भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 287, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 287

२७८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ७३-७४ श्लो० ५८-७३।१-६] ( श्राद्धकल्पः )

न हि योगगतिः सूक्ष्मा पितॄणामपि तृप्तयः । तपसा हि प्रसादेन दृश्यन्ते मांसचक्षुषा ॥ ५८ इत्येते पितरश्चैव लोका दुहितरश्च वै । दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति तान् ॥ ५९ चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः । तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ॥ ६० भक्ताः प्राञ्जलियः सर्वे सेन्द्रास्तद्गतमानसाः । विधे च सिकताश्चैव पृश्निजाः शृङ्गिन(ण)स्तथा ॥ कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत । प्रजास्ता वातरशना दिवाकीर्त्यास्तथैव च ॥ ६२ लेखाश्च मरुतश्चैव वस्त्राद्याश्च दिवौकसः । अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव च ॥ ६३ यक्षा नागाः सुपर्णाश्च किंनरा राक्षसैः सह । पितॄंस्त्वपूजयन्सर्वे नित्यमेव फलार्थिनः ॥ ६४ एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः । सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ॥ ६५ हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा । मोक्षं योगमथैश्वर्यं प्रयच्छन्ति पितामहाः ॥ ६६ मोक्षोपायमथैश्वर्यं सूक्ष्मदेहाश्च देवताः । कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥ ६७ ऐश्वर्यं विहितं योगमथैश्वर्यं वित्तमुत्तमम् । योगैश्वर्यादृते मोक्षः कथंचिन्नोपपद्यते ॥ ६८ अपक्षस्यैव गमनं गमने पक्षिणो यथा । वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः ॥ ६९ विमानानां सहस्राणि युक्तान्यप्सरसां गणैः । सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ॥ ७० प्रज्ञा पुष्टिः स्मृतिर्मेधा राज्यमारोग्यमेव च । पितॄणां हि प्रसादेन प्राप्यते सुमहात्मनाम् ॥ ७१ मुक्तावैदूर्यवासांसि वाजिनागायुतानि च । कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ॥ ७२ हंसबर्हिणयुक्तानि मुक्तावैदूर्यवन्ति च । किङ्किणीजालनद्धानि सदापुष्पफलानि च ॥ प्रीत्या नित्यं प्रयच्छन्ति मनुष्याणां पितामहाः ॥ ७३

इति महापुराणे वायुप्रोक्ते उपोद्घातपादे श्राद्धकल्पो नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ आदितः श्लोकानां समष्ट्यङ्काः—६७९९


अथ चतुःसप्ततितमोऽध्यायः ।

श्राद्धकल्पः ।

बृहस्पतिरुवाच— सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतं रजताकं वा पितॄणां पात्रमुच्यते ॥ १ रजतस्य कथा वापि दर्शनं दानमेव च । अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते ॥ पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ २ राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा । स्वधादायाऽर्थिभिस्तात तस्मिन्दत्ते तदक्षयम् ॥ ३ कृष्णाजिनस्य सांनिध्यं दर्शनं दानमेव वा रक्षोघ्नं ब्रह्मवर्चस्यं पितॄंस्तत्तारयेत ॥ ४ काञ्चनं राजतं ताम्रं दौहित्रं कुतपास्तिलाः । वस्त्रं च पावनीयानि त्रिदण्डी योग एव च ॥ ५ श्राद्धकर्मण्ययं श्रेष्ठो विधिर्बाह्यः सनातनः । आयुः कीर्तिः प्रजाश्चैव प्रज्ञासंततिवर्धनः ॥ ६

वायु पुराण · पृष्ठ 287, कुल 465 में से · BharatKosha