भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 205, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 205

१६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५८ श्लो० ३१-५६] (चतुर्युगाख्यानम्)

हिंसाऽसूयाऽनृतं माया वधश्चैव तपस्विनाम् । एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ॥ ३१
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते । मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा नवा ॥ ३२
कलौ प्रमारको रोगः सततं क्षुद्रयानि वै । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ ३३
न प्रमाणं स्मृतेरस्ति तिष्ये लोके युगे युगे । गर्भस्थो ध्रियते कश्चिद्यौवनस्थस्तथाऽपरः ॥
स्थाविरे मध्यकौमारे म्रियन्ते वै कलौ प्रजाः ॥ ३४
अधार्मिकास्त्वनाचारा मोहकोपाल्पतेजसः । अनृतंब्रुवाश्च सततं तिष्ये जायन्ति वै प्रजाः ॥ ३५
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ॥ ३६
हिंसा माया तथेष्र्या च क्रोधोऽसूयाऽक्षमाऽनृतम् । तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ॥
संक्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम् । नाधीयन्ते तदा वेदा न यजन्ते द्विजातयः ॥
उत्सीदन्ति नराश्चैव क्षत्रियाः सविशः क्रमात् ॥ ३८
शूद्राणामन्त्ययोनेस्तु संबन्धा ब्राह्मणैः सह । भवन्तीह कलौ तस्मिञ्शयनासनभोजनैः ॥ ३९
राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवर्तकाः । भ्रूणहत्याः प्रजास्तत्र प्रजा एवं प्रवर्तते ॥ ४०
आयुर्मेधा बलं रूपं कुलं चैव महीयते । शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ ४१
राजवृत्ते स्थिताश्चौराश्चौरवृत्ताश्च पार्थिवाः । भृत्याश्च नष्टसुहृदो युगान्ते पर्युपस्थिते ॥ ४२
अशीलिन्योऽव्रताश्चापि स्त्रियो मद्यामिषप्रियाः । मायामात्रा भविष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ४३
श्वापदप्रबलत्वं च गवां चैवाप्युपक्षयः । साधूनां विनिवृत्तिश्च विद्यात्तस्मिन्कलौ युगे ॥ ४४
तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान् । चतुराश्रमशैथिल्याद्धर्मः प्रविचालिष्यति ॥ ४५
तदा स्वल्पफला देवी भवेद्भूमिर्महीयसी । शूद्रास्तपश्चरिष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ४६
तदा ह्यैकाहिको धर्मो द्वापरे यश्च मासिकः । त्रेतायां वत्सरस्थश्च एकाहादतिरिच्यते ॥ ४७
अराक्षितारो हर्त्तारो बलिभागस्य पार्थिवाः । युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ॥ ४८
अक्षत्रियाश्च राजानो विशः शूद्रोपजीविनः । शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ॥ ४९
यतयश्च भविष्यन्ति बहवोऽस्मिन्कलौ युगे । चित्रवर्षी तदा देवो यदा स्यात्तु युगक्षयः ॥ ५०
सर्वे वाणिजकाश्चापि भविष्यन्त्यधमे युगे । (* शूद्राश्च यतिनश्चैव गूढवासास्तपस्विनः ॥
लोलुपाः परदारेषु नष्टमार्गाः कलौ युगे ।) भूयिष्ठं कूटमानैश्च पुण्यं विक्रीयते जनैः ॥ ५१
कुशीलचर्या पाषण्डैर्वृथारूपैः समावृतम् । पुरुषालपं बहुस्त्रीकं युगान्ते पर्युपस्थिते ॥ ५२
बहुयाचनको लोको भविष्यति परस्परम् । क्रव्यादनः क्रूरवाक्योऽनार्जवो नानसूयकः ॥ ५३
न कृते प्रतिकर्ता च क्षीणो लोको भविष्यति । अशङ्का चैव पतिते तद्युगान्तस्य लक्षणम् ॥ ५४
नरशून्या वसुमती शून्या चैव भविष्यति । मण्डलानि भवन्त्यत्र देशेषु नगरेषु च ॥ ५५
अल्पोदका चाल्पफला भविष्यति वसुंधरा । गोपाराश्चाप्यगोपाराः प्रभाविष्यन्त्यशासनाः ॥ ५६


* नास्त्ययं श्लोकः क. ध. ड. पुस्तकेषु ।