वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 278, कुल 465 में से
संदर्भ में पढ़ें[अ० ७० श्लो ५१-७७] वायुपुराणम्। २६१ (ऋषिवंशानुकीर्तनम् ) इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । दारुणाभिजनाः सर्वे देवैरपि दुरासदाः ॥ ५१ सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः । यक्षाणां चैव सर्वेषां पौलस्त्या ये च राक्षसाः ॥ ५२ आमस्त्यवैशामित्राणां क्रूराणां ब्रह्मरक्षसाम् । वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥ ५३ तेषामैडविलो राजा पौलस्त्यः सव्यपिङ्गलः । इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ॥ ५४ यातुधाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः । निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥ ५५ पौलस्त्या नैर्ऋताश्चैव आगस्त्याः कौशिकास्तथा । इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥ ५६ तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम् । वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥ ५७ अष्टदंष्ट्राः शङ्कुकर्णा ऊर्ध्वरोमाण एव च । आकर्णदारितास्याश्च मुञ्जधूमोध्वर्मूर्धजाः ॥ ५८ स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रबाहुकाः । ताम्रास्या लम्बजिह्वोष्ठा लम्बभ्रूस्थूलनासिकाः ॥ नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विभीषणाः । महाघोरस्वराश्चैव विकटा बद्धपिण्डकाः ॥ ६० स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः । दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्माणः ॥ ६१ सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः । विचित्रवस्त्राभरणाश्चित्रस्रगनुलेपनाः ॥ ६२ अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः । इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम् ॥ न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ॥ ६३ पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ॥ वानराः किंनराश्चैव मयूकिंपुरुषास्तथा । *येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ॥ ६५ अनपत्यः क्रतुस्तस्मिन्स्मृतो वैवस्वतेऽन्तरे । न तस्य पुत्रः पौत्रो वा तेजः संक्षिप्य वा स्थितः ॥ अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः । तस्य पत्न्यश्च सुन्दर्यो दशैवाऽऽसन्पतिव्रताः ॥ ६७ भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः । भद्रा शूदा च मद्रा च शलदा मलदा तथा ॥ ६८ वेला खला च सप्ताैता या च गोचपला स्मृता । तथा मानरसा चैव रत्नकूटा च ता दश ॥ ६९ आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः । भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ॥ ७० स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् । तमोभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्तिता ॥ ७१ स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः । ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ॥ ७२ आत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः । यज्ञेष्वविघ्नंश्चैव सुरैश्चैव प्रवर्तितः ॥ (?) ७३ सता स्वजनयत्पुत्रानात्मतुल्याननामकान् । दश तास्वेव महता तपसा भावितप्रभाः ॥ ७४ स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः । तेषां विख्यातयशसौ बलिष्ठौ सुमहौजसौ ॥ ७५ दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः । यवीयसी सुता तस्यामबला ब्रह्मवादिनी ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ ७६ अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् । दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥ ७७
* एतदर्थस्थानेऽपाठः—प्रायोऽन्योयः परिक्रान्तो मयाक्रोश वशान्वय इति ख. ग. घ. ङ. पुस्तकेषु ।