वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 270, कुल 465 में से
संदर्भ में पढ़ें[अ०६९श्लो०२०८-२३०] वायुपुराणम् । २६१
(कश्यपीयप्रजासर्गः)
हरेस्तु हरयः पुत्रा गोलाङ्गूलतरक्षवः । वानराः किंनराश्चैव व्याघ्राः किंपुरुषास्तथा ॥
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥ २०८
* सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः । हस्ताभ्यां परिगृह्याथ रथंतरमगायत ॥ २०९
साम्ना प्रसूयमानेन सद्य एव गजोऽभवत् । स प्रागच्छदिरावत्यै पुत्रार्थे स तु भौवनः ॥ २१०
इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः । देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट् ॥
शुभ्राभ्राम्रभ्रतुर्दंष्ट्रः श्रीमानैरावतो गजः ॥ २११
अप्सुजस्यैकमूलस्य सुवर्णामस्य हस्तिजः । षड्दन्तस्य हि भद्रस्य औपवाह्यश्व वै बलः ॥ २१२
तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः । पद्मश्चैव चतुर्थोऽभूद्धास्तिनी चाभ्रमुस्तथा ॥ २१३
दिग्गजांस्तांश्च चत्वा(तु)रः श्वेताऽजनयताऽऽशुगान् । भद्रं मृगं च मन्दं च संकीर्णं चतुरः सुतान् ॥
संकीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु । भद्रो यः सुप्रतीकस्तु हरितः स ह्यपांपतेः ॥ २१५
पद्मो मन्दस्तु यो गौरो द्विषो ह्यैलविलस्य सः । । मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः
पद्मोत्तरस्तु यः पद्मो गजां वै वरुणो गणः । उपलेपनमेषश्व तस्याष्टौ जज्ञिरे सुताः ॥ २१७
उदग्रभावेनोपेता जायन्ते तस्य चान्वये । श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः ॥
मतङ्गजान्प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ २१८
कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः । जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्दनौ ॥ २१९
शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा । बलिनः शक्तिनश्चैव मृतास्त्वाकुलिका गजाः
पुष्पदन्तो बृहतसामा षड्दन्तो दन्तपुष्पवान् । ताम्रवर्णी च तत्पुत्रः सहचारिविषाणितः ॥ २२१
अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः । श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ २२२
वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः । भार्या चैवाङ्गदा तस्य नीलवलक्षणौ सुतौ ॥ २२३
चण्डाश्चारुशिरोग्रीवा व्यूढोरस्कास्तपस्विनः । नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ २२४
सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः । तस्य प्रहारी संपाती पृथुश्चात्तिसुतास्त्रयः ॥ २२५
पशवो दीर्घतालवोष्ठाः सुविभक्तशिरोदराः । जायन्ते मृदुसंभूता वंशे तस्य मतङ्गजाः ॥ २२६
अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जानावती । + एवं माता तयोश्चापि प्रथितायुरजः सुतौ ॥ २२७
महाविभक्तशिरसः स्निग्धजीमूतसंनिभाः । सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः ॥
शूनाः पीतायतमुखा गजास्तस्यान्ययेऽभवन् ॥ २२८
जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुद्द्युतिः । पिङ्गलायाः सुतौ तस्यां महापद्मोर्मिमालिनौ ॥
समायवरदांश्चण्डान्प्रवृद्धबलिनोदरान् । हस्तियुद्धे प्रियान्नागान्विद्धि तस्य कुलोद्भवान् ॥ २३०
* इदमर्धं नास्ति घ. पुस्तके । + एतदर्थस्थान इदमर्धं 'पवमाना तयोश्चापि प्रथिताः पुरुजः सुतौ' इति ख. घ. ङ. पुस्तकेषु ।