भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 29, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 29

२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ७ श्लो० १-६] (प्रतिसंधिकीर्तनम्)

विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च। स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता॥ ६८
सिद्ध्यात्मानो मनुष्यास्तु तुष्टिर्देवेषु कृत्स्नशः। इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः॥ ६९
सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः। अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान्॥ ७०
सनन्दनं च सनकं विद्वांसं च सनातनम्। विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः॥ ७१
संबुद्धाश्चैव नानात्वादपविद्धाश्रयोऽपि ते। असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः॥ ७२
तदा तेषु व्यतीतेषु तदान्यान्साधकांश्च तान्। मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः॥ ७३
अभूतसंप्लवावस्थानाम्रतस्तान्निबोधत। आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा॥ ७४
स्वर्गं दिवः समुद्रांश्च नादञ्शैलान्व्रनस्पतीन्। औषधीनां तथाऽऽत्मानो ह्यात्मानो वृक्षवीरुधाम्॥ ७५
लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः संविरात्र्यहाः। अर्धमासाश्च मासाश्च अयनाब्दयुगानि च॥
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः॥ ७६
वक्त्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागे।
वैश्याश्चोर्वोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः॥ ७७
नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्॥ ७८
एष वः कथितः पादः समासान्न तु विस्तरात्। अनेनाऽऽद्येन पादेन पुराणं संप्रकीर्तितम्॥ ७९

इति महापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम षष्ठोऽध्यायः॥ ६॥
आदितः श्लोकानां समष्ट्यङ्काः--४९८
समाप्तः प्रक्रियापादः।


अथ सप्तमोऽध्यायः।

प्रतिसंधिकीर्तनम्।

+ सूत उवाच--
इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः। श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः॥ १
संबोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्। अतः प्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः॥ २
समतीतस्य कल्पस्य वर्तमानस्य चोभयोः। कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः॥
एतद्वेदितुमिच्छाम अ(मो ह्य)त्यन्तकुशलोऽह्यसि॥ ३

लोमहर्षण उवाच--
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिश्च यस्तयोः। समतीतस्य कल्पस्य वर्तमानस्य चोभयोः॥ ४
मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः। यथायं वर्तते कल्पो वाराहः सांप्रतः शुभः॥ ५
अस्मात्कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः। तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत॥ ६


+ इदं नास्ति क. पुस्तके।