वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 351, कुल 465 में से
संदर्भ में पढ़ें३४२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १४ श्लो० २१-४७] (कार्तवीर्योत्पत्तिकथनम्)
द्वीषेषु सप्तसु स वै खड्गी वरशरासनी। रथी राजाऽप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते ॥ २१ अनष्टद्रव्यश्चैवाऽसीन्न शोको न च विभ्रमः। प्रभावेण महाराजः प्रजा धर्मेण रक्षतः ॥ २२ पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः। स सप्तद्वीपवान्सम्राट् चक्रवर्ती बभूव ह ॥ २३ स एष पशुपालोऽभूत्क्षेत्रपालस्तथैव च। स एव वृष्ट्या पर्जन्यो योगित्वार्जुनोऽभवत् ॥ २४ स वै बाहुसहस्रेण ज्याघातकठिनेन च। भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥ २५ स हि नागसहस्रेण महिष्मत्यां नराधिपः। कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत् ॥ २६ स वै वेगं समुद्रस्य प्रावृट्कालाम्बुजेक्षणः। क्रीडाञ्चिव मुखोद्भिग्नः प्रावृट्कालं चकार ह ॥ २७ लुलिता क्रीडता तेन हेमस्स्रग्दाममालिनी। ऊर्मिभेरूकूटिसंन्नादा शङ्किताऽभ्येति नर्मदा ॥ २८ पुरा स तामनुसरन्ववगाढो महार्णवम्। चकारोद्धृत्य वेलान्तं स कालं प्रावृषाद्वनम् ॥ २९ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ। भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥ ३० चूर्णीकृतमहावीचिलीनमीनमहाविषाः। पतिता विद्धफेनौघमावर्तक्षिप्तदुस्सहम् ॥ ३१ चकार क्षोभयन्न्राजा दोःसहस्रेण सागरम्। देवासुरपरीक्षिप्तं क्षीरोदमिव सागरम् ॥ ३२ मन्दरक्षोभणकृता ह्यमृतोदकशङ्किताः। सहसोत्पादि(टि)ता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ ३३ नतानिश्चलमूर्धानो बभूवुश्च महोरगाः। सायाह्ने कदलीषण्डा निर्वातस्तिमित्ता इव ॥ ३४ स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चाभिः शतैः। लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ॥ निर्जित्य बद्ध्वा चाऽऽनीय माहिष्मत्यां बबन्ध तम् ॥ ३५ ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत्। मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ॥ ३६ तस्य बाहुसहस्रस्य बभूव ज्यातुलस्वनः। युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ॥ ३७ अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिछनत्। मृधे सहस्रं बाहूनां हेमताुलवनं यथा ॥ ३८ तृषितेन कदाचित्स भिक्षितश्चित्रभानुना। सप्त द्वीपांश्चित्रभानोः पादाद्भिक्षां विशां पतिः ॥ ३९ पुराणि घोषान्यामांश्च पत्तनानि च सर्वशः। जज्वल तस्य बाणेषु चित्रभानुर्दिधक्षया ॥ ४० स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः। पदाह कार्तवीर्यस्य शैलांश्चापि वनानि च ॥ ४१ स शून्यमाश्रमं सर्वं वरुणस्याऽऽत्मजस्य वै। ददाह सवनद्वीपांश्चित्रभानुः सहैहयः ॥ ४२ स लेभे वरुणः पुत्रं पुरा भ्राश्विनमुत्तमम्। वसिष्ठनामा स मुनिः ख्यातं आपव इत्युत ॥ ४३ तत्राऽऽपवस्तदा क्रोधादर्जुनं शमपान्विभुः। यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥ ४४ तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति। अर्जुनो नाम कौन्तेयो न च राजा भविष्यति(?) ॥ ४५ अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः। छित्त्वा वाहुसहस्रं वै प्रमथ्य तरसा बली ॥ ४६ तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः। तस्य रामस्तदा ह्यासीन्मृगुः शापेन धीमतः ॥ ४७