वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 340, कुल 465 में से
संदर्भ में पढ़ें[अ० ९।श्लो ०८२-१०६] वायुपुराणम् ३३१ ( चन्द्रवंशकथनम् )
शमात्ममृजुं भर्तः पुत्रं मे दातुमर्हसि । काममेवंविधः पुत्रो मम स्यात्तु वद प्रभो ॥ ८२ मद्यपन्यथा न शक्यं वै कर्तुमेव द्विजोत्तम । ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ ८३ पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥ ८४ तस्मात्सत्यवती पुत्रं जनयामास भार्गवम् । तपस्याभिरतं दान्तं जमदग्निं शमात्मकम् ॥ ८५ भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा । जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥ ८६ विश्वामित्रं तु दायादं गाधिः कुशिकनंदनः । प्राप्य ब्रह्मर्षिसमतां जगाम ब्रह्मणा वृतः ॥ ८७ सा हि सत्यवती पुण्या सत्यव्रतपरायणा । कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥ ८८ परिश्रुता महाभागा कौशकी सरितां वरा । इक्ष्वाकुवंशे त्वभवत्सुवेणुर्नाम पार्थिवः ॥ ८९ तस्य कन्या महाभागा कामली नाम रेणुका । रेणुकायां तु कामल्यां तपोद्धृतिसमन्वितः ॥ आर्चीको जनयामास जमदग्निः सुदारुणम् ॥ ९० सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् । रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ ९१ और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः । जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥ मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ॥ ९२ विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः । जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः ॥ ९३ विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवन्मुनिः । हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियतः स वै ॥ ९४
- देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः । देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ ९५ विश्वामित्रस्य पुत्राणां शुनःशेपोऽग्रजः स्मृतः । मधुच्छन्दो नयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥ ९६ कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै । तेषां गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥ ९७ पार्थिवा देवराताश्च याज्ञवल्क्याः समर्षणाः । उदुम्बरा उद्म्लानास्तारका यममुञ्चताः ॥ ९८ लोहिण्या रेणवश्चैव तथा कारीषवः स्मृताः । बभ्रवः पाणिनश्चैव ध्यानजप्यास्तथैव च ॥ ९९ शालावत्या हिरण्याक्षा स्यङ्कृता गालवाः स्मृताः । देवला यामदूताश्च सालङ्कायनाबाष्कलाः॥ १०० ददातिबादराश्चान्ये विश्वामित्रस्य धीमतः । ऋष्यन्तरविवाहास्ते बहवः कौशिकाः स्मृताः ॥ १०१ कौशिकाः सौश्रुताश्चैव तथाऽन्ये सैंधवायनाः । पौरोरवस्य पुण्यस्य ब्रह्मर्षेः कौशिकस्य तु ॥ १०२ दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः । अष्टकस्य सुतो यो हि प्रोक्तो जह्नुगणो मया ॥ १०३
ऋषय ऊचुः--
किं लक्षणेन धर्मेण तपसेह श्रुतेन वा । ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ॥ १०४ येन येनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः । विशेषं ज्ञातुमिच्छामस्तपसा दानतस्तथा ॥ १०५ एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत् । अन्यायोपगतैर्द्रव्यैराहूय द्विजसत्तमान् ॥ धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ १०६
* इदमर्धं नास्ति क. पुस्तके ।