वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 350, कुल 465 में से
संदर्भ में पढ़ें[अ० ९३-९४ श्लो० १०२-१०४।१-२०] वायुपुराणम् । ३४१ (कार्तवीर्योत्पत्तिकथनम्) एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् । भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥ पालयित्वा व्रतशतं तत्रैव स्वर्गमा(पवान्)मुयात् ॥ १०२ तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः । यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभास्तिभिः ॥ १०३ धन्यः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः । ययातेश्चरितं सर्वं पठञ्छृण्वन्द्विजोत्तमः ॥ १०४ इति श्रीमहापुराणे वायुप्रोक्ते ययातिप्रसवकीर्तनं नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥ आदितः श्लोकानां समष्टयङ्काः-८३२८
अथ चतुर्नवतितमोऽध्यायः । कार्तवीर्यार्जुनोत्पत्तिविवरणम् । सूत उवाच-- यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणाऽऽनुपूर्व्या च गदतो मे निबोधत ॥ १ यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः । सहस्राजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ॥ २ सहस्राजित्सुतः श्रीमाञ्शतजिन्नाम पार्थिवः । शतजित्सुता विख्यातास्त्रयः परमधार्मिकाः ॥ ३ हैहयश्च हयश्चैव राजा वेणुहयश्च यः । हैहयस्य तु दायादो धर्मतन्त्र इति श्रुतिः ॥ ४ धर्मतन्त्रस्य कीर्तिस्तु संज्ञेयस्तस्य चाऽऽत्मजः । संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ ५ आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् । वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥ ६ भद्रश्रेण्यस्य दायादो दुर्दमदो नाम पार्थिवः । दुर्दमदस्य ततो धीमान्कनको नाम विश्रुतः ॥ ७ कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः । कृतवीर्यः कार्तिवीर्यः कृतवर्मा तथैव च ॥ ८ कृतो जातश्चतुर्थोऽभूत्कृतवीर्यात्ततोऽर्जुनः । जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥ ९ स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । दत्तमाराधयामास कार्तवीर्योऽत्रिसंभवम् ॥ १० तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः । पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ॥ ११ अधर्मे दीयमानस्य सद्भिस्तस्मान्निवारणम् । धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ॥ १२ सङ्ग्रामांस्तु बहूञ्जित्वा हत्वा चारीन्सहस्रशः । सङ्ग्रामे युध्यमानस्य वधः स्यादाधिकाद्रणे ॥ १३ तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना । समोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ॥ १४ तस्य बाहुसहस्रं तु युध्यतः किल धीमतः । यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ॥ १५ दश यज्ञसहस्राणि तेषु द्वीपेषु सप्तसु । निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ॥ १६ सर्वे यज्ञा महाबाहोस्तस्याऽऽसम्भूरितेजसः । सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥ १७ सर्वे देवैर्महाभागैर्विमानस्थैरलंकृताः । गन्धर्वरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ १८ तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा । चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥ १९ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति मानवाः । यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ २०