वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 341, कुल 465 में से
संदर्भ में पढ़ें३३२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ९१-९२ श्लो० १०७-११८ । १-८] (चन्द्रवंशकीर्तनम)
धर्मं चैतं समाख्याय पापात्मा पुरुषाधमः । ददाति दानं विप्रेभ्यो लोकानां दम्भकारणात् ॥ १०७ जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः । रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥ १०८ तेन दत्तानि दानानि अफलानि भवन्त्युत । तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥ १०९ एवं लब्ध्वा धनं मोहाद्ददतो यजतश्च ह । संक्लिष्टकर्मणो दानं न तिष्ठति दुरात्मनः ॥ ११० न्यायागतानां द्रव्याणां तीर्थे संप्रतिपादनम् । कामाननभिसंधाय यजते च ददाति च ॥ १११ स दानफलमाप्नोति तच्च दानं सुखोदयम् । दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥ ११२ तपसा तु सुगुप्तेन लोकान्विष्टभ्य तिष्ठति । विष्टभ्य स तु तेजस्वी लोकेष्वानन्त्यमश्नुते ॥ ११३ दानाच्छ्रेयस्तथा यज्ञो यज्ञाच्छ्रेयस्तथा तपः । संन्यासस्तपसः श्रेयांस्तस्माज्ज्ञानं गुरु स्मृतम् ॥ ११४ श्रूयन्ते हि तपःसिद्धाः क्षात्रोपेता द्विजातयः । विश्वामित्रो नरपतिर्मांधाता संकृतिः कपिः ॥ ११५ कपेश्च पुरुकुत्सश्च सत्यश्चानुह्ववान्पृथुः । आर्ष्टिषेणोऽजमीढश्च भागान्योऽन्यस्तथैव च ॥ ११६ कक्षीवश्चैव शिज्यस्तथाऽन्ये च महारथाः । रथीतरश्च रुन्दश्च विष्णुवृद्धादयो नृपाः ॥ ११७ क्षात्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः । एते राजर्षयः सर्वे सिद्धिं सुमहतीं गताः ॥ अत ऊर्ध्वं प्रवक्ष्यामि अयोर्वंशं महात्मनः ॥ ११८
इति महापुराणे वायुप्रोक्ते अमावसुवंशानुकीर्तनम् नामैकनवतितमोऽध्यायः ॥ ९१ ॥ आदितः श्लोकानां समष्ट्यङ्काः—८१२२
अथ द्विनवतितमोऽध्यायः ।
चन्द्रवंशकीर्तनम् ।
सूत उवाच— एते पुत्रा महात्मानः पञ्चैवाऽसन्महाबलाः । स्वर्भानुतनया विप्राः प्रभायां जज्ञिरे नृपाः ॥ १ नहुषः प्रथमस्तेषां पुत्रधर्मा ततः स्मृतः । धर्मवृद्धात्मजश्चैव सुतहोत्रो महायशाः ॥ २ सुतहोत्रस्य दायादास्त्रयः परमधार्मिकाः । काशः कालश्च द्वावेतौ तथा गृत्समदः प्रभुः ॥ ३ पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः । ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ॥ ४ एतस्य वंशे संभूता विचित्रैः कर्मभिर्द्विजाः । शलात्मजो ह्यार्ष्टिषेणश्चरन्तस्तस्य चात्मजः ॥ ५ शौनकाश्चाऽऽर्ष्टिषेणाश्च क्षात्रोपेता द्विजातयः । काशस्य काशयो राष्ट्रः पुत्रो दीर्घतपास्तथा ॥ ६ धर्मश्च दीर्घतपसो विद्वान्धन्वन्तरिस्ततः । तपसा सुमहातेजा जातो वृद्धस्य धीमतः ॥ ७ अथैनमृषयः प्रोचुः सूतं वाक्यमिमं पुनः ॥
ऋषय ऊचुः— कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् । एतद्वेदितुमिच्छामस्ततो ब्रूहि प्रियं तथा ॥ ८