भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 288, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 288

[अ० ७४ श्लो० ७-३०] वायुपुराणम् । २७९

( श्राद्धकल्पः )
दिशि दक्षिणपूर्वस्यां विदिकस्थानं विशेषतः। सर्वतोऽरत्निमात्रं तु चतुरस्रं सुसंहितम् ॥ ७
वक्ष्यामि विविवत्स्थानं पितॄणामनुशासनात् । धान्यमारोग्यमायुष्यं बलवर्णविवर्धनम् ॥ ८
तत्र गर्तास्त्रयः कार्यास्त्रयो दण्डाश्च खादिरः। रत्निमात्रास्तु ते कार्या रजतेन विभूषिताः ॥
ते वितस्त्यायताः कार्याः सर्वतश्चतुरङ्गुलाः ॥ ९
प्राग्दक्षिणमुखान्भूमौ स्थितानसुषिरांस्तथा । अद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः ॥ १०
पायसा ह्यजगव्येन शोधनं वारिभिरेव तु । तर्पणात्सततं ह्येवं तृप्तिर्भवति शाश्वती ॥ ११
इह चामुत्र च श्रीमान्सर्वकर्मसमन्विताः । एवं त्रिषवणस्नातो योऽर्चयेत पितॄन्सदा ॥
मत्नेन विधिवत्सम्यगश्वमेधफलं लभेत् ॥ १२
तत्स्थापयेदमावास्यां(?)गर्ते भूचतुरङ्गुले । त्रिःसप्तसंज्ञास्ते यज्ञास्त्रैलोक्यं धार्यते तु वै ॥ १३
तस्य पुष्टिरथैश्वर्यमायुः संततिरेव च । विचित्रा भजते लक्ष्मर्मोक्षं च लभते क्रमात् ॥ १४
पाप्पापहं पावनीयमश्वमेधफलं तथा । अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम् ॥
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥ १५
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥ १६
आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा । पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ॥
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ १७
पितॄंस्तत्रिषु लोकेषु मन्त्रोऽयं तारयत्युत । पठ्यमानः सदा श्राद्धे नियतं ब्रह्मवादिभिः ॥ १८
राज्यकामो जपेदेवं सदा मन्त्रमतन्द्रितः । वीर्य्यशौचार्थसत्त्वं च श्रीरायुर्बलवर्धनम् ॥ १९
प्रीयन्ते पितरो येन जप्येन नियमेन च । सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ २०
अमूर्तानां समृतानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषः ॥ २१
इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा । सप्तर्षीणां पितॄणां च तान्ममस्यामि कामदान् ॥ २२
मन्वादीनां सुरेशानां सूर्याचन्द्रमसोस्तथा । तान्रमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥ २३
नक्षत्राणां ग्रहादीनां पितॄनथ पितामहान् । द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ २४
देवर्षीणां जनयितॄंश्च सर्वलोकनमस्कृतान् । अभयस्य सदा दातृन्नमस्येऽहं कृताञ्जलिः ॥ २५
प्रजापंतः कश्यपाय सोमाय वरुणाय च । योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ २६
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु । स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ २७
एतदुक्तं सप्तमर्षिब्रह्मर्षिगणपूजितम् । पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ २८
अनेन विधिना युक्तस्त्रीन्वरॉल्लभते नरः । अज्रमायुः सुतांश्चैव ददते पितरो भुवि ॥ २९
भक्त्या परमया युक्तः श्रद्दधाना जितेन्द्रियः । सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥ ३०