वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 230, कुल 465 में से
संदर्भ में पढ़ें[अ० ६२ श्लो ६८-९०] वायुपुराणम् । २२१ (पृथिवीदोहनम् )
अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः । चाक्षुषस्य सुता ह्येते षष्ठं चैव तदन्तरम् ॥ ६८ वैवस्वतेन संख्यातस्तस्य सर्गो महात्मनः । विस्तरेणाऽनुपूर्व्या च कथितं वै मया द्विजाः ॥ ६९ ऋषय ऊचुः-- चाक्षुषस्य तु दायादः संभूतः कश्यपान्वये । तस्यान्ववाये येऽप्यन्ये तन्नो ब्रूहि यथातथम् ॥ ७० सूत उवाच-- चाक्षुषस्य निसर्गं तु समासाच्छ्रोतुमर्हथ । तस्मान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान् ॥ ७१ प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा । उत्तानपादं जग्राह पुत्रमात्रेः प्रजापतिः ॥ ७२ दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत्प्रजापतेः । स्वायंभुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥ ७३ मन्वन्तरमथाऽऽसाद्य भविष्यं चाक्षुषस्य ह । षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः ॥ ७४ उत्तानपादाच्चतुरा सूनृता वित्तभाविनी । * धर्मस्य कन्या धर्मज्ञा सूनृता नाम विश्रुता ॥ ७५ उत्पन्ना चापिधर्मेण ध्रुवस्य जननी शुभा । धर्मस्य पत्न्यां लक्ष्यां वै उत्पन्ना सा शुचिस्मिता ॥ ७६ ध्रुवं च कीर्त्तिमन्तं च अयस्मन्तं वसुं तथा । उत्तानपादोऽजनयत्कन्ये द्वे च शुचिस्मिते ॥ मनस्विनी स्वरां चैव तयोः पुत्राः प्रकीर्त्तिताः ॥ ७७ ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् । तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः ॥ ७८ त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य सः । आत्मानं धारयन्योगात्प्रार्थयन्सुमहद्यशः ॥ ७९ तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् । आभूतसंप्लवं हृद्यमस्तोद्यविवर्जितम् ॥ ८० तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह । दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ ॥ अहोऽस्य तपसो वीर्यमहो श्रुतमहो हुतम् । स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् ॥ ८१ ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः ॥ ध्रुवात्पुष्टिं च भव्यं च भूमिः सा सुषुवे नृपौ । स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः ॥ ८२ सत्याभि याहते तस्य सद्यः स्त्री साऽभवत्तदा । दिव्यसंहननच्छाया दिव्याभरणभूषिता ॥ ८३ छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राचीनगर्भं वृषकं वृकं च वृकलं धृतिम् ॥ ८४ पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नृपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥ ८५ संवत्सरसहस्रान्ते सकृदाहारमाहरत् । एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः ॥ ८६ उदारधेः सुतं भद्राऽजनयत्सा दिवंजयम् । रिपुं रिपुंजयं जज्ञे वराङ्गी सा दिवंजयात् । ८७ रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् । ÷ तस्य पुत्रो मनुर्विद्वान्ब्रह्मक्षत्रप्रवर्तकः ॥ ८८ व्यजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषं मनुम् । प्रजापतेरात्मजायामरण्यस्य महात्मनः ॥ ८९
- चाक्षुषं नाम विख्यातं मनुं धर्मार्थकोविदम् । मनोरजायन्त दश लद्वलायां शुभा सुताः ॥ कन्यायां वै महाभाग वैराजस्य प्रजापतेः ॥ ९०
* इदमर्धं नास्ति क पुस्तके । ÷ इदमर्धं नास्ति क. पुस्तके । + इदमर्धं नास्ति क पुस्तके ।