वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 337, कुल 465 में से
संदर्भ में पढ़ें३२८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ९०-९१ श्लो० १-२३] (चन्द्रवंशकथनम्)
अथैकनवतितमोऽध्यायः ।
चन्द्रवंशकीर्तनम् ।
सूत उवाच-- सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः । तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १ ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः । आहर्ता चाग्निहोत्रस्य यज्वनां च ददौ महीम् ॥ २ सत्यवाक्कर्मबुद्धिश्च कान्तः संवृतमैथुनः । अतीव पुत्रो लोकेषु रूपेणाप्रतिमोऽभवत् ॥ ३ तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् । उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ ४ तया सहावसद्राजा दश वर्षाणि चाष्ट च । सप्त षट् सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ ५ वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । अलकायां विशालायां नन्दने च वनोत्तमे ॥ ६ गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे । उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च ॥ ७ एतेषु वनमुख्येषु सुरैराचरितेषु च । उर्वश्या सहितो राजा रेमे परमया मुदा ॥ ८
ऋषय ऊचुः-- गन्धर्वी चोर्वशी देवी राजानं मानुषं कथम् । देवानुत्सृज्य संप्राप्ता तन्नो ब्रूहि बहुश्रुत ॥ ९
सूत उवाच-- ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता । ऐलं तु तं वरारोहा समयेन व्यवस्थिता ॥ १० आत्मनः शापमोक्षार्थं नियमं सा चकार तु । अनग्नदर्शनं चैव अकामात्सह मैथुनम् ॥ द्वौ मेषौ शयनाभ्यासे स तावदद्यवतिष्ठते । घृतमात्रं तथाऽऽहारः कालमेकं तु पार्थिव ॥ ११ यद्येष समयो राजन्यावत्कालश्च ते दृढम् । तावत्कालं तु वत्स्यामि एष नः समयः कृतः ॥ १२ तस्यास्तं समयं सर्वं स राजा पर्यपालयत् । एवं सा चावसत्तस्मिन्पुरूरवसि भामिनी ॥ १३ वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता । उर्वशी मानुषे प्राप्ता गन्धर्वाश्चिन्तयान्विताः ॥ १४
गन्धर्वा ऊचुः--- चिन्तयध्वं महाभागा यथा सा तु वराङ्गना । आगच्छेत्तु पुनर्देवानुर्वशी स्वर्गभूषणा ॥ १५ ततो विश्वावसुर्नाम तत्राऽऽह वदतां वरः । तया तु समयस्तत्र क्रियमाणे मतोऽनघः ॥ १६ समयव्युत्क्रमात्सा वै राजानं त्यक्ष्यते यथा । तदहं वच्मि वः सर्वं यथा त्यक्ष्यति सा नृपम् ॥ १७ ससहायो गमिष्यामि युष्माकं कार्यसिद्धये । एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥ १८ स निशायामथाऽऽगम्य मेषमेकं जहार वै । मातृवद्वर्तते सा तु मेषयोश्चारुहासिनी ॥ १९ गन्धर्वागमनं ज्ञात्वा शयनस्था यशस्विनी । राजानमब्रवीत्सा तु पुत्रो मेऽपह्रियतेति वै ॥ २० एवमुक्तो विनिश्चित्य नग्नस्तिष्ठति वै नृपः । नग्नं द्रक्ष्यति मां देवी समयो वितथो भवेत् ॥ २१ ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः । द्वितीयेऽपहृते मेषे ऐलं देवी तमब्रवीत् ॥ २२ पुत्रौ मम हतौ राजन्ननाथाया इव प्रभो । एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ॥ २३