वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 345, कुल 465 में से
संदर्भ में पढ़ें३३६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१२-९३श्लो०८४-९९।१-४] (चन्द्रवंशवर्णनम्)
स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः । भविष्यसीन्द्रो जित्वेति देवैरपि निमन्त्रितः ॥ ८४
जघान दानवान्सर्वान्समक्षं वज्रपाणिनः । स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ ८५
निहत्य दानवान्सर्वानाजहार रजिः प्रभुः । तं तथा तु रजिं तत्र देवैः सह शतक्रतुः ॥ ८६
रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः । इन्द्रोऽसि राजन्देवानां सर्वेषां नात्र संशयः ॥
मस्याहामिन्द्र पुत्रस्ते ख्यातिं यास्यामि शत्रुहन् ॥ ८७
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया । तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम् ॥ ८८
तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ । दायाद्यमिन्द्रादाजह्रूरुदाचारं तनया रजेः ॥ ८९
तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः । समक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ॥ ९०
ततः काले बहुतिथे समतीते महाबलः । हतराज्योऽब्रवीच्छक्रो हतभागो बृहस्पतिम् ॥ ९१
बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे । ब्रह्मर्षे येन तिष्ठयं तेजसाऽऽप्यायितस्ततः ॥ ९२
ब्रह्मन्कृशोऽयं विमना हतराज्यो हताशनः । हतौजा दुर्बलो मूढो रजिपुत्रैः प्रसीद मे ॥ ९३
बृहस्पतिरुवाच—
यद्येव चोदितः शक्र त्वया स्यां पूर्वमेव हि । नाभविष्यत्त्वत्प्रित्यार्थं नाकर्तव्यं ममानघ ॥ ९४
प्रयातिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते । यथा भागं च राज्यं च अचिरात्प्रतिपत्स्यसे ॥ ९५
तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः । ततः कर्म चकारास्य तेजःसंवर्धनं महत् ॥ ९६
तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः । ते यदा ससुता मूढा रागोन्मत्ता विधर्मिणः ॥ ९७
ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः । ततो लेभे सुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् ॥ ९८
हत्वा राजिसुतान्सर्वान्कामक्रोधपरायणान् । य इदं पावनं स्थानं प्रतिष्ठानं शतक्रतोः ॥
शृणुयाद्वा रजेर्वाऽपि न स दौरात्म्यपमाप्नुयात् ॥ ९९
इति श्रीमहापुराणे वायुप्रोक्ते रजियुद्धं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥
आदितः श्लोकानां समष्ट्यङ्काः—८२२२
अथ त्रिनवतितमोऽध्यायः ।
चन्द्रवंशवर्णनम् ।
ऋषय ऊचुः—
मरुत्तेन कथं कन्या राज्ञे दत्ता महात्मना । किंवीर्याश्च महात्मानो जाता मरुत्तकन्यकाः ॥ १
सूत उवाच—
आहवन्तं मरुत्सोममन्नकामः मजेश्वरम् । मासि मासि महातेजाः षष्ठिसंवत्सरान्नृपः ॥ २
तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः । अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥ ३
अन्नं तस्य सकृत्पक्कमहोरात्रे न क्षीयते । कोटिशो दीयमानं च सूर्यस्योदयनादपि ॥ ४