वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
[अ० ६२ श्लो ६८-९०] वायुपुराणम् । २२१ (पृथिवीदोहनम् )
अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः । चाक्षुषस्य सुता ह्येते षष्ठं चैव तदन्तरम् ॥ ६८ वैवस्वतेन संख्यातस्तस्य सर्गो महात्मनः । विस्तरेणाऽनुपूर्व्या च कथितं वै मया द्विजाः ॥ ६९ ऋषय ऊचुः-- चाक्षुषस्य तु दायादः संभूतः कश्यपान्वये । तस्यान्ववाये येऽप्यन्ये तन्नो ब्रूहि यथातथम् ॥ ७० सूत उवाच-- चाक्षुषस्य निसर्गं तु समासाच्छ्रोतुमर्हथ । तस्मान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान् ॥ ७१ प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा । उत्तानपादं जग्राह पुत्रमात्रेः प्रजापतिः ॥ ७२ दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत्प्रजापतेः । स्वायंभुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥ ७३ मन्वन्तरमथाऽऽसाद्य भविष्यं चाक्षुषस्य ह । षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः ॥ ७४ उत्तानपादाच्चतुरा सूनृता वित्तभाविनी । * धर्मस्य कन्या धर्मज्ञा सूनृता नाम विश्रुता ॥ ७५ उत्पन्ना चापिधर्मेण ध्रुवस्य जननी शुभा । धर्मस्य पत्न्यां लक्ष्यां वै उत्पन्ना सा शुचिस्मिता ॥ ७६ ध्रुवं च कीर्त्तिमन्तं च अयस्मन्तं वसुं तथा । उत्तानपादोऽजनयत्कन्ये द्वे च शुचिस्मिते ॥ मनस्विनी स्वरां चैव तयोः पुत्राः प्रकीर्त्तिताः ॥ ७७ ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् । तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः ॥ ७८ त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य सः । आत्मानं धारयन्योगात्प्रार्थयन्सुमहद्यशः ॥ ७९ तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् । आभूतसंप्लवं हृद्यमस्तोद्यविवर्जितम् ॥ ८० तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह । दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ ॥ अहोऽस्य तपसो वीर्यमहो श्रुतमहो हुतम् । स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् ॥ ८१ ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः ॥ ध्रुवात्पुष्टिं च भव्यं च भूमिः सा सुषुवे नृपौ । स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः ॥ ८२ सत्याभि याहते तस्य सद्यः स्त्री साऽभवत्तदा । दिव्यसंहननच्छाया दिव्याभरणभूषिता ॥ ८३ छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राचीनगर्भं वृषकं वृकं च वृकलं धृतिम् ॥ ८४ पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नृपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥ ८५ संवत्सरसहस्रान्ते सकृदाहारमाहरत् । एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः ॥ ८६ उदारधेः सुतं भद्राऽजनयत्सा दिवंजयम् । रिपुं रिपुंजयं जज्ञे वराङ्गी सा दिवंजयात् । ८७ रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् । ÷ तस्य पुत्रो मनुर्विद्वान्ब्रह्मक्षत्रप्रवर्तकः ॥ ८८ व्यजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषं मनुम् । प्रजापतेरात्मजायामरण्यस्य महात्मनः ॥ ८९
- चाक्षुषं नाम विख्यातं मनुं धर्मार्थकोविदम् । मनोरजायन्त दश लद्वलायां शुभा सुताः ॥ कन्यायां वै महाभाग वैराजस्य प्रजापतेः ॥ ९०
* इदमर्धं नास्ति क पुस्तके । ÷ इदमर्धं नास्ति क. पुस्तके । + इदमर्धं नास्ति क पुस्तके ।
२२२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो९१-११०] (पृथिवीदोहनम्)
ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः। अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥
अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥ ९१
ऊरोरजनयत्पुत्रान्वेडाभेयी महाप्रभान् । अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥ ९२
अङ्गात्सुनीथाऽपत्यं वै वेवमेकं व्यजायत । अपचारेण वेनस्य प्रकोपः सुमहानभूत् ॥ ९३
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् । वेनस्य पाणौ मथिते संबभूव महान्नृपः ॥
* वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥ ९४
स धन्वी कवची जातस्तेजसा प्रज्वलन्निव । पृथुर्वैन्यः सर्वलोकान्ररक्ष क्षत्रपूर्वजः ॥ ९४
राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः । तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥ ९५
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता । प्रजानां वृत्तिकामान दैवैर्ऋषिगणैः सह ॥ ९६
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः । सर्वैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ॥ ९७
तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा । प्रादाद्यथेप्सितं क्षीरं तेन लोकांस्त्वधारयत् ॥ ९८
ऋषय उवाच--
विस्तरेण पृथोर्जन्म कीर्तयस्व महामते । यथा महात्मना दुग्धा पूर्वं तेन वसुंधरा ॥ ९९
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह । यथा यक्षैः सगन्धर्वैरप्सरोभिर्यथा पुरा ॥
+ यथातथा च तैर्दुग्धा विधिना येन येन च ॥ १००
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च । तथा वत्सविशेषांश्च तन्नः प्रब्रूहि पृच्छताम् ॥ १०१
यस्मिंश्च कारणे पाणिवेर्नस्य मथितः पुरा । क्रुद्धैर्महर्षिभिः पूर्वं तत्सर्वं कथयस्व नः ॥ १०२
सूत उवाच---
वर्णयिष्यामि वो विप्राः पृथोर्वैन्यस्य संभवम् । एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः ॥ १०३
नाशुचेर्नापि पापाय नाशिष्यायाहिताय च । वर्णयेयमिमं पुण्यं नाव्रताय कथंचन ॥ १०४
स्वर्ग्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् । रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ॥ १०५
यश्चेमं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य संभवम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥
गोप्ता धर्मस्य राजाऽसौ बभूवात्रिसमः प्रभुः ॥ १०६
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः । यस्य पुत्रोभवद्वेनो नात्यर्थं धार्मिकस्तथा ॥ १०७
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः । स मातामहदोषेण वेनः कालात्मजात्मजः ॥ १०८
स धर्मं पृष्ठतः कृत्वा कामाल्लोभे ह्यवर्तत । स्थापनं स्थापयामास धर्मापेतं स पार्थिवः ॥ १०९
वेदशास्त्रान्यतिक्रम्य ह्यधर्मे निरतोऽभवत् । निःस्वाध्यायवषट्काराः प्रजास्तान्निन्प्रशासति ॥
आसन्न च पपुः सोमं हुतं यज्ञेषु देवताः ॥ ११०
* एतदर्थस्थानेऽयं श्लोकः-“ जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम् । अब्रुवंस्त्वेष वै राजन्मुनयो मुदिताः प्रजा ” इति ख. ग. घ. ङ. पुस्तकेषु । + इदमर्धं नास्ति क. पुस्तके ।
[अ०६२श्लो०१११--१३५] वायुपुराणम्। २२३
( पृथिवीदोहनम् )
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ १११ अहमिज्यश्च पूज्यश्च सर्वयज्ञे द्विजातिभिः । मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥ ११२ तमतिक्रान्तमर्यादमाददानमसांप्रतम् । ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तथा ॥ ११३ वयं दीक्षां प्रवक्ष्यामः संवत्सरशतान्यहूनू । माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ॥ निधने च प्रसूतोऽसि प्रजापतिरसंशयः ॥ ११४ पालयिष्ये प्रजाश्चेति त्वया पूर्वं प्रतिश्रुतम् । तांस्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ॥ ११५ स प्रहस्य तु दुर्बुद्धिरिदं वचनकोविदः । स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ॥ ११६ वीर्यश्रुततपःसत्यैर्मया वा कः समो भुवि । महात्मानमनूनं मां यूयं जानीत तत्त्वतः ॥ ११७ प्रभवः सर्वलोकानां धर्माणां च विशेषतः । इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा ॥ सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥ ११८ यदा न शक्यते स्तम्भान्मानाच्च भृशमोहितः । अनुनेतुं नृपो वेनस्ततः क्रुद्धा महर्षयः ॥ ११९ निगृह्य तं महाबाहुं विस्फुरन्तं यथाऽनलम् । ततोऽस्य वामहस्तं ते मन्मथुर्भृशकोपिताः ॥ १२० तस्मात्प्रमथ्यमानाद्वै जज्ञे पूर्वमभिश्रुतः । ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि तथा द्विजाः ॥ १२१ स भीतः प्राञ्जलिंश्चैव स्थितवान्व्याकुलेन्द्रियः । तमार्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥ १२२ निषादवंशकर्ताऽसौ बभूवानन्तविक्रमः । धीवरान्सृजतसोऽपि वेनकल्मषसंभवान् ॥ १२३ ये चान्ये विन्ध्यनिलयास्तुम्बुरां स्तुवराः खसाः । अधर्मरुचयश्चापि संभूता वेनकल्मषात् ॥ १२४ पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् । अरणीमिव संरम्भान्ममन्थुर्जातमन्यवः ॥ १२५ पृथुस्तस्मात्समुत्पन्नः करास्फालनतेजसः । पृथोः करतलाद्वाऽपि यस्माज्जातः पृथुस्ततः ॥ दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्वलन् ॥ १२६ आद्यमाजगवं नाम धनुर्गृह्य महारवम् । शरांश्च विप्रदक्षार्थं कवचं च महाप्रभम् ॥ १२७ तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः । समुत्पन्ने महाराज्ञि वेनश्च त्रिदिवं गतः ॥ १२८ समुत्पन्नेन राजर्षिः स सत्पुत्रेण धीमता । *त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकान्तदा ॥ १२९ तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः । अभिषेकाय तोयं च सर्व एवोपतस्थिरे ॥ १३० पितामहश्च भगवानङ्गिरोभिः सहामरैः । स्थावराणि च भूतानि जङ्गमानि च सर्वशः ॥ १३१ समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् । महता राजराज्येन महाराजं महाद्युतिम् ॥ १३२ सोऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः । आदिराजो महाराजः पृथुर्वैन्यः प्रतापवान् ॥ १३३ पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ततो राजेति नामास्य अनुरागादजायत ॥ १३४ आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च विशीर्यन्ते ध्वजभङ्गश्च नाभवत् ॥ १३५
* एतदर्धस्थाने-“पुरुषव्याघ्रः पुंनाम्नो नरकात्त्रायत ततः ” इति क. पुस्तके ।
२२४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६२श्लो०१३६-१५८] (पृथिवीदोहनम्)
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु ॥ १३६
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे । सूतः सुत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ॥ १३७
*[सामगेषु तु गायत्सु सुग्भाण्डे वैश्वदेवके । सामगाने समुत्पन्नस्तस्मान्मागध उच्यते ]
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय देवेन ततः सूतो व्यजायत ॥ १३८
प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु । शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥ १३९
यच्च क्षत्रात्समभवद्ब्राह्मण्यं हीनयोनितः । सूतः पूर्वेण साधम्र्म्यात्तुल्यधर्मः प्रकीर्तितः ॥ १४०
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्व चरितं जघन्यं च चिकित्सितम् ॥ १४१
पृथोस्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः । तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ॥
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥ १४२
तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥ १४३
न चास्य कर्म वै विद्मो न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः ॥ १४४
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । दानधर्मरतो नित्यं सत्यवाक्संजितेन्द्रियः ॥
ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः ॥ १४५
यानि कर्माणि कृतवान्पृथुश्चापि महाबलः । तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः ॥ १४६
ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः । अनूपदेशं सूताय मागधान्मागधाय च ॥ १४७
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः । आशीर्वादैः प्रबोध्यन्ते सूतमागधवन्दिभिः ॥ १४८
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः । एष वो वृत्तिदो वैन्यो भवत्विति नराधिपः ॥ १४९
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः । त्वं नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा ॥
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥ १५०
धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली । अस्यार्दनभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥ १५१
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत । सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥
ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥ १५२
ज्वलद्भिरिवशिखैर्बाणैर्दीप्ततेजसमच्युतम् । महायोगं महात्मानं दुर्धर्षममरैरपि ॥ १५३
अलभन्ती तदा त्राणं वैन्यमेवान्वपद्यत । कृष्णाञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सदा ॥ १५४
उवाच वैन्यं नाथर्मं स्त्रीवधे परिपश्यसि । कथं धारयिता चापि प्रजा राजन्मया विना ॥ १५५
मयि लोकाः स्थिता राजन्मयैदं धार्यते जगत् । मष्टे च विनश्येयुः प्रजाः पार्थिवसत्तम ॥ १५६
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु चेदं वचो मम ॥ १५७
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः । हत्वाऽपि मां न शक्तस्त्वं प्रजानां पालने नृप ॥ १५८
* धनुश्चिह्नान्तर्गतग्रन्थो क. पुस्तके नास्ति ।
| [अ० ६२ श्लो० १५९-१७९] | वायुपुराणम् | २२५ |
|---|
(पृथिवीदोहनम् )
अन्नभूता भविष्यामि जहि कोपं महाद्युते । अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिशतेष्वपि ॥
मत्वैवं पृथिवीपाल धर्मं न त्यक्तुमर्हसि ॥ १५९
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ १६०
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा । एकं प्राणं बहूंश्चाऽपि कामं तस्यास्ति पातकम् ॥ १६१
यस्मिंस्तु निहते भद्रे लभन्ते बहवः सुखम् । तस्मिन्हते शुभे नास्ति पातकं चोपपातकम् ॥ १६२
सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुंधरे । यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ १६३
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । आत्मानं प्रथयित्वेह धारयिष्याम्यहं प्रजाः ॥ १६४
सा त्वं वचनमासाद्य मम धर्मभृतां वरे । संजीव्य प्रजा नित्यं शक्ता ह्यसि न संशयः ॥ १६५
दुहितृत्वं च मे गच्छ एवमेतं महद्वरम् । नियच्छे त्वां तु धर्मार्थे प्रयुक्तं घोरदर्शने ॥ १६६
प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही । एवमेतदहं राजन्विधास्यामि न संशयः ॥ १६७
वत्सं तु मम तं यच्छ क्षरेयं येन वत्सला । समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ॥
यथा विष्यन्दमानं च क्षीरं सर्वत्र भावयेत् ॥ १६८
तत उत्सारयामास शिलाजालानि सर्वशः । धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्धिताः ॥ १६९
मन्वन्तरेष्वतीतेषु विषमाऽऽसीद्वसुंधरा । स्वभावेनाभवंस्तस्याः समानि विषमाणि च ॥ १७०
न हि पूर्वविसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वाऽपि विद्यते ॥ १७१
न सस्यानि न गोरक्षा न कृषिर्न मणिक्पथः । चाक्षुषस्यान्तरे पूर्वमेतदासीत्पुरा किल ॥ १७२
वैवस्वतेऽन्तरे तस्मिन्सर्वस्यैतस्य संभवः ॥
समतवं यत्र यत्राऽऽसीद्रूपस्तस्मिंस्तदेव हि । तत्र तत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥ १७३
आहारत्फलमूलं तु प्रजानामभवत्किल । * कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥
वैण्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥ १७४
- कृच्छ्रेण महता साऽपि प्रनष्टास्वोषधीषु वै । स कल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः ॥
पृथुर्दुदोह सस्यानि स्वतले पृथिवीं ततः ॥ १७५
सस्यानि तेन दुग्धानि(वै) वैन्येन तु वसुंधरा । मनुं च चाक्षुषं कृत्वा वत्सं पात्रे च भूये ॥
तेनान्नेन तदा ता वै वर्तयन्ते प्रजाः सदा ॥ १७६
ऋषिभिः स्तूयते चाऽपि पुनर्दुग्धा वसुंधरा । वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः ॥ १७७
पात्रमासीत्तु च्छन्दांसि गायत्र्यादीनि सर्वशः । क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ॥ १७८
पुनः स्तुत्वा देवगणैः पुरंदरपुरोगमैः । सौवर्णं पात्रमादायं अमृतं दुदुहे तदा ॥
तेनैव वर्तयन्ते च देवा इन्द्रपुरोगमाः ॥ १७९
- इदमर्धं नास्ति क पुस्तके । * इदमर्धं नास्ति ख, ग, घ, ङ, पुस्तकेषु ।
२९
२२६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०६२-६३श्लो०१८०-१९३।१-४] ( पृथुवंशानुकीर्तनम् )
नागैश्च स्तूयते दुग्धा विषं क्षीरं तदा मही । तेषां च वासुकिर्दोग्धा काद्रवेया महौजसः ॥ १८०
नागानां वै द्विजश्रेष्ठ सर्पाणां चैव सर्वशः । तेनैव वर्तयन्त्युग्रा महाकाया महोल्बणाः ॥
तदाहारास्तदाचारास्तद्वीर्यास्तु तदाश्रयाः ॥ १८१
आमपात्रे पुनर्दुग्धा त्वन्तर्धानामियं मही । वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ॥ १८२
दोग्धा च जतुनाभस्तु पिता मणिवरस्य सः । यक्षात्मजो महातेजा वशी स सुमहाबलः ॥
तेन ते वर्तयन्ताति परमर्षिरुवाच ह ॥ १८३
राक्षसैश्च पिशाचैश्च पुरुर्दुग्धा वसुंधरा । ब्रह्मोपेतस्तु दोग्धा वै तेषामासीत्कुबेरकः ॥ १८४
रक्षः सुमाली बलवाञ्क्षीरं रुधिरमेव च । कपालपात्रे निर्दुग्धा अन्तर्धानं च राक्षसैः ॥
तेन क्षीरेण रक्षांसि वर्तयन्तीह सर्वशः ॥ १८५
[* रजतं पात्रमादाय पितृभिः स्तूयते मही । स्वधामृतं च पितॄणामासीद्दोग्धाऽर्यमा तथा ॥
यमो वत्सोऽभवत्तेषां मासो(सं) तृप्तिस्तु सर्वदा ॥ ] १८६
पद्मपात्रे पुनर्दुग्धा गन्धर्वैरप्सरोगणैः । वत्सं चित्ररथं कृत्वा शुचीगन्धांस्तथैव ॥ १८७
तेषां विधावसुस्तवासीद्दोग्धा पुत्रो मुनेः शुचिः । गन्धर्वराजाऽतिबलो महात्मा सूर्यसंन्निभः ॥ १८८
शैलेश्च सयते दुग्धा पुनर्देवी वसुंधरा । तत्रौषधीर्मूर्तिमती रत्नानि विविधानि च ॥ १८९
वत्सस्तु हिमवांस्तेषां मेरुर्दोग्धा महागिरिः । पात्रं तु शैलमेवाऽऽसीत्तेन शैलः प्रतिष्ठितः ॥ १९०
सूयते वृक्षवरिष्ठाद्भिः पुनर्दुग्धा वसुंधरा । पलाशपात्रमादाय दुग्धं छिन्नमरोहणम् ॥ १९१
कामधुक्पुष्पितः शैलः पक्षो वत्सो यशस्विनी । सर्वकामदुधा दोग्धी पृथिवी भूतभाविनी ॥ १९२
सैषा धात्री विधात्रा च बारणी च वसुंधरा । दुग्धा हितार्थं लोकानां पृथुना इति वः श्रुतम् ॥
चराचरस्य लोकस्य प्रतिष्ठा योनिरैव च ॥ १९३
इति महापुराणे वायुप्रोक्ते पृथिवीदोहनं नाम द्विषष्टितमोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः—५२७९
अथ त्रिषष्टितमोऽध्यायः ।
पृथुवंशानुकीर्तनम् ।
सूत उवाच--
आसीदियं समुद्वान्ता मेदिनीति परिश्रुता । वसु धारयते यस्माद्वसुधा तेन चोच्यते ॥ १
मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता । ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥ २
इयं चाऽसीत्समुद्वान्ता मेदिनीति परिश्रुता । दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥ ३
प्रथिता प्रविभक्ता च शोभिता च वसुंधरा । सस्याकरवती राज्ञा पत्तनाकरमालिनी ॥
चातुर्वर्ण्यसमाकीर्णा रक्षिता तेन धीमता ॥ ४
* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. घ. ड. पुस्तकेषु नास्ति ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ६
[अ० ६३ श्लो० ५-२९] | वायुपुराणम् । | २२७ ( पृथुवंशानुकीर्तनम् ) एवंप्रभावो राजाऽऽसीद्वैन्यः स नृपसत्तमः । नमस्यश्चैव पूज्यश्च भूतग्रामेण सर्वशः ॥ ५ ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ॥ ६ पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः । आदिराजा नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ॥ ७ योधैरपि च सङ्ग्रामे प्रार्थयानैर्जयं युधि । आदिकर्ता नराणां वै नमस्यः पृथुरेव हि ॥ ८ यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् । स घोररूपे सङ्ग्रामे क्षेमी तरति कीर्तिमान् ॥ ९ वैश्यैरपि च राजर्षिर्वैश्यवृत्तिसमाश्रितैः । पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः ॥ १० एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च । पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ॥ ११ ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना । वायुं कृत्वा तदा वत्सं बीजानि वसुधातले ॥ १२ ततः स्वायम्भुवे पूर्वं तदा मन्वन्तरे पुनः । वत्सं स्वायम्भुवं कृत्वा दुग्धाऽऽग्नीध्रेण वै मही ॥ १३ मनौ स्वारोचिषे दुग्धा मही चैत्रेण धीमता । [* मनुं स्वारोचिषं कृत्वा वत्सं सस्यानि वै पुरा ॥ १४ उत्तमेऽनुत्तमेनापि दुग्धा देवभुजेन तु । मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ॥ ] १५ पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः । दुग्धेयं तामसं वत्सं कृत्वा तु बलबन्धुना ॥ १६ चारिष्णवस्य देवस्य संप्राप्ते चान्तरे मनोः । दुग्धा मही पुराणेन वत्सं चारिष्णवं प्रति ॥ १७ चाक्षुषेऽपि च संप्राप्ते तदा मन्वन्तरे पुनः । दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ॥ १८ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः । वैन्येनेयं मही दुग्धा यथा ते कीर्तितं मया ॥ १९ एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै । देवादिभिर्मनुष्यैश्च तथा भूतादिभिश्च यः ॥ २० ( +एवं सर्वेषु विज्ञेया ह्यतीतानागतेष्विह । देवा मन्वन्तरेष्वस्य पृथोस्तु शृणुत प्रजाः ॥ २१ पृथॊस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्धिपालिनौ । शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत ॥ २२ हविर्धानात्षडाग्नेयी धिषणाऽजनयत्सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ ॥ २३ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ ॥ प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्हिसौ ॥ २४ समुद्रतनयायां तु कृतदारः स वै प्रभुः महतस्तमसः पारे सवर्णायां प्रजापतिः ॥ सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः ) ॥ २५ सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः । अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ॥ दश वर्षसहस्राणि समुद्रसलिलेशयाः ॥ २६ तपश्चरत्सु पृथिवी प्रचेतःसु महीरुहाः । अरक्ष्यमाणाः खं ववृधुर्भुवाथ प्रजाक्षयः ॥ २७ प्रत्याहृते तदा तस्मिंश्चाक्षुषस्यान्तरे मनोः । नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ॥ दश वर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥ २८ तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः । मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ॥ २९
* धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके नास्ति ।
२२८ श्रीमद्द्वैपायनमुनिप्रणीतम्– [अ०६३ श्लो० ३०-५४] ( पृथुवंशानुकीर्तनम् )
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः ॥ ३० द्रुमक्षयमथो बुद्ध्वा किंचिच्छेषेषु शाखिषु । उपगम्याब्रवीदेतान्प्रजा सोमः प्रचेतसः ॥ ३१ दृष्ट्वा प्रयोजनं सर्वं लोकसंतानकारणात् । कोपं त्यजत राजानः सर्वं पाचनिबर्हिषः ॥ ३२ वृक्षाः क्षित्यां जनिष्यन्ति शाम्यतामग्निमारुतौ । रत्नभूता तु कन्येयं वृक्षाणां वरवर्णिनी ॥ ३३ भविष्यं जानता ह्येषा मया गोभिर्विवाधिता । मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता ॥ भार्या भवतु वो ह्येषा सोमगर्भविवाधिता ॥ ३४ युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ ३५ स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । अग्निनाऽग्निसमो भूयः प्रजाः संवर्धयिष्यसि ॥ ३६ ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ ३७ गारिषायां ततस्ते वै मनसा गर्भमादधुः । दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥ ३८ दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् । असृजन्मनसा चाऽऽदौ प्रजा दक्षो न मैथुनात् ॥ ३९ अचरांश्र्व चरांश्र्वैव द्विपदोऽथ चतुष्पदः । विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ॥ ४० ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ ४१ एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने । द्वे चैव बाहुपुत्राय द्वे चैवाङ्गिरसे तथा ॥ कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं निबोधत ॥ ४२ अन्तरं चाक्षुषस्यात्र मनोः षष्ठं तु हीयते । मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ॥ ४३ तासु देवाः खगा गावो नागा दितिजदानवाः । गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः ॥ ४४
ऋषय ऊचुः– ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसंभवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥ ४५ देवानां दानवानां च देवर्षीणां च ते शुभः । संभवः कथितः पूर्वं दक्षस्य च महात्मनः ॥ ४६ प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया । कथं प्राचेतसत्वं च पुनर्लेभे महातपाः ॥ ४७ एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । स दौहित्रश्च सोमस्य कथं श्वशुरतां गतः ॥ ४८
सूत उवाच– उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः । ऋषयोऽत्र न मुह्यन्ति विद्यावन्तश्च ये नराः ॥ ४९ युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः । पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ ५० ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीद्द्बिजोत्तमाः । तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥ ५१ इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम् । प्रजानामायुरुत्तीर्णः स्वर्गलोके महीयते ॥ ५२ एष सर्गः समाख्यातश्चाक्षुषस्य समासतः । इत्येते षड्विसर्गा हि क्रान्ता मन्वन्तरात्मकाः ॥ स्वायंभुवाद्याः संक्षेपाच्चाक्षुषान्ता यथाक्रमम् ॥ ५३ एते सर्गा प्रजासृजं प्रोक्ता वै द्विजसत्तमाः । वैवस्वतविसर्गेण तेषां ज्ञेयस्तु विस्तरः ॥ ५४
[अ० ६३-६४ श्लो० ५५-५६-१-१७] वायुपुराणम्। २३९ (वैवस्वतसर्गवर्णनम्) अनन्ता नातिरिक्ताश्च सर्वे सर्गा विवस्वतः। आरोग्यायुः प्रमाणेन धर्मतः कामतोऽर्थतः ॥ एतानेव गुणानेति यः पठत्यनसूयकः ॥ ५५ वैवस्वतस्य वक्ष्यामि सांप्रतस्य महात्मनः। समासाद्व्यासतः सर्गे ब्रुवतो मे निबोधत ॥ ५६ इति महापुराणे वायुप्रोक्ते पृथुवंशानुकर्त्तनं नाम त्रिषष्टितमोऽध्यायः॥ ६३ ॥ आदितः श्लोकानां समष्टयङ्काः--५३३५
अथ चतुःषष्टितमोऽध्यायः। वैवस्वतसर्गवर्णनम्।
सूत उवाच-- सप्तमे त्वथ पर्याये मनोर्वैवस्वतस्य ह। मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः॥ १ आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः। भृगवोऽङ्गिरसश्चैव सृष्टौ देवगणाः स्मृताः॥ २ आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः। साध्याश्च वसवो विश्वे धर्मपुत्रास्त्रयो गणाः॥ ३ भृगोस्तु भार्गवो देवो ह्यङ्गिरोऽङ्गिरसः सुतः। वैवस्वतेऽन्तरे ह्यस्मिन्नित्यं ते छन्दजाः सुराः॥ *एतेऽपि च गमिष्यन्ति महतः कालपर्ययात्॥ ४ एष मार्गस्तु मारीचो विज्ञेयः सांप्रतः शुभः। तेजस्वी सांप्रतस्तेषामिन्द्रो नाम्ना महाबलः॥ ५ अतीतानागता ये च वर्तन्ते ये च सांप्रतम्। सर्वे मन्वन्तरेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः॥ ६ भूतभव्यभवन्नाथाः सहस्राक्षाः पुरंदराः। मघवन्तश्च ते सर्वे शृङ्गिणो वज्रपाणयः॥ सर्वैः ऋतुशतेनेष्टं पृथक्शतगुणेन तु॥ ७ त्रैलोक्ये यानि सत्त्वानि गतिमन्त्यबलानि च। अभिभूयावतिष्ठन्ते धर्माद्यैः कारणैरपि॥ ८ तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः। भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः॥ एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मे निबोधत॥ ९ भूतं भव्यं भविष्यं तत्स्मृतं लोकत्रयं द्विजैः। भूर्लोकोऽयं स्मृतो भूमिरन्तरिक्षं भुवं स्मृतम्॥ भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम्॥ १० ध्यायता पुत्रकामेण ब्रह्मणाऽग्रे विभावितम्। भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूतदा॥ ११ भूसत्तायां स्मृतो धातुस्तथाऽसौ लोकदर्शने। भूतत्वाददर्शनत्वाच्च भूर्लोकोऽयमभूत्ततः॥ अतोऽयं प्रथमो लोको भूतत्वाद्व्र्द्विजैः स्मृतः॥ १२ भूतेऽस्मिन्भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः। भवत्युत्पद्यमानेन कालशब्दोऽयमुच्यते॥ १३ भवनात्तु भुवर्लोको निरुक्तैर्निरुच्यते। अन्तरिक्षं भुवस्तस्माद्वितीयो लोक उच्यते॥ १४ उत्पन्ने तु भुवर्लोके तृतीयं ब्रह्मणा पुनः। भव्येति व्याहृतं यस्माद्भव्यो लोकस्तदाऽभवत्॥ १५ अनागते भव्य इति शब्द एष विभाव्यते। तस्माद्भव्यो ह्यसौ लोको नामतस्तु दिवं स्मृतम्॥ १६ स्वरित्युक्तं तृतीयोऽन्यो भाव्यो लोकस्तदाऽभवत्। भाव्य इत्येष धातुर्वै भाव्ये काले विभाव्यते॥ १७
* इदमर्धं नास्ति क. पुस्तके।
२३० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६४-६५ श्लो० १८-३१-१-५] ( प्रजापतिवंशानुकीर्तनम् )
भूरितियं स्मृता भूमिरन्तरिक्षं भवं स्मृतम् । दिव्यं स्मृतं तथा भाव्यं त्रैलोक्यस्येष संग्रहः ॥ १८ त्रैलोक्ययुक्वैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन् । नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ॥ १९ यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तदा । लोकत्रयस्य नाथास्ते तस्मादिन्द्रा द्विजैः स्मृताः ॥ २० प्रधानभूता देवेन्द्रा गुणभूतास्तथैव च । मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ॥ २१ यक्षगन्धर्वरक्षांसि पिशाचोरगदानवाः । महिमानः स्मृता ह्येते देवेन्द्राणां तु सर्वशः ॥ २२ देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते । रक्षन्तीमाः प्रजाः सर्वा धर्मेणेह सुरोत्तमाः ॥ २३ इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः । सप्तर्षीन्संप्रवक्ष्यामि सांप्रतं ये दिवि स्थिताः ॥ २४ गाधिजः कौशिको धीमान्विश्वामित्रो महातपः । भार्गवो जमदग्निश्च ऊरुपुत्रः प्रतापवान् ॥ २५ बृहस्पतिसुतश्चापि भारद्वाजो महातपाः । औतथ्यो गौतमो विद्वाञ्शरद्वान्नाम धार्मिकः ॥ २६ स्वायंभुवोऽत्रिर्भगवान्ब्रह्मकोशस्तु पञ्चमः । षष्ठो वशिष्ठपुत्रस्तु वसुमांल्लोकविश्रुतः ॥ २७ वत्सारः काश्यपश्चैव सप्तैते साधुसंमताः । एते सप्तर्षयः सिद्धा वर्तन्ते सांप्रतेऽन्तरे ॥ २८ इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाम उद्दिष्ट एव च ॥ २९ करुषश्च पृषध्रश्च वसुमाञ्जवमः स्मृतः । मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः ॥ कीर्तिता वै मया ह्येते सप्तमं चैतदन्तरम् ॥ ३० इत्येष वै मया पादो द्वितीयः कथिता द्विजाः । विस्तरेणाऽनुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ ३१ इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वतसर्गवर्णनं नाम चतुःषष्ठितमोऽध्यायः ॥ ६४ ॥ आदितः श्लोकानां समष्ट्यङ्काः—५३६६
इत्यनुषङ्गपादो द्वितीयः ।
अथोपोद्घातपादस्तृतीयः ।
अथ पञ्चषष्ठितमोऽध्याय । प्रजापतिवंशानुकीर्तनम् ।
ऋषय ऊचुः-- श्रुत्वा पादं द्वितीयं तु क्रान्तं सूतेन धीमता । अतस्तृतीयं पप्रच्छ पादं वै शांशपायनः ॥ १ पादः क्रान्तोद्वितीयोऽयमनुषङ्गेण यस्त्वया । तृतीयं विस्तरात्पादं सोपोद्घातं प्रकीर्तय ॥ एवमुक्तोऽब्रवीत्सूतः प्रहृष्टेनान्तरात्मना ॥
सूत उवाच-- कीर्तयिष्ये तृतीयं च सोपोद्घातं सविस्तरम् । पादं समुदयाद्विप्रा गदतो मे निबोधत ॥ ३ मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मनः । विस्तरेणाऽनुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ ४ चतुर्युगैकसप्तत्या संख्यातः पूर्वमेव तु । सह देवगणैश्चैव ऋषिभिर्दानवैः सह ॥ ५
[ अ० ६५ - श्लो० ६-३० ] वायुपुराणम् । २३१
( प्रजापतिवंशानुकीर्तनम् ) पितृगन्धर्वयक्षैश्च रक्षोभूतगणैस्तथा । मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ॥ ६ मन्वादिकं भविष्यन्तमाराख्यानैर्बहुविस्तरम् । वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ॥ ७ आद्ये मन्वन्तरेऽतीताः सर्गाः प्रावर्त्तकाश्र्व ये । स्वायंभुवेऽन्तरे पूर्णे समाप्तऽसन्ये महर्षयः ॥ ८ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ॥ ९ दक्षस्य च ऋषीणां च भृग्वादीनां महौजसाम् । शापान्महेश्वरस्यासीत्प्रादुर्भावो महात्मनाम् ॥ १० भूयः सप्तर्षयस्ते च उत्पन्नाः सप्त मानसाः । पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयंभुवा ॥ ११ प्रजासंतानकृद्धिस्तैरुत्पद्यार्द्धिमहात्मभिः । पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् ॥ १२ तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम् । समासव्यासयोगाभ्यां यथावदनुपूर्वशः ॥ १३ येषामन्वयसंभूतैर्लोकोऽयं सचराचरः । पुनः स पूरितः सर्गो ग्रहनक्षत्रमण्डितः ॥ एतच्छ्रुत्वा वचस्तस्य मुनीनां संशयोऽभवत् । ततस्तं संशयाविष्टाः सूतं संशयनिश्चये ॥ सत्कृत्य परिपप्रच्छुर्मुनयः संशितव्रताः ॥
ऋषय ऊचुः-- कथं सप्तर्षयः पूर्वमुत्पन्नाः सप्त मानसाः । पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम ॥ १५ ततोऽब्रवीन्महातेजाः सूतः पौराणिकः शुभम् ॥
सूत उवाचः-- कथं सप्तर्षयः सिद्धा ये वै स्वायंभुवेऽन्तरे । मन्वन्तरं समासाद्य पुनर्वैवस्वतं किल ॥ १६ भवाभिशापात्संविद्धा ह्यप्राप्तास्ते तदा तपः । उपपन्ना जने लोके सकृदागामिनस्तु ते ॥ १७ ऊचुः सर्वे ततोऽन्योन्यं जनलोकं महर्षयः । ऊचुरेव महाभागा वारुणे वितते क्रतौ ॥ १८ सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः । पितामहात्मजाः सर्वे ततः श्रेयो भविष्यति ॥ १९ स्वायंभुवेऽन्तरे शप्ताः सत्यार्थं ते भवेन तु । जज्ञिरे वै पुनस्ते ह जनलोकाद्दिवं गताः ॥ २० देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् । ब्रह्मणो जुहतः शुक्रमग्नौ पूर्वं प्रजेप्सया ॥ ऋषयो जज्ञिरे पूर्वं द्वितीयमिति नः श्रुतम् ॥ २१ भृगुरङ्गिरा मरीचिः पुलस्त्यः पुलहः क्रतुः । अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः ॥ २२ तथाऽस्य वितते यज्ञे देवाः सर्वे समागताः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्त्तिमान् ॥ २३ मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः । ऋग्वेदश्चाभवत्तत्र पदक्रमविभूषितः ॥ २४ यजुर्वेदश्च वृत्ताढ्य ओंकारवदनोज्ज्वलः । स्थितो यज्ञार्थसंपृक्तसूक्तब्राह्मणमन्त्रवान् ॥ २५ सामवेदश्च वृत्ताढ्यः सर्वगेयपुरःसरः । विधावस्त्रादिभिः सार्धं गन्धर्वैः संभृतोऽभवत् ॥ २६ ब्रह्मवेदस्तथा घोरैः कृत्याविधिभिरन्वितः । प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ॥ २७ लक्षणानि स्वरा स्तोमा निरुक्तस्वरभक्तयः । आश्रयस्तं वषट्कारो निग्रहमग्रहावपि ॥ २८ दीप्ता दीप्तिरिला देवी दिशः प्रदिशगीश्वरा । देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥ २९ आयुः सर्वत एवेते देवस्य यजतो मखे । मूर्त्तिमन्तः स्वरूपाख्या वरुणस्य वपुर्भृतः ॥ ३०
२३२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६५श्लो०३१-५५] ( प्रजापतिवंशानुकीर्तनम् )
स्वयंभुवस्तु ता दृष्ट्वा रेत: समपतद्भुवि । ब्रह्मर्षेर्भावभूतस्य विधानाच्च न संशय: ॥ ३१ कृत्वा जुहाव स्रुग्भ्यां च स्रुवेण परिगृह्य च । आज्यवज्जुहु(ह)वांचक्रे मन्त्रवच्च पितामहः ॥ ३२ ततः स जनयामास भूतग्रामं प्रजापतिः । तस्यार्वाकृतेजसस्तस्य यज्ञे लोकेषु तैजसम् ॥ तमसा भावव्याप्यत्वं तथा सत्त्वं तथा रजः ॥ ३३ सगुणात्तेजसो नित्यं आकाशे तमसि स्थितम् । तमस्सतेजसत्वाच्च सर्वभूतानि जज्ञिरे ॥ ३४ यदा तस्मिन्नजायन्त काले पुत्रास्तु कर्मजाः । आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ॥ ३५ शुक्रे हुतेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः । ज्वलन्तो वपुषा युक्ताः सप्त वै परमैर्गुणैः ॥ ३६ हुते चाग्नौ सकृच्छुक्रे ज्वालाया निःसृतः कविः । हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिःसृतम् भृगुस्त्वमिति होवाच यस्मात्तस्मात्स वै भृगुः ॥ ३७ महादेवस्तथोद्भूतं दृष्ट्वा ब्रह्माणमब्रवीत् । ममैष पुत्रकामस्य दीक्षितस्य त्वयं प्रभोः ॥ विजज्ञेऽथ भृगुर्देवो मम पुत्रो भवत्वयम् ॥ ३८ तथेति समनुज्ञातो महादेवः स्वयंभुवा । पुत्रत्वे कल्पयामास महादेवस्तथा भृगुम् ॥ वारुणा भृगवस्तस्मादपत्यं स च प्रभुः ॥ ३९ द्वितीयं तु ततः शुक्रमङ्गारेष्वपतत्प्रभुः । अङ्गारेष्वङ्गिरोऽङ्गानि संहिंतानि ततोऽङ्गिराः ॥ ४० संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत् । रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति ॥ ४१ एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः । तस्मादङ्गिरसश्चापि आग्नेया इति नः श्रुतम् ॥ ४२ षट्कृत्वस्तु पुनः शुक्रे ब्रह्मणा लोककारिणा । हुते संभवंस्तत्र षड्ब्रह्माण इति श्रुतिः ॥ ४३ मरीचिः प्रथमस्तत्र मरीचिभ्यः समुत्थितः । क्रतौ तस्मिन्सुतो जज्ञे यतस्तस्मात्स वै क्रतुः ॥ ४४ अहं तृतीयं इत्यर्थस्तस्मादत्रिः स कीर्त्यते । केशैश्च निशितैर्भूतः पुलस्त्यस्तेन स स्मृतः ॥ ४५ केशालम्बैः समुद्भूतस्तस्मात्तु पुलहः स्मृतः । वसुमध्यातसमुत्पन्नो वसुमान्वसुधाश्रयः ॥ ४६ वासिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः । इत्येते ब्रह्मणः पुत्राः मानसाः षण्महर्षयः ॥ ४७ लोकस्य संस्थानकरास्तैरिमा वर्धिताः प्रजाः । प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणः सुताः ॥ ४८ अपरे पितरो नाम एतैरेव महर्षिभिः । उत्पादिता ऋषिगणाः सप्त लोकेषु विश्रुताः ॥ ४९ मारीचा भार्गवाश्चैव तथैवाङ्गिरसोऽपरे । पौलस्त्याः पौलहाश्चैव वाशिष्ठाश्चैव विश्रुताः ॥ अत्रियाश्च गणाः प्रोक्ताः पितॄणां लोकविश्रुताः ॥ ५० एते समासतस्तात पुरैव तु गुणाश्रयः । अमूर्तांश्र प्रकाशाश्र ज्योतिष्मन्तश्च विश्रुताः ॥ ५१ तेषां राजा यमो देवो यमैर्विहृतकल्मषः । अपरे प्रजानां पतयस्ताञ्शृणुध्वमतन्द्रिताः ॥ ५२ कर्दमः कश्यपः शेषो विक्रान्तः सुश्रवास्तथा । बहुपुत्रः कुमारश्च विवस्वाञ्छुचिश्रवाः ॥ ५३ प्रचेतसोऽरिष्टनेमिर्बहुलश्च प्रजापतिः । इत्येवमादयोऽन्येऽपि बहवश्च प्रजेश्वराः ॥ ५४ कुशोच्चया वालखिल्याः संभूताः परमर्षयः । मनोजवाः सर्वगताः सार्वभौमाश्च तेऽभवन् ॥ ५५
[अ०६५श्लो०५६-८१] वायुपुराणम् । २३३
( प्रजापतिवंशानुकीर्तनम् ) जाता भस्मव्यपोहिन्यां ब्रह्मर्षिगणसंमताः । वैखानसा मुनिगणास्तपःश्रुतपरायणाः ॥ ५६ श्रोतोभ्यस्तस्य चोत्पन्नावश्विनौ रूपसंमितौ विदुर्जन्माक्षरजसो विमला नेत्रसंभवाः ॥ ५७ ज्येष्ठाः प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे । ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवः ॥ ५८ दारुणा हि रुते मासा निर्यासाः पक्षसंधयः । वत्सरा ये त्वहोरात्राः पित्रं (त्र्यं) ज्योतिश्च दारुणम् ॥ ५९ रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम् । तन्मैत्रमिति विज्ञेयं धूम्रश्च पशवः स्मृताः ॥ ६० येऽर्चिषस्तस्य ते रुद्रास्तथाऽऽदित्याः समुद्भवाः । अङ्गारेभ्यः समुत्पन्ना ज्योतिषो दिव्यमानुषाः ॥ ६१ आदिमानस्य लोकस्य ब्रह्मा ब्रह्मसमुद्भवः । सर्वकामदमित्याहुस्तत्र कन्यामुदाहरन् ॥ ६२ ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसीदति । इमे वै जनयिष्यन्ति प्रजाः सर्वाः प्रजेश्वराः ॥ ६३ सर्वे प्रजानां पतयः सर्वे चाप तपस्विनः । तत्प्रसादादिमाँल्लोकान्धारयेयुरिमाः क्रियाः ॥ ६४ द्वंद्वं संवर्धयामास तव तेजो विवर्धनम् । देवेषु वेदविद्वांसः सर्वे राजर्षयस्तथा ॥ ६५ वेदमन्त्रपराः सर्वे प्रजापतिगुणोद्भवाः । अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि ॥ ६६ सर्वे हि वयमेते च तवैव प्रसवः प्रभो । ब्रह्म च ब्राह्मणाश्चैव लोकाश्चैव चराचराः ॥ ६७ मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह । अपत्यानीह संचिन्त्य तेऽपत्यं कामयामहे ॥ ६८ तस्मिन्यज्ञे महाभागा देवाश्च ऋषिभिः सह । एतद्वंशसमुद्भूताः स्थानकालाभिमानिनः ॥ ६९ न च तेनैव रूपेण स्थापयेयुरिमाः प्रजाः । युगादिनिधनाश्चैव स्थापयेयुरिमाः प्रजाः ॥ ७० ततोऽब्रवल्लोकगुरुः परमित्यविचारयन् । एवं देवा विनिश्चित्य मया सृष्टा न संशयः ॥ भवतां वंशसंभूताः पुनरेते महर्षयः ॥ ७१ तेषां भृगोः कीर्तयिष्ये वंशं पूर्वं महात्मनः । विस्तरेणाऽनुपूर्व्या च प्रथमस्य प्रजापतेः ॥ ७२ भार्ये भृगोरपतिमे उत्तमेऽभिजने शुभे । हिरण्यकशिपोः कन्या दिव्या नाम परिश्रुता ॥ पुलोम्नश्चापि पौलोमी दुहिता वरवर्णिनी ॥ ७३ भृगोस्त्वजनयद्दिव्या काव्यं वेदविदां वरम् । देवासुराणामाचार्यं शुक्रं कविसुतं ग्रहम् ॥ ७४ स शुक्रश्चोशना ख्यातः स्मृतः काव्योऽपि नामतः । पितॄणां मानसी कन्या सोमपानां यशस्विनी शुक्रस्य भार्या गोनाम विजज्ञे चतुरः सुतान् ॥ ७५ ब्राह्मेण तेजसा युक्तः स जातो ब्रह्मवित्तमः । तस्यामेव तु चत्वारः पुत्राः शुक्रस्य जज्ञिरे ॥ ७६ त्वष्टा वरूत्री द्वावेतौ षण्डामर्को च तावुभौ । ते तदाऽऽदित्यसंकाशा ब्रह्मकल्पाः प्रभावतः ॥ ७७ रञ्जनः पृथुरश्मिश्च विद्वान्यस्य बृहद्गिराः । वरूत्रिणः सुता ह्येते बलिष्ठाः सुरयाजकाः ॥ ७८ इज्याधर्मविनाशार्थं मनुमेत्याभ्ययोजयन् । निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ॥ ७९ एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् । श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमत् ॥ ८० तिरोभूतेषु तेष्विन्द्रो धर्मपत्नीं च चेतनाम् । ग्रहेण मोचयित्वा तु ततः सोऽनुससार ताम् ॥ ८१
३०
२३४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६५श्लो०८२-१००] ( प्रजापतिवंशानुकीर्तनम् )
तत इन्द्राविनाशाय यतमानान्मतींस्तु तान् । तत्राऽऽगतान्पुनर्दृष्ट्वा दुष्टानिन्द्रः महन्य(ण्य)तु ॥ सुष्वाप देवदेवस्य वेद्यां वै दक्षिणे ततः ॥ ८२ तेषां तु भक्ष्यमाणानां तत्र शालावृकैः सह । शीर्षाणि न्यपतंस्तानि खर्जूराण्युभवंस्ततः ॥ ८३ एवं वरूत्रिणः पुत्रा इन्द्रेण निहताः पुरा । यजन्यां देवयानी च शुक्रस्य दुहिताऽभवत् ॥ ८४ त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान् । * यशोधरायामुत्पन्नो वैरोचन्यां महायशाः ॥ विश्वरूपानुजश्चापि विश्वकर्मा यमः स्मृतः ॥ ८५ भृगोस्तु भृगवो देवा जज्ञिरे द्वादशाऽऽत्मजाः । देव्यां तान्सुषुवे सर्वान्काव्यश्चैवाऽऽत्मजान्प्रभुः ॥ ८६ भुवनो भावनश्चैव अन्यश्चान्यायतस्तथा । क्रतुः श्रवाश्च मूर्धा च व्यजयो व्यश्रुषश्च यः ॥ प्रसवश्चाप्यजश्चैव द्वादशोऽधिपतिः स्मृतः ॥ ८७ इत्येते भृगवो देवाः स्मृता द्वादश याज्ञिकाः । पौलोम्यजनयत्पुत्रं बलिष्ठं वलिनं विभुम् ॥ ८८ व्याधितः सोऽष्टमे मासि गर्भः क्रूरेण कर्मणा । च्यवनाच्च्यवनः सोऽथ चेतनस्तु प्रचेतसः ॥ प्राचेतसाच्च्यवनक्रोधाद्दध्वानं पुरुषादजः ॥ ८९ जनयामास पुत्रौ द्वौ सुकन्यायां च भार्गवः । आत्मवानं दधीचं च तावुभौ साधुसंमतौ ॥ ९० सारस्वतः सरस्वत्यां दधीचाच्चोपपद्यते । रुची पत्नी महाभागा आत्मवानस्य नाहषी ॥ ९१ तस्य तुर्वोऋषिर्जज्ञे ऊरू भित्त्वा महायशाः । और्वश्चाऽऽसीदृचीकस्तु दीप्ताग्निसदृशप्रभः ॥ ९२ जमदग्निश्चर्चीकस्य सत्यवत्यां व्यजायत । भृगोश्च चरुपर्यासे रौद्रवैष्णवयोरतथा ॥ ९३ जमनाद्वैष्णवस्याग्रेर्जमदग्निरजायत । रेणुका जमदग्नेस्तु शक्रतुल्यपराक्रमम् ॥ ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् ॥ ९४ और्वस्याऽऽसीत्पुत्रशतं जमदग्निपुरोगमम् । तेषां पुत्रसहस्राणि भार्गवाणां परस्परम् ॥ ९५ ऋष्यन्तरेषु वै बाह्या बहवो भार्गवाः स्मृताः । वत्सो विश्णोऽधिषेणश्च पाण्डः पथ्यः सशौनकः गोत्रेण सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ॥ ९६ शृणुताङ्गिरसो वंशमग्रेः पुत्रस्य धीमतः । यस्यान्यवाये संभूता भारद्वाजाः सगौतमाः ॥ देवाश्चाङ्गिरसो मुख्यास्त्रिषुवमन्तो महौजसः ॥ ९७ सुरूपा चैव मारीची कार्दमी च तथा स्वराट् । पथ्या च मानवी कन्या तिस्त्रो भार्यास्त्वथर्वणः इत्येता ह्यङ्गिरसः पत्न्यस्तासु वक्ष्यामि संततितम् ॥ ९८ अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः । उत्पन्ना महता चैव तपसा भावितात्मनाम् ॥ ९९ बृहस्पतिः सुरूपाया गौतमः सुषुवे स्वराट् । अवन्ध्यं वामदेवं च उतथ्यमुशिजं तथा ॥ १००
* इदमर्धं नास्ति क. पुस्तके ।
[अ० ६५ श्लो० १०१-१२१] वायुपुराणम् । २३५
( प्रजापतिवंशानुकीर्तनम्ः ) धिष्णुः पुत्रस्तु पथ्यायां संवर्तश्चैव मानसः । विचित्तश्च तथा यस्य शरदंश्वाप्युतथ्यजः ॥ १०१ अशिजो दीर्घतमा बृहदुक्थो वामदेवजः । धिष्णोः पुत्रः सुधन्वान ऋषभश्च सुधन्वनः ॥ १०२ रथकार. स्मृता देवा ऋषयो ये परिश्रुताः । बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः ॥ १०३ अङ्गिरसस्तु संवर्तो देवानाङ्गिरसः शृणु । बृहस्पतेर्यवीयांसो देवा ह्यङ्गिरसः स्मृताः ॥ १०४ औरसाङ्गिरसः पुत्राः सुरूपायां विजज्ञिरे । औदार्यायुर्रनुदक्षो दर्भः प्राणस्तथैव च ॥ १०५ हविष्मांश्च हविष्णुश्च क्रतुः सत्यश्च ते दश ॥ अयस्यस्तु उतथ्यश्च वामदेवस्तथोसिजः । भारद्वाजाः शांकृतिका गार्ग्यकान्वरथींतराः ॥ १०६ मुद्गला विष्णुवृद्धाश्च हारिता वायवस्तथा । तथा भाक्षा भरद्वाजा आर्षभाः किंभयास्तथा ॥ १०७ एते ह्यङ्गिरसः पक्षा विज्ञेया दश पञ्च च । ऋष्यन्तरेषु वै बाह्या बहवोऽङ्गिरसः स्मृताः ॥१०८ मारीचं परिवक्ष्यामि वंशमुत्तमपूरुषम् । यस्यान्यवाये संभूतं जगत्स्थावरजङ्गमम् ॥ १०९ मरीचिरापश्चकमे ताभिर्ध्यायनप्रजेप्सया । पुत्रः सर्वगुणोपेतः प्रजावान्सुरुचिर्दितिः ॥ ११० संपूज्यते प्रशस्तायां मनसा भाविता प्रभुः ॥ आहूताश्च ततः सर्वा आपः समवसतप्रभुः । तासु प्रणिहितात्मानमेकः सोऽजनयत्प्रभुः ॥ १११ पुत्रमप्रतिमञ्चान्नाऽरिष्टनेमिः प्रजापतिः । पुत्रं मरीचं सूर्याभं वधौ वेशो व्यजीजनत् ॥ ११२ मध्यायान्हि सतां वाचं पुत्रार्थी सलिले स्थितः । सप्त वर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ॥११३ कश्यपः सवितुर्विद्वांस्तेन स ब्रह्मणः समः । मन्वन्तरेषु सर्वेषु ब्रह्मणोऽशेन जायते ॥ ११४ कन्यानिमित्तमित्युक्ते दक्षेण कुपिताः प्रजाः । अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ॥ ११५ *ह्यश्वैकसा हि विज्ञेया वाङ्मनः कश्य उच्यते । कश्यं मद्यं स्मृतं विप्रैः कश्यपानात्तु कश्यपः ॥ करोति नाम यद्वाचो वाचं क्रूरमुदाहवम् । दक्षाभिशपतः कुपिताः कश्यपस्तेन सोऽभवत् ॥ ११७ तस्माच्च कश्यपेनांको ब्रह्मणा परमेष्ठिना । +तस्माद्दक्षः कश्यपाय कन्यास्ताः प्रत्यपद्यत ॥ सर्वाश्च ब्रह्मवादिन्यः सर्वास्ता लोकमातरः ॥ ११८ इत्येतमृषिसर्गं तु पुण्यं यो वेद वारुणम् । आयुष्मान्पुण्यवाञ्छुद्धः सुखमाप्नोत्यनुत्तमम् ॥ धारणाच्छ्रवणाच्चैव सर्वपापैः प्रमुच्यते ॥ ११९ अथाब्रुवन्पुनः सर्वे मुनयो रोमहर्षणम् । विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह ॥ निसर्गः संप्रवृत्तोऽयं मनोर्वैवस्वतस्य ह ॥ १२०
सूत उवाच-- प्रजाः सृजेति व्यादिष्टः स्वयं दक्षः स्वयंभुवा । ससर्ज दक्षो भूतानि गतिमन्ति ध्रुवाणि च ॥ उपस्थितेऽन्तरे ह्यस्मिन्मनोर्वैवस्वतस्य ह ॥ १२१
* इदमर्धं नास्ति ङ. पुस्तके । + इदमर्धं नास्ति व. पुस्तके ।
२३६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६५श्लो०१२२-१४६] ( प्रजापतिवंशानुकीर्तनम् )
ततः प्रवृत्तो दक्षस्तु प्रजाः स्रष्टुं चतुर्विधाः । जरायुजाण्डजाश्चैव उद्भिज्ञाः स्वेदजास्तथा ॥ १२२ दश वर्षसहस्राणि तप्त्वा घोरं महत्तपः । संभावितो योगबलैरणिमाद्यैर्विशेषतः ॥ १२३ आत्मानं व्यभजच्छ्रीमान्मनुष्योरगराक्षसान् । * देवासुरसगन्धर्वान्दिव्यसंहननप्रजान् ॥ ईश्वरानात्मनस्तुल्यान्रूपद्रविणतेजसा ॥ १२४ तथैवान्यानि मुदितो गतिमन्ति ध्रुवाणि च । मानसान्येव भूतानि सिसृक्षुर्विविधाः प्रजाः ॥ १२५ ऋषीन्देवान्सगन्धर्वान्मनुष्योरगराक्षसान् । यक्षभूतपिशाचांश्च वयःपशुमृगांस्तथा ॥ १२६ यदाऽस्य मनसा सृष्टा न व्यवर्धन्त ताः प्रजाः । अपध्याता भगवता महादेवेन धीमता ॥ १२७ मैथुनेन च भावेन सिसृक्षुर्विविधाः प्रजाः । असिक्नीं चावहत्पत्नीं वीरणस्य प्रजापतेः ॥ १२८ सुतां सुमहता युक्तां तपसा लोकधारिणीम् । यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १२९ अत्राप्युदाहरन्तीमौ श्लोकौ प्राचेतसे प्रति । दक्षस्योद्वहतो भार्यामसिक्रीं वैरिणीं पराम् ॥ १३० रूपाणां नियुतं दक्षः सर्पिणां साभिमानिनाम् । नदीगिरिषु सर्पन्तः पृष्ठतोऽनुययौ प्रभुः ॥ १३१ तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः । प्रथमाऽत्र द्वितीया तु दक्षस्येह प्रजापतेः ॥ १३२ तथाऽगच्छद्यथाकालं रूपानां नियुते तु सः । असिक्नीं वैरिणीं यत्र दक्षः प्राचेतसोऽवहत ॥१३३ अथ पुत्रसहस्रं स वैरिण्याममितौजसा । असिक्न्यां जनयामास दक्षः प्राचेतसः प्रभुः ॥ १३४ तांस्तु दृष्ट्वा महातेजाः स विवर्धयिषून्प्रजाः । देवर्षिः प्रियसम्वादो नारदो ब्रह्मणः सुतः ॥ नाशाय वचनं तेषां शापायैवाऽऽत्मनोऽब्रवीत् ॥ १३५ यः स वै प्रोच्यते विप्रः कश्यपस्येति क्षत्रिभः । दक्षशापभयाद्धीतो ब्रह्मर्षिस्तेन कर्मणा ॥ १३६ यः कश्यपसुतस्याथ परमेष्ठी व्यजायत । मानसः कश्यपस्येह दक्षशापभयात्पुनः ॥ १३७ तस्मात्स कश्यपस्याथ द्वितीयं मानसोऽभवत् । स हि पूर्वसमुत्पन्नो नारदः परमेष्ठिनः ॥ १३८ येन दक्षस्य पुत्रास्ते हर्यश्वा इति विश्रुताः । निन्दार्थं नाशिताः सर्वे विनष्टाश्च न संशयः ॥ १३९ तस्योद्यतस्तदा दक्षः क्रुद्धो नाशाय वै प्रभुः । ब्रह्मर्षिन्वं पुरस्कृत्य याचितः परमेष्ठिना ॥ १४० ततोऽभिसंधितं चक्रे दक्षस्तु परमेष्ठिना । कन्यायां नारदो मह्यं तव पुत्रो भवत्विति ॥ १४१ ततो दक्षः सुतां प्रादात्प्रियां वै परमेष्ठिने । तस्मात्स नारदो जज्ञे भूयः शान्तो भयादृषिः ॥ १४२ तदुपश्रुत्य प्रियास्ते जातकौतूहलाः पुनः । अपृच्छन्वदतां श्रेष्ठं सूतं तत्त्वार्थदर्शिनम् ॥ १४३
ऋषय ऊचुः—
कथं विनाशिताः पुत्रा नारदेन महात्मना । प्रजापतिसुमास्ते वै प्रजाः प्राचेतसात्मजाः ॥ १४४ स तथ्यं वचनं श्रुत्वा जिज्ञासासंभवंशुभम् । प्रोवाच मधुरं वाक्यं तेषां सर्वगुणान्वितम् ॥ १४५ दक्षपुत्राश्च हर्यश्वा विवर्धयिषवः प्रजाः । समागता महावीर्या नारदस्तानुवाच ह ॥ १४६
* एतदर्थस्थानेऽयं श्लोकः—देवासुरगन्धर्वान्मनुष्योरगराक्षसान् । समानवानेतान्सर्वान्दिव्य- संहननप्रजान् । इति ख. ग. घ. ङ. पुस्तकेषु ।
[अ०६५-६६श्लो०१४७-१५९।१-५] वायुपुराणम् । २३७ ( कश्यपीयप्रजासर्गः ) बालिशा बत यूयं वै न प्रजानीथ भूतलम् । अन्तमूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ १४७ किं प्रमाणं तु मेदिन्याः स्रष्टव्यानि तथैव च । अविज्ञायेह स्रष्टव्यं अन्यथा किं तु स्रक्ष्यथ ॥ अल्पं वाऽपि बहुर्वाऽ(वाऽ)पि तत्र दोषस्तु दृश्यते ॥ १४८ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् । वायुं तु समनुप्राप्य गतास्ते वै पराभवम् ॥ १४९ अद्यापि न निवर्तन्ते भ्रमन्तो वायुमिश्रिताः । एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ॥ १५० स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ १५१ प्रजा विवर्धयिषवः शबलाश्वा पुनस्तु ते । पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ॥ १५२ तच्छ्रुत्वा वचनं सर्वे कुमारास्ते महौजसः । अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ॥ भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ १५३ ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः । × तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ॥ अद्यापि न निवर्तन्ते समुद्रेभ्य इवाऽऽपगाः ॥ १५४ ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १५५ नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः । नारदं नाशमेहीति गर्भवासं वसेति च ॥ १५६ तथा तेष्वपि नष्टेषु महात्मसु पुरा किल । षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ॥ १५७ तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः । धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ॥ १५८ इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः । आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवत्युत ॥ १५९ इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्तनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः श्लोकानां समष्ट्यङ्काः— ५८२५
अथ षट्षष्टितमोऽध्यायः । कश्यपीयप्रजासर्गः ।
ऋषय ऊचुः— देवानां दानवानां च दैत्यानां चैव सर्वशः । उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ॥ १ सूत उवाच— धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत । अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ २ संकल्पा च मुहूर्ता च साध्या विश्वा तथैव च । धर्मपत्न्यो दश त्वेता दक्षः प्राचेतसो ददौ ॥ ३ साध्या पुत्रांस्तु धर्मस्य साध्यान्द्वादश जज्ञिरे । साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः ॥ देवेभ्यस्तानपरान्देवान्देवज्ञाः परिचक्षते ॥ ४ ब्रह्मणो वै मुखात्सृष्टा जया देवाः प्रजेप्सया । सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ५
× इदमर्धं नास्ति ख. ग. घ. ङ. पुस्तकेषु ।
धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः । पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ १०
२३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६६ श्लो० ६-३०] ( कश्यपीयप्रजासर्गः )
दर्शश्च पौर्णमासश्च बृहद्यच्च रथंतरम् । चित्तिश्चैव विचित्तिश्च आकृतिः कूर्विरेव च ॥ ६ विज्ञाता चैव विज्ञातो मनो यज्ञश्च ते मृताः । नामान्येतानि तेषां वै जयानां प्रथितानि च ॥ ७ ब्रह्मशापेन ते जाताः पुनः स्वायंभुवे जिताः । स्वारोचिषे वै तुषिताः सत्याश्चैवोत्त्तमे पुनः ॥ ८ तामसे हरयो नाम वैकुण्ठा रैवतान्तरे । साध्याश्च चाक्षुषे नाम्ना छन्दजा अज्ञिरे सुराः ॥ ९ धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः । पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ १० स्वारोचिषेऽन्तरेऽतीता देवा ये वै महौजसः । तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेऽन्तरे ॥ ११ किंचिच्छिष्टे तदा तस्मिन्देवा वै तुषिताऽब्रुवन् । इतरेतरं महाभागान्वयं साध्यान्प्राविश्य वै ॥ मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ॥ १२ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । तस्माद्द्वादश संभूता धर्मात्स्वायंभुवात्पुनः ॥ १३ नरनारायणौ तत्र जज्ञाते पुनरेव हि । विपश्चिदिन्द्रो यश्चाऽऽसीत्तथा सत्यो हरिश्च तौ ॥ स्वारोचिषेऽन्तरे पूर्वमास्तां तौ तुषितौ सुरौ ॥ १४ तुषितानां तु साध्यत्वे नामान्येतानि वक्ष्यते । मनोऽनुमन्ता प्राणश्च नरो यानश्च वीर्यवान् ॥ १५ चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा । प्रभवोऽथ विभुश्चैव साध्या द्वादश जज्ञिरे ॥ १६ स्वायंभुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः । नामान्यासन्पुनस्तानि तुषितानां निबोधत ॥ १७ प्राणोऽपानस्तथोदानः समानो व्यान एव च । चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ॥ १८ प्राणापानावुदानश्च समानो व्यान एव च । नामान्येतानि पूर्वं तु तुषितानां स्मृतानि ह ॥ १९ वसोस्तु वसवः पुत्राः साध्यानां मनुजाः स्मृताः । धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥ प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २० धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ध्रुवपुत्रो भवो नाम्ना कालो लोकमकालनः ॥ २१ सोमस्य भगवान्वर्चा बुधश्च ग्रहबोधनः । रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ॥ २२ धारोर्मिकालिलाश्चैव त्रयश्चन्द्रमसः सुताः । आतपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ॥ २३ स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः । अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ तस्य शाखो विशारवश्च नैगमेयश्च पृष्ठजाः ॥ २४ अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैवद्वौ पुत्रावनिलस्य च ॥ २५ प्रत्यूषस्य विदुः पुत्रमृषिर्नाम्ना तु देवलः । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २६ बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ॥ २७ प्रभासस्य तु या भार्या वसूनामष्टमस्य ह । विश्वकर्मा सुतस्तस्या जातः शिल्पिपजापतिः ॥ २८ स कर्ता सर्वशिल्पानां त्रिदशानां च वर्धकिः । भूषणानां च सर्वेषां कर्ता कारयिता च सः ॥ २९ सर्वेषां च विमानानि देवतानां करोति सः । मानुषाश्चोपजीवन्ति यस्य शिल्पानि शिल्पिनः ॥ ३०
[अ० ६६ श्लो० ३१-५४] वायुपुराणम् । २३९ ( कश्यपीयप्रजासर्ग )
विश्वे(धृ)देवास्तु विश्वाया जज्ञिरे दश विश्रुताः । क्रतुर्दक्षः श्रवः सत्यः कालः कामो धुनिस्तथा ॥ ३१ कुरुवान्प्रभवांश्चैव रोचमानश्च ते दश । धर्मपुत्राः स्मृता ह्येते विश्वायां जज्ञिरे शुभाः ॥ ३२ मरुत्वत्यां तु मरुतो भानवो भानुजाः स्मृताः । मुहूर्ताश्च मुहूर्तायां घोषं लम्बा व्यजायत ॥ ३३ संकल्पायां तु संजज्ञे विद्वान्संकल्प एव च । नागवीथ्यस्तु जाम्यां च पथत्रयसमाश्रिताः ॥ ३४ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत । एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः ॥ ३५ मुहूर्ताश्चैव तिथ्यश्च पतिभिः सह सुव्रताः । नामतः संप्रवक्ष्यामि ब्रुवतो म निबोधत ॥ ३६ अहोरात्रविभागश्च नक्षत्राणि समासतः । मुहूर्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ॥ ३७ अहोरात्रकलानां तु षट्शतीत्यधिका स्मृता । रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ॥ ३८ ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु । अविशेषेषु कालेषु योज्यः स पितृदानतः ॥ ३९ रौद्रः सार्वस्तथा मैत्रः पिण्डचवासव एव च । आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंत्रिताः ॥ ४० प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निर्ऋतिस्तथा । वरुणश्च तथाऽर्यम्णो भागाश्चापि दिनाश्रिताः ॥ ४१ एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः । शंकुच्छायाविशेषेण वेदितव्याः प्रमाणतः ॥ ४२ अजास्तथाऽहिर्बुन्ध्नश्च पूषा हि यमदेवताः । आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥ ४३ ब्रह्मसौम्यस्तथाऽऽदित्यो बार्हस्पत्योऽथ वैष्णवः । सावित्रोऽथ तथा त्वष्ट्रो वायव्यश्चेति संग्रहः ॥ ४४ एकरात्रिमुहूर्ताः स्युः क्रमोक्ता दश पञ्च च । इन्दोर्गक्युदया ज्ञेया नालिकाः पादिकास्तथा ॥ कालावस्थास्तिवमास्त्वेते मुहूर्ता देवताः स्मृताः ॥ ४५ सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च । दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ॥ ४६ स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥ ४७ अश्विनी कृत्तिका याम्या नागवीथिरिति स्मृता । पुष्योऽश्लेषापुनर्वसू वीथीरैरावती मता ॥ तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते ॥ ४८ पूर्वोत्तरे फाल्गुन्यौ च मघा चैवार्यमी स्मृता । हस्तचित्रे तथा स्वाती गोवीथीत्यभिशब्दिता ॥ ४९ ज्येष्ठा विशाखाऽनुराधा वीथि जारद्गवी स्मृता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ ५० मूलं चाऽऽषाढे द्वे चापि अजवीथ्यभिशब्दिषा । श्रवणं च धनिष्ठा च गार्गी शतभिषक्तथा ॥ ५१ वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । स्मृता वीथ्यस्तु तिस्रस्ता मार्गो वै दक्षिणो बुधैः ॥ ५२ सप्तविंशत्तु याः कन्या दक्षः सोमाय ता ददौ । सर्वा नक्षत्रनाम्र्यस्ता ज्योतिषे चैव कीर्तिताः ॥ तासामपत्यान्यभवन्दीप्तान्यमिततेजसा ॥ ५३ यास्तु शेषास्तदा कन्याः पतिजग्राह कश्यपः । चतुर्दश महाभागाः सर्वास्ता लोकमातरः ॥ ५४
एतामेव महाभागामादितिं संप्रविश्य वै । वैवस्वतेऽन्तरे ह्यस्मिन्योगादर्धेन तेजसः ॥ ५८
| २४० | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० ६६-श्लो० ५५-७५]<br>(कश्यपीयप्रजासर्गः) |
|---|
अदितिर्दितिर्दनुः काला अरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥
कद्रूर्मुनिश्ध धर्मज्ञः प्रजास्तासां निबोधत ॥ ५५
चारिष्णवेऽन्तरेऽतीते ये द्वादश पुरोगमाः । वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेऽन्तरे ॥ ५६
उपस्थितेऽन्तरे ह्यस्मिन्पुनर्वैवस्वतस्य ह । आराधिता ह्यदित्याते समेत्याऽऽहुः परस्परम् ॥ ५७
एतामेव महाभागामादितिं संप्रविश्य वै । वैवस्वतेऽन्तरे ह्यस्मिन्योगादर्धेन तेजसः ॥ ५८
गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति । आदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ॥ ५९
एवमुक्त्वा तु ते सर्वे चाक्षुषस्याऽन्तरे मनोः । जज्ञिर द्वादशाऽऽदित्या मारीचात्कश्यपात्पुनः ॥ ६०
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि । वैवस्वतेऽन्तरे ह्यस्मिन्नरनारायणौ सुरौ ॥ ६१
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते । यथा सूर्यस्य लोकेऽस्मिन्नुद्यास्तमयावुभौ ॥
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ॥ ६२
श्रेष्ठानानुश्राविके यस्माच्छक्ताः शब्दादिलक्षणे । अष्टात्मकेऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः ॥ ६३
इत्येष विषये रागः संभूत्याः कारणं स्मृतम् । ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः ॥ ६४
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्त्तमे पुनः । तामसे हरयो देवा जाताश्चारिष्णवे तु वै ॥
वैकुण्ठाश्चाक्षुषे साध्या आदित्याः सांप्रते पुनः ॥ ६५
धाताऽर्यमा च मित्रश्च वरुणोऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ॥ ६६
ततस्त्वष्टा ततो विष्णूरजघन्योऽजघन्यजः इत्येते द्वादशाऽऽदित्याः कश्यपस्य सुताः स्मृताः ॥ ६७
सुरभी कश्यपाद्द्वावेकादश विजज्ञिरे । महादेवप्रसादेन तपसा भाविता सती ॥ ६८
अङ्गारकं तथा सर्पं निर्ऋतिं सदसस्पतिम् । अजैकपादहिर्बुध्नमुर्ध्वकेतुं ज्वरं तथा ॥ ६९
भुवनं चेश्वरं मृत्युं कपालं चैव विश्रुतम् । देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् ॥
तपसा तेन महता सुरभी तानजीजनत् ॥ ७०
ततो दुहितरावन्ये सुरभी द्वे व्यजायत । रोहिणी चैव रुद्राभा गान्धारी च यशस्विनी ॥ ७१
रोहिण्यां जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः । सुरूपा हंसकीला च भद्रा कामदुघा तथा ॥ ७२
सुषुवे कामदुघा तु सुरूपा तनयद्वयम् ॥
हंसकीला नृमहिषा भद्रायास्तु व्यजायत । विश्रुतास्तु महाभागा गन्धर्वा वाजिनः सुताः ॥ ७३
उच्चैःश्रवास्तदा जाताः खेचरास्ते मनोजवाः । श्वेताः शोणाः पिशङ्गाश्च सारङ्गा हरिताऽर्जुनाः ॥
रुद्रा देवोपवाह्यास्ते गन्धर्वयोनयो हयाः ॥ ७४
भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्राभसुप्रभः । * वृषो दक्ष इति ख्यातः कण्ठेमणिलप्रभः ॥ ७५
* इदमर्धं नास्ति क. पुस्तके ।