्ता राजा वसुरथाऽऽगतः ॥ १११
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयः । बहुद्वारस्य धर्मस्य सूक्ष्माद्दूरमुपागतिः ॥ ११२
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् । देवानृषीनुपादाय स्वायंभुवमृते मनुम् ॥ ११३
तस्मान्न हिंसा धर्मस्य द्वारमुक्तं महर्षिभिः । ऋषिकोटिसहस्राणि कर्मभिः स्वैर्दिवं ययुः ॥ ११४

२५