वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 335, कुल 465 में से
संदर्भ में पढ़ें३२६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८९-९० श्लो०२३-१।२१] (सोमजन्मकथनम्) धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः। तस्मिन्संतष्ठते वंशो जनकानां महात्मनाम्॥ इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २३ इति महापुराणे वायुप्रोक्ते मैथिलवंशानुकीर्तनं नाम नवाशीतितमोऽध्यायः॥ ८९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-७१९८
अथ नवतितमोऽध्यायः।
तत्र सोमजन्मविवरणम्।
सूत उवाच-- पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः। तत्रात्रिः सर्वलोकानां तस्थौ स्वेनमये धृतः॥ १ कर्मणा मनसा वाचा शुभान्येव समाचरन्। काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः॥ २ सुदुश्चरं नाम तपो येन तप्तं महत्पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥ ३ तस्योर्ध्वरेतसस्तत्र स्थितस्यानिमिषस्पृहा। सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः॥ ४ ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। सोमः सुस्राव नेत्राभ्यां दश वा द्योतयान्दिशः॥ ५ तं गर्भं विधिनाऽऽदिष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्नच तास्तमशक्नुवन्॥ ६ स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। यथाऽवभासयँल्लोकांशीतांशुः सर्वभावनः॥ ७ यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः। ततः स ताभिः शीतांशुर्निपपात वसुंधराम्॥ ८ पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया॥ ९ स हि देवमयो विप्रा धर्मार्थी सत्यसंगरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम्॥ १० तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः॥ ११ तत्रैवाङ्गिरसस्तस्य भृगोश्चैवाऽत्मजस्तथा। ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि॥ १२ ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः। आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः॥ १३ स तेन रथमुख्येन सागरान्तां वसुंधराम्। त्रिःसप्तकृत्वो विपुलश्चकाराभिप्रदक्षिणम्॥ १४ तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत। ओषध्यस्ताः समुद्भूतास्तेजसा संज्वलन्त्युत॥ १५ ताभिर्धारयत्ययं लोकान्प्रजाश्चापि चतुर्विधाः। पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः॥ १६ स लब्धतेजास्तपसा संस्तवैस्तैश्च कर्मभिः। तपस्तेपे महाभागः पद्मानां दशतीर्दश॥ १७ हिरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत्। विभुस्तासां भवेत्सोमः प्रख्यातः स्वेन कर्मणा॥ १८ ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः। बीजौषधिषु विप्राणामपां च द्विजसत्तमाः॥ १९ सोऽभिषिक्तो महातेजा महाराज्येन राजराट्। लोकानां भावयामास स्वभावाश्चपतां वरः॥ २० सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः। ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥ २१