वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 28, कुल 465 में से
संदर्भ में पढ़ें[अ० ६ श्लो० ३९-६७] वायुपुराणम् । १९
( सृष्टिप्रकरणम् )
बहिरन्तःप्रकाशश्च शुद्धो निःसंज्ञ एव च । तस्मात्तैः संवृत्ता बुद्धिर्मुख्यानि करणानि च ॥ ३९
तस्मान्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः । मुख्यसर्गं तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम् ४०
अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत । तस्याभिध्यायदस्तत्र तिर्यक्स्रोतोऽभ्यवर्तत ॥ ४१
तस्मात्तिर्यग्व्यवर्तन्त तिर्यक्स्रोतस्ततः स्मृतम् । तमोबहुत्वाने सर्वे ह्यज्ञानबहुलाः स्मृताः ॥ ४२
उत्पथग्राहिणश्चापि ते ध्यानाच्चानमानिनः । तिर्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः ॥ ४३
(*अहंकृता अहमाना अष्टाविंशद्विद्यात्मकाः । एकादशेन्द्रियविधा नवधा चोद्यस्तथा ॥ ४४
अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः । अन्तःप्रकाशास्ते सर्व आवृताश्च बहिः पुनः ॥ ४५
यस्मात्तिर्यक्प्रवर्तेत तिर्यक्स्रोताः स उच्यते । (+तिर्यक्स्रोतश्च दृष्ट्वा वै द्वितीयं मिश्रमीश्वरः ॥ ४६
अभिप्रायमथोऽद्भूतं दृष्ट्वा सर्वं तथाविधम् । तस्याभिध्यायतो नित्यं सात्त्विकः समवर्तत ) ॥ ४७
ऊर्ध्वस्रोतास्तृतीयस्तु स चैवोर्ध्वं व्यवस्थितः । यस्माद्वृत्तवर्ततोर्ध्वं तु ऊर्ध्वस्रोतास्ततः स्मृतः ॥ ४८
ते सुखप्रीतिबहुला बहिरन्तश्च संवृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः ॥ ४९
तेन वातादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः । ऊर्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः ॥ ५०
ऊर्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः । प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत ॥ ५१
ससर्ज सर्गमन्यं स साधकं प्रभुरीश्वरः । अथाभिध्यायदस्तस्य सत्याभिध्यायिनस्तदा ॥ ५२
प्रादुर्बभूव चाव्यक्तादर्वाक्स्रोतः सुसाधकम् । यस्मादर्वाग्व्यवर्तेत (?) ततोऽर्वाक्स्रोत उच्यते ॥ ५३
ते च प्रकाशबहुलास्तमःसत्त्वरजोधिकाः । तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ॥ ५४
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते । लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः ॥ ५५
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः । इत्येष तैजसः सर्गो ह्यर्वाक्स्रोताः प्रकीर्तितः ॥ ५६
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा स व्यवस्थितः । विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ॥ ५७
विवृत्तं वर्तमानं च तेऽर्थं जानन्ति तत्त्वतः । भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥ ५८
(×ते परिग्रहिणः सर्व संविभागरताः पुनः । खादनाश्चप्यशीलाश्च ज्ञेया भूतादिकास्तु ते ) ॥ ५९
विपर्ययेण भूतादिरशक्त्या च व्यवस्थितः । प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः ॥ ६०
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते । वैकारिकस्तृतीयस्तु सर्व ऐन्द्रियकः स्मृतः ॥ ६१
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः । मुख्यसर्गश्चातुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ६२
तिर्यक्स्रोताश्च यः सर्गस्तिर्यग्योनिः स पञ्चमः । तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥ ६३
(÷तथाऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः॥ ६४
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ ६५
प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्वकाः) । बुद्धिपूर्वं प्रवर्तन्ते षट्सर्गा ब्रह्मणस्तु ते ॥ ६६
विस्तारानुग्रहं सर्गं कीर्त्यमानं निबोधत । चतुर्धाऽवस्थितः सोऽथ सर्वभूतेषु कृत्स्नशः ॥ ६७
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
+ धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।