वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 338, कुल 465 में से
संदर्भ में पढ़ें[ अ० ९१ श्लो० २४-५३ ] वायुपुराणम् । ३२९
( चन्द्रवंशकथनम् )
मेषाभ्यां पदवीं राजन्गन्धर्वैर्व्युत्थितामथ । उत्पादिता तु महती माया तद्भवं महत् ॥ २४
प्रकाशिता तु सहसा ततो नग्नमवेक्ष्य सा । नग्नं दृष्ट्वा तिरोभूता अप्सरा कामरूपिणी ॥ २५
तिरोभूतां तु तां ज्ञात्वा गन्धर्वास्तत्र तावुभौ । मेषौ त्यक्त्वा च ते सर्वे तत्रैवान्तर्हिताऽभवन्* ॥ २६
उत्सृष्टावुरणौ दृष्ट्वा राजाऽऽगृह्याऽऽगतः प्रभुः । अपश्यंस्तां तु वै राजा विललाप सुदुःखितः ॥ २७
चचार पृथिवीं चैव मार्गमाणस्ततस्ततः । (+ भ्रममाणः सुदुःखेन विललाप जगत्पतिः ॥ २८
वनेषु सरितां कूलेष्वालयेषु महेषु च । विचचार गिरिश्चेको निर्झरोपवनेषु च ॥ २९
खेटखर्वटवाटीषु नगरे नगरे तथा । पप्रच्छ सकलान्सत्वान्विषादन्निदमब्रवीत् ॥ ३०
किं न पश्यसि रे मूढं मदमूढं विरुध्य माम् । क्व गताऽसि वरारोहे धिके (ङ्मे) जीवितमीदृशम् ॥ ३१
अथापश्यच्च तां राजा कुरुक्षेत्रे महाबलः ॥ ३१
प्लक्षतीर्थे पुष्कारण्यां विगाढेनाम्बुनाऽऽप्लुताम् । क्रीडन्तीमप्सरोभिश्च पञ्चाभिः सह शोभनाम् ॥ ३२
अपश्यत्सा ततः सुभ्रू राजानमविदूरतः । उर्वशी ताः सखीः प्राह अयं स पुरुषोत्तमः ॥ ३३
यस्मिन्नहमवासीति ? दर्शयामास तं नृपम् । तत आविर्बभूवुस्ताः पञ्चचूडाप्सरास्तु ताः ॥ ३४
दृष्ट्वा तु राजा तां प्रीतः प्रलापान्कुरुन्ते बहून् । आयाहि तिष्ठ मनसा घोरे वचसि तिष्ठ हे ॥ ३५
एवमादीनि सूक्ष्माणि परस्परमभाषत । उर्वशी त्वब्रवीच्चैलं सगर्भाऽहं त्वया प्रभो ॥ ३६
संवत्सरात्कुमारस्ते भविता नैव संशयः । निशामेकां तु वै राजा अवसत्तु तया सह ॥ ३७
समहृष्टो जगामाथ स्वपुरं तु महामशाः । गते संवत्सरे राजा उर्वशीं पुनरागमत् ॥ ३८
उषित्वा तु तया सार्धमेकरात्रं महामनाः । कामातँश्चाब्रवीद्दीनो भव नित्यं ममेति वै ॥ ३९
उर्वश्यथाब्रवीच्चैनं गन्धर्वास्ते वरं ददुः । तं वृणीष्व महाराज ब्रूहि चैतांस्त्वमेव हि ॥ ४०
वृणे नित्यं हि सालोक्यं गन्धर्वाणां महात्मनाम् । तथेत्युक्त्वा वरं वत्रे मन्धर्वाश्च तथाऽस्त्विति ॥
स्थालीमग्नेः पूरयित्वा गन्धर्वाश्च तमब्रुवन् । अनेन इष्ट्वा लोकं तं प्राप्स्यसि र्वं नराधिप ॥ ४२
तमादाय कुमारं तु नगरायोपचक्रमे । निक्षिप्य तमरणयां च सुपुत्रस्तु गुहान्यर्यां ॥ ४३
पुनरादाय दृश्यामिभश्वत्थं तत्र दृष्टवान् । समीपत्तस्तु तं दृष्ट्वा ह्यश्वत्थं तत्र विस्मितः ॥ ४४
गन्धर्वेभ्यस्तथाऽऽख्यातुमग्निना गां गतस्तु सः । श्रुत्वा तमर्थमखिलमरणं तु समादिशत् ॥ ४५
अश्वत्थादरणिं कृत्वा मथित्वाऽग्निं यथाविधि । तेनेष्ट्वा तु सलोकं नः प्राप्स्यासि त्वं नराधिप ॥ ४६
मथित्वाऽग्निं त्रिधा कृत्वा ह्ययजत्स नराधिपः । इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ॥ ४७
वासार्थं च स गन्धर्वैस्त्रेतायां स महारथः । एकोऽग्निः पूर्वमासीद्वै ऐलस्त्रींस्तानकल्पयत् ॥ ४८
एवंप्रभावो राजाऽऽसीदैलस्तु द्विजसत्तमाः । देशे पुण्यतमे चैव महर्षिभिरलंकृते ॥ ४९
राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ ५०
तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः । गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥ ५१
विश्वायुश्च शतायुश्च गतायुश्चोर्वशीसुताः । अमावसोतु वै जातो भीमो राजाऽथ विश्वाजित् ॥ ५२
श्रीमान्भीमस्य दायादो राजाऽऽसीत्काञ्चनप्रभः । विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ॥ ५३
* अत्र संधिराषः । + धनुश्चिह्नान्तर्गतग्रन्थः ख पुस्तके विद्यते ।
४२