वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 283, कुल 465 में से
संदर्भ में पढ़ें२७४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०७२श्लो०२-२६] (श्राद्धकल्पः)
या वै दुहितरस्तेषां दौहित्राश्चैव ये स्मृताः । धर्ममूर्तिधरास्तेषां ये त्रयः परमा गणाः ॥ २ नामानि लोकसर्गं च तेषां वक्ष्ये समासतः । लोका विरजसो नाम्ना यत्र तिष्ठन्ति भास्वराः ॥ ३ अमूर्तयः पितृगणाः पुत्रास्ते वै प्रजापतेः । विरजस्य द्विजाः श्रेष्ठा वैराजा इति विश्रुताः ॥ एष वै प्रथमः कल्पो वैराजानां प्रकीर्तितः ॥ ४ तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतः शुभ्रा यस्यां मैनाक उच्यते ॥ ५ जातः सर्वौषधिधरः सर्वरत्नाकराम्ववान् । पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्याऽऽत्मजोऽभवत् ॥ ६ तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् । अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥ ७ आश्रिते द्वे ह्यपर्णां तु अनिकेता तपोऽचरत् । न्यग्रोधमेकपर्णी तु पाटलामेकपाटला ॥ शतं वर्षसहस्राणि दुश्चरं देवदानवैः ॥ ८ आहारमेकपर्णेन एकपर्णी समाचरत् । पाटलेनैव चैकेन विदध्यादेक पाटला ॥ ९ पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रचक्रतुः । एका तत्र निराहारा तां माता प्रत्यभाषत ॥ १० निषेधयन्ती हुमेति माता स्नेहेन दुःखिता । सा तथोक्ता तया देवी मात्रा दुश्चरचारिणी ॥ ११ उमेति सा महाभागा त्रिषु लोकेषु विश्रुता । तथति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ॥ १२ एतत्तु त्रिकुमारीकं जगत्स्थास्याति शाश्वतम् । एतासां तपसा दृप्तं यावद्भूमिर्धारिष्यति ॥ १३ तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः । देव्यस्ताः सुमहाभागाः सर्वाश्च स्थिरयौवनाः ॥ १४ सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः । उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ॥ १५ महायोगबलोपेता महादेवमुपास्थिता । दन्तकाण्वोशनास्तस्याः पुत्रौ वै भृगुनन्दनः ॥ १६ असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता । दत्ता हिमवता तस्मै योगाचार्याय धीमते ॥ देवलं सुषुवे सा तु बलिष्ठं मानसं सुतम् ॥ १७ या चैतासां कुमारीणां तृतीया त्वेकपाटला । पुत्रं शतशिलाकस्य जैगीषव्यमुपास्थिता ॥ १८ तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ । इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥ १९ रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते । अन्योन्यप्रीतिरनयोरुमाशंकरयोरथ ॥ २० श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा । ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा ॥ तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ॥ २१ अनयो रतिविघ्नं च त्वमाचर हुताशन । सर्वत्र गत एव त्वं न दोषो विद्यते तदा ॥ २२ इत्येवमुक्ते तु तथा वह्निना च तथा कृतम् । उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ॥ २३ ततो रुषितया देव्या शप्तोऽग्निः शांशपायन । इदं चोक्तवती वह्निं रोषगद्गदया गिरा ॥ २४ यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन । कृतवानस्य कर्तव्यं तस्मात्त्वमसि दुर्मतिः ॥ २५ यद्देवं बिभृतं गर्भं रौद्रं शुक्रं महाप्रभम् । गर्भे त्वं धारयस्वैवमेषा ते दण्डधारणा ॥ २६