वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 342, कुल 465 में से
संदर्भ में पढ़ें[अ०९२श्लो०९-३१] वायुपुराणम् । ३३३
( चन्द्रवंशकीर्तनम् )
सूत उवाच-- धन्वन्तरेः संभवोऽयं श्रूयतामिह वै द्विजाः । स संभूतः समुद्रादन्तं मध्यमानेऽमृते पुरा ॥ ९ उत्पन्नः सकलात्पूर्वं सर्वतश्च श्रिया वृतः । सर्वसांसिद्धिकायं तं दृष्ट्वा विष्टम्भितः स्थितः ॥ अजस्त्वमिति होवाच तस्मादजस्तु स स्मृतः ॥ १० अजः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो । विधत्स्व भागं स्थानं च मम लोके सुरोत्तम ॥ ११ एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः । कृतो यज्ञविभागस्तु यज्ञियैर्हि सुरैस्तथा ॥ १२ वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः । न शक्यमि(इ)ह होमो वै तुल्यं(ल्यः) कर्तुं कदाचन ॥ अर्वाक्सुतोऽसि हे देव नाममन्त्रोऽसि वै प्रभो । द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि ॥ आणिमादियुता सिद्धिर्गर्भस्थस्य भविष्यति । तेनैव च शरीरेण देवत्वं प्राप्स्यसि प्रभो ॥ चरुमन्त्रैर्घृतैर्गन्धैर्यक्ष्यन्ति त्वां द्विजातयः ॥ १५ अथ च त्वं पुनश्चैव आयुर्वेदं विधास्यसि । अवश्यंभावी ह्यर्थोऽयं प्राक्सृष्टस्त्वब्जयोनिना ॥ १६ द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः । तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः ॥ १७ द्वितीये द्वापरे प्राप्ते शौनहोत्रः प्रकाशिराट् । पुत्रकामस्तपस्तेपे नृपो दृढितपास्तथा ॥ १८ अजं देवं तु पुत्रार्थे ह्यारराधयिषुर्नृपः । वरेण च्छन्दयामास प्रीतो धन्वन्तरिर्नृपम् ॥ १९
नृप उवाच-- भगवन्यदि तुष्टस्त्वं पुत्रो मे धृतिमान्भव । तथेति समनुज्ञाय तत्रैवान्तरधायित ॥ २० तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । काशिराजो महाराजः सर्वरोगप्रणाशनः ॥ २१ आयुर्वेदं भारद्वाजश्चकार समिषक्क्रियम् । तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ २२ धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः । अथ केतुमतः पुत्रो विप्रो भीमरथो नृपः ॥ दिवोदास इति ख्यातो वाराणस्याधिपोऽभवत् ॥ २३ एतस्मिन्नेव काले तु पुरीं वाराणसीं पुरा । शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ २४ शप्ता हि सा पुरी पूर्वं निकुम्भेन महात्मना । शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥ २५ तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ २६
ऋषय ऊचुः-- वाराणसीं किमर्थं तां निकुम्भः शप्तवान्पुरा । निकुम्भश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः ॥ २७
सूत उवाच-- दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः । वसते स महातेजाः स्फीतायां वै नराधिपः ॥ २८ एतस्मिन्नैव काले तु कृतदारो महेश्वरः । देव्याः स प्रियकामस्तु वसानः श्वशुरान्तिके ॥ २९ देवाज्ञया पारिषदा विश्वरूपस्तपोधनाः । पूर्वोक्तै रूपविशेषैस्तोष्यन्ति महेश्वरीम् ॥ ३० हृष्यति तैर्महादेवो मेना नैव तु हृष्यति । जुगुप्सते सा नित्यं च देवं देवीं तथैव च ॥ ३१