भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 343, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 343

३३४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१२श्लो०३२-५८] ( चन्द्रवंशकीर्तनम् )

मम पार्श्वे त्वनाचारस्तव भर्ता महेश्वरः । दरिद्रः सर्व एवेह अक्लिष्टं लडतेऽनघे ॥ ३२ मात्रा तथोक्ता वचसा स्त्रीस्वभावान्नचाक्षपत् । स्मितं कृत्वा तु वरदा ह्यपार्थमथागमत् ॥ ३३ विषण्णवदना देवी महादेवमभाषत । नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥ ३४ तथोक्तस्तु महादेवः सर्वांल्लोकानवेक्ष्य ह । वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ॥ वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः ॥ ३५ दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः । पार्श्वस्थं स समाहूय गणेशं क्षेमकं *ब्रवीत् ॥ ३६ गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु । मृदुना चाभ्युपायेन अतिवीर्यः स पार्थिवः ॥ ३७ ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं पुरा । स्वप्ने संदर्शयामास मङ्कनं नाम नापितम् ॥ ३८ श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ । मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय ॥ ३९ तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजाः । नगरीद्वार्यनुज्ञाप्य राजानं तु यथाविधि ॥ ४० पूजा तु महती चैव नित्यमेव प्रयुज्यते । गन्धैर्धूपैश्च माल्यैश्च प्रेक्षणीयैस्तथैव च ॥ ४१ अन्नप्रदानयुक्तैश्च अत्यद्भुतमिवाभवत् । एवं संपूज्यते तत्र नित्यमेव गणेश्वरः ॥ ४२ ततो वरसहस्राणि नगराणां प्रयच्छति । पुत्रान्हिरण्मयायूंषि सर्वकामांस्तथैव च ॥ ४३ राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता । पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता ॥ ४४ पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत । पुनः पुनरथाऽऽगम्य बहुशः पुत्रकारणात् ॥ ४५ न प्रयच्छति पुत्रांस्तु निकुम्भः कारणेन तु । राजा यदि तु क्रुध्येत ततः किंचित्प्रवर्तते ॥ ४६ अथ दीर्घेण कालेन क्रोधो राजानमाविशत् । भूतं त्विदं महाद्वारि नागराणां प्रयच्छति ॥ ४७ प्रीत्या वरांश्र्व शतशो न किंचिन्न प्रयच्छति । मामकैः पूज्यते नित्यं नगर्यां मम चैव तु ॥ ४८ तत्रार्चितश्च बहुशो देव्या मे तत्र कारणात् । न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः ॥ ४९ अतो नार्हति पूजां तु मत्सकाशात्कथंचन । तस्मात्तु नाशयिष्यामि तस्य स्थानं दुरात्मनः ॥ ५० एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी । स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ॥ ५१ भग्नमायतनं दृष्ट्वा राजानमगमत्प्रभुः । यस्माधनपराधं मे त्वया स्थानं विनाशितम् ॥ ५२ अकस्मात्तु पुरी शून्या भवित्री ते नराधिप । ततस्तेन तु शापेन शून्या वाराणसी तदा ॥ ५३ शप्त्वा पुरीं निकुम्भस्तु महादेवमथानयत् । शून्यां पुरीं महादेयो निर्ममे परमात्मना ॥ ५४ तुल्यां देवविभूत्यास्तु देव्याश्चैव महात्मनः । रमते तत्र वै देवी रममाणो महेश्वरः ॥ ५५ न रतिं तत्र वै देवी लभते गृहविस्मयात् । देव्याः क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥ ५६ नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम् । महस्यैनामथोवाच आविमुक्तं हि मे गृहम् ॥ ५७ नाहं देवि गमिष्यामि गच्छस्वैह वसाम्यहम् । तस्मात्तदाविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ ५८


* अत्राडभाव आर्षः ।