वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 352, कुल 465 में से
संदर्भ में पढ़ें[अ०९४-९५श्लो०४८ ५६।१-७] वायुपुराणम् । ३४३
( ज्यामघवृत्तकथनम् )
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा । तस्य पुत्रशतं ह्यासीत्पञ्च तत्र महारथाः ॥ ४८
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः । शूरश्च शूरसेनश्च वृष्टद्याद्यं वृष एव च (?) ॥ ४९
जयध्वजश्च वै पुत्रा अवन्तिषु विशांपतेः । जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ॥ ५०
तस्य पुत्रशतं ह्येव तालजङ्घाः इति श्रुतम् । तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ॥ ५१
वीर्होत्रा ह्यसंख्याता भोजाश्चावर्तयस्तथा । तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ॥ ५२
वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः । दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ॥ ५३
अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह । प्रभावेन महाराजः प्रजास्ताः पर्यपालयत् ॥ ५४
न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः । कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः ॥ ५५
वित्तवान्भवतेऽत्रैव धर्मश्चास्य विवर्धते । यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ॥ ५६
इति महापुराणे वायुप्रोक्ते कार्त्तवीर्यार्जुनोत्पत्तिविवरणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—८३८४
अथ पञ्चनवतितमोऽध्यायः ।
ज्यामघव़ृत्तान्तकथनम् ।
ऋषय ऊचुः—
किमर्थं भुवनं दग्धमापवस्य महात्मनः । कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ॥ १
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् । कथं स रक्षिता भूत्वाऽनाशयत्तत्तपोवनम् ॥ २
सूत उवाच—
आदित्यो विप्ररूपेण कार्त्तवीर्यमुपस्थितः । तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ॥ ३
राजोवाच—
भगवन्केन ते तृप्तिर्भवेद्ब्रूहि दिवाकर । कीदृशं भोजनं दद्मि श्रुत्वा च विदधाम्यहम् ॥ ४
सूर्य उवाच—
स्थावरं देहि मे सर्वमाहारं ददतां वर । तेन तृप्तो भवेयं वै न तुष्येऽन्येन पार्थिव ॥ ५
राजोवाच—
न शक्यं स्थावरं सर्वं तेजसा मानुषेण तु । निर्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणमाम्यहम् ॥ ६
आदित्य उवाच—
तुष्टस्तेऽहं शरान्दाद्मि अक्षयान्सर्वतः सुखान् । प्रक्षिप्ताः प्रज्वलिष्यन्ति मम तेजःसमन्विताः ॥ ७