वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 336, कुल 465 में से
संदर्भ में पढ़ें[अ० ९० श्लो० २२-४९] वायुपुराणम् । ३२७
( सोमजन्मकथनम् )
स तत्प्राप्य महद्राज्यं सोमः सोमवतां प्रभुः । समा जज्ञे राजसूयं सहस्रशतदक्षिणम् ॥ २२
हिरण्यगर्भोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् । सदस्यस्तत्र भगवान्हरिर्नारायजः प्रभुः ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २३
दक्षिणामददत्सोमस्त्रींल्लोकानिति नः श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यण वै द्विजाः ॥
तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः । कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥
प्राप्यावभृथमव्ययः सर्वदेवर्षिपूजितः । अतिराजातिराजेन्द्रो दशधाऽतापयाद्दिशः ॥ २६
तदा तत्प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् । स विभ्रममतिर्वीमा विनयोऽविनयाहतः ॥ २७
बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् । जहार सहसा सर्वानवमत्याङ्गिरःसुतान ॥ २८
स याचमानो देवैश्च तथा देवर्षिभिश्च ह । नैव व्यसर्जयत्तारां तस्मायाङ्गिरसे तदा ॥ २९
लशना तस्य जग्राह पार्ष्णिमाङ्गिरसो द्विजाः । स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पते ॥ ३०
तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः । पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याऽऽजगवं धनुः ॥ ३१
तेन ब्रह्मर्षिमुख्येभ्यः परमास्त्रं बहात्मना । उद्दिश्य देवानुत्सृष्टं येनेषां नाशितं यशः ॥ ३२
तत्र तद्युद्धमभवत्प्रत्यक्षं तारकामयम् । देवानां दानवानां च लोकक्षयकरं महत् ॥ ३३
तत्र शिष्टास्त्रयो देवास्तुषिताश्चैव ये स्मृताः । ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ ३४
ततो निवार्यौशनसं रुद्रं ज्येष्ठं च शंकरम् । ददावाङ्गिरसे तारां स्वयमव पितामहः ॥ ३५
अन्तर्वत्नी च तां दृष्ट्वा तारां ताराधिपाननाम् । गर्भमुत्सृजसे न त्वं विप्रः प्राह बृहस्पतिः ॥ ३६
मदीयायां तनौ योनौ गर्भो धार्यः कथं च न । अथो नावसृजत्तं तु कुमारं दस्युहन्तमम् ॥ ३७
ईषिकास्तम्बमासाद्य ज्वलन्तमिव पावकम् । जातमात्रोऽथ भगवान्देवानामाक्षिपद्वपुः ॥ ३८
ततः संशयमापन्नास्तारामकथयन्सुरः । सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ३९
ह्रियमाणा यदा देवानाऽऽह सा साध्वसाधु वा । तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ४०
तं निवार्य तदा ब्रह्मा तारां चन्द्रस्य शंस यः । यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ४१
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् । सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ॥ ४२
ततः सुतमुपाघ्राय सोमो दाता प्रजापतिः । बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ॥ ४३
मतिपूर्वं च गमने समभ्युत्तिष्ठते बुधैः । उत्पादयामास तदा पुत्रं वै राजपुत्रिका ॥ ४४
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः । उर्वश्यां जज्ञिरे तस्य पुत्राः षट्सुमहौजसः ॥ ४५
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा । ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ॥
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ ४६
तस्य तत्पापशमनं चकारात्रिर्महायशाः । स राजयक्ष्मणा मुक्तः श्रिया जज्वल सर्वशः ॥ ४७
एतत्सोमस्य वै जन्म कीर्तितं द्विजसत्तमाः । वंशं तस्य द्विजश्रेष्ठाः कीर्त्यमानं निबोधत ॥ ४८
धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् । सोमस्य जन्म श्रुत्वैव सर्वपापैः प्रमुच्यते ॥ ४९
इति श्रीमहापुराणे वायुप्रोक्ते सोमोत्पत्तिकथनं नाम नवतितमोऽध्यायः ॥ ९० ॥
आदितः श्लोकानां समष्ट्यङ्कः-८००७